Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 702
________________ अल्पबहुत्वे भाक्षेपपरिहार०] चरमेऽधिकारे स्थितिसमुदाहारः [ ६२९ न्यसंख्येयान्यपि छेदनकान्यसत्कल्पनयाव एव, एतावन्ति द्विगुणवृद्धिस्थानानि भवन्ति । "ताणि पथोवाणी" त्ति तानि स्थितिबन्धाध्यवसायानां द्विगुणवृद्धिस्थानान्यनन्तरवक्ष्यमाणद्विगुणवृद्धयोरेकान्तरालवर्तिस्थितिबन्धस्थानापेक्षया स्तोकानि, यत इमानि पल्योपमप्रथमवर्गमूलासंख्यभागप्रमितानि सन्ति, वक्ष्यमाणानि त्वसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणानि । चकारः पादपूत्रौं । "तो" ति तेभ्योऽनन्तरोक्तद्विगुणवृद्धिस्थानेभ्यः “होज्जेगंतरमसंखगुणं" ति द्विगुणवृद्धयोरेकमन्तरमसंख्यगुणं भवेत् , एकान्तरालवर्तिस्थितिबन्धस्थानान्यसंख्येयगुणानि सन्तीति भावः । उक्तं च कर्मप्रकृतिचूर्णी _ 'णाणागुणहाणिट्ठाणंतराणिथोवाणि, एग द्वितिबंधज्झवसाणगुणहाणिट्ठाणंतरं असखेजगुणं, सत्तण्ह कम्माणं' इति । नन् “अंगुलसेढीमित्ते उस्सप्पिणीओ असंखिज्जा" इति वचनप्रामाण्यादङगुलमात्रक्षेत्रप्रदेशेभ्यः प्रतिसमयमेकैकप्रदेशापहारेऽसंख्योत्सर्पिण्यवसर्पिणीनामिव तद्वर्गमूलसंख्यातोऽपि तेनैव नीत्या प्रदेशानामपहरणे पूर्वापेक्षया स्तोका अपि ता उत्सर्पिण्यवसर्पिण्य असंख्येया एवापगच्छेयुः, यथा च ताः स्तोका अपि असंख्येयास्तथैव तासां छेदनकानि तदपेक्षया स्तोकतराणि सन्त्यपि स्तोकतरासंख्येयोत्सर्पिण्यवसर्पिणीनां समयप्रमाणानि सम्भवन्ति, किश्च तदसंख्येयभागस्तद्राश्यपेक्षया बह्वसंख्येयसागरोपमप्रमाण एव ग्राह्यः स्याद् , अन्यथा तेषामतिलघुतरभागस्यैव ग्राह्यत्वे मूले आवलिकाया असंख्येयभागः पल्योपमस्याऽसंख्येयभागो वा उक्तः स्यात् , न च तथा उक्तः, मूलोक्तेन 'अगुलमूलच्छेयणअसंखभागो' इत्यनेन बह्वसंख्येयसागरोपमप्रमाणानामध्यवसायद्विगुणवृद्धि स्थानानां ग्राह्यत्वे तु सर्व दुविरुद्धमेव स्यात् , ज्ञानावरणादेरुत्कृष्टस्थितेरपि त्रिंशत्सागरोपमकोटिकोटयादिप्रमाणत्वेन तस्याः प्रतिपल्योपमासंख्येयभागमतिक्रम्यातिक्रम्योत्पद्यमानानामध्यवसायद्विगुणवृद्धिस्थानानां पल्योपमासंख्येयभागगतसमयप्रमाणादधिकानामनुत्पत्तेः । न च सूक्ष्मतरपल्योपमासंख्येयभागप्रमाणस्थितिबन्धस्थानान्यन्तरीकृत्य तेषामध्यवसायस्थानद्विगुणवृद्धिस्थानानामुत्पादने तानि पल्योपमासंख्येयभागप्रमाणादत्यन्ताधिकानि बहुपल्योपमप्रमाणानि भवितुमर्हन्तीति वाच्यम्, यतो तथाकल्पनेऽप्युपर्युक्तदोषस्य दुर्वारत्वमेव; अन्यच्चाध्यवसायानां द्विगुणवृद्धि स्थानापेक्षयैकान्तरस्यासंख्येयगुणत्वं यन्मूले उक्तं तेनापि महान्विरोधः, अनन्तरोपनिधायां यथोत्तरस्थितिबन्धस्थानेषु या स्थितिबन्धाध्यवसायानामसंख्ययभागप्रमाणसंख्यावद्धिरभिमता तेनापि विरोधश्च ? इति चेत्, न, यतोऽङगलमात्रक्षेत्रगताकाशप्रदेशापहारप्रक्रिययाऽसंख्येयोत्सपिण्यवसर्पिणीनामिवाङ्गलप्रथमवर्गमूलतया प्राप्तसंख्याराशितोऽपि प्रतिसमयमेकैकाकाशप्रदेशापहरणप्रक्रिययाऽसंख्येयोत्सर्पिण्यवसर्पिणीनां लाभेऽपि तस्य छेदनकानि त्वतीवस्तोकानि-अद्धापल्योपमासंख्येयभागमात्राण्येव सम्पद्यन्ते, न पुनः स्तोकमात्रोत्सर्पिण्यवसर्पिणीसमयप्रमाणानि, सागरोपमसमयप्रमाणानि पल्योपमसमयप्रमाणानि वा । कुतः १ इति चेत्, उच्यते, किञ्चिदधिकारज्जुप्रमाण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762