Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 704
________________ पल्योपमसागरोपमस्वरूप-प्रयोजने ] चरमेऽधिकारे स्थितिसमुदाहारः [ ६३१ इदमुक्तं भवति-संख्यातीतानां कालादीनां गणनायामागमोक्तानि पारिभापिकाणि पल्योपमसागरोपमादीनि परिमाणान्याश्रीयन्ते, तत्र-उद्धारा-ऽद्धा-क्षेत्रपल्योपमभेदात् त्रिविधं पल्योपमम् , सूक्ष्म-बादरभेदादेकैकं पुनर्द्धिधा । एवं सागरोपममपि । तत्रा-ऽऽयामविस्ताराभ्यामवगाहेन चोत्सेधागुलनिष्पन्नैकयोजनमानो वृत्ततया परिधिना किश्चिन्यूनषड्भागैरभ्यधिकत्रियोजनमानः पल्यविशेषो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कृष्टतः सप्तभिरहोभिः प्ररूढानि यानि युग्मिवालाग्राणि तैः प्रचविशेषानिबिडतरमाकण्ठं तथा भ्रियते यथा तानि वालाग्राणि वह्निना न दह्यन्ते, न वा वायुनाऽपनेतु शक्यन्ते, न च तावन्मात्रम् , किन्तु जलमपि तानि न कोथयति, इत्येवं निबिडतरभृतात् तस्मात्पल्यात् प्रतिसमयमेकैकवालाग्रापहारे यावता कालेन स पल्यः सर्वात्मना निलेपो जायते तावान् संख्येयसमयप्रमाणकालो बादरोद्धारपल्योपमं प्रोच्यते, बादरोद्धारपल्योपमानां दशकोटिकोटिभिर्वादरोद्धारसागरोपमो जायते । सूक्ष्मोद्धारपल्योपमस्त्वेवंरुपोऽभिहित:-यथोक्ते पल्ये यानि वालाग्राणि भूतान्यासन् तानि प्रत्येकमत्रासंख्येयखण्डानि कृत्वा पूर्ववदेव सुबहुनिविडं पल्ये भ्रियन्ते, एतानि च वालाग्राण्यतीवसूक्ष्माणि, द्रव्यतस्तु निर्मलनेत्रैः छअस्थैः सुबहुप्रयत्नेन यद् द्रव्यविशेषं चाक्षुसप्रत्यक्षविषयीक पार्यते तद्रव्यादप्यसंख्येयभागमात्राणि प्रत्येकं सन्ति, क्षेत्रतस्तु तानि प्रत्येकं सूक्ष्मपनकशरीरस्यावगाहक्षेत्रादसंख्येयगुणं क्षेत्रमवगाहन्ते, एतेषां च पल्यभूतानां वालाग्राणामसंख्येयतया प्रतिसमयमेकैकस्योद्धार संख्यया वर्षकोटिकोटयोऽपगच्छन्तीति कृत्वा संख्येयवर्षकोटिकोटिप्रमाणं मूक्ष्मोद्धारपल्योपमं समवसेयम् । तेषां दशकोटिकोटयः सूक्ष्मोद्धारसागरोपमम् । आभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते, यथा सर्वेऽपि द्वीपसमुद्राः सार्धद्वयोद्धारसागरोपमसमयप्रमिताः । उक्तं चानुयोगद्वारेषु 'एएहिं सुहुमउद्धारपलिओवमसागरोवमेहिं किं पओयणं ? एएहिं दीवसमुदाणं उद्धारे धिप्पइ । केवइया णं भंते ! दीवसमुद्दा उद्धारेणं पन्नत्ता ? गोयमा ! जावइया णं अड्ढाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया णं दीवसमुद्दा उद्वारेणं पन्नत्ता ।।' इति । ननु बादरोद्धारपल्योपम-सागरोपमयोस्तर्हि किं प्रयोजनम् ? न किञ्चिद् । एवं बादराद्धापल्योपम-सागरोपमयो दरक्षेत्रपल्योपम-सागरोपमयोरपि न किञ्चिद्विशेषप्रयोजनं विद्यते, केवलं सूक्ष्मोद्धारपल्योपमादीनां सुखावसेयार्थमादो वादरोद्धारपल्योपमादीनामपि प्ररूपणं क्रियते । पूर्व येषां वालाग्राणां प्रतिसमयमुद्धारेण बादरोद्धारपल्योपमं दर्शितं तेषामेव वालाग्राणामेकैकस्य वर्षशतान्तरेणोद्धरणे यावता कालेन पयनिर्लेपनं भवति तावान् संख्येयवर्षकोटिमानः कालो बादराद्धापल्योपमम् । तेषां दशकोटिकाटयो बादराद्धासागरोपमम् । सूक्ष्मे त्वेवम् पूर्वोक्तस्वरूपादसंख्येयखण्डानि कृत्वाऽऽकण्ठं निबिडं भृतात् पल्यादेकैकस्य वालाग्रस्य वर्षशतेऽतिक्रान्ते निष्काशने यावान् निर्लेपनकालस्तावानसंख्येयवर्षकोटिमानः सूक्ष्ममद्धापल्योपमम् , तेषां दशकोटिकोटयः सूक्ष्म Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762