________________
अल्पबहुत्वे भाक्षेपपरिहार०] चरमेऽधिकारे स्थितिसमुदाहारः
[ ६२९ न्यसंख्येयान्यपि छेदनकान्यसत्कल्पनयाव एव, एतावन्ति द्विगुणवृद्धिस्थानानि भवन्ति । "ताणि पथोवाणी" त्ति तानि स्थितिबन्धाध्यवसायानां द्विगुणवृद्धिस्थानान्यनन्तरवक्ष्यमाणद्विगुणवृद्धयोरेकान्तरालवर्तिस्थितिबन्धस्थानापेक्षया स्तोकानि, यत इमानि पल्योपमप्रथमवर्गमूलासंख्यभागप्रमितानि सन्ति, वक्ष्यमाणानि त्वसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणानि । चकारः पादपूत्रौं । "तो" ति तेभ्योऽनन्तरोक्तद्विगुणवृद्धिस्थानेभ्यः “होज्जेगंतरमसंखगुणं" ति द्विगुणवृद्धयोरेकमन्तरमसंख्यगुणं भवेत् , एकान्तरालवर्तिस्थितिबन्धस्थानान्यसंख्येयगुणानि सन्तीति भावः । उक्तं च कर्मप्रकृतिचूर्णी
_ 'णाणागुणहाणिट्ठाणंतराणिथोवाणि, एग द्वितिबंधज्झवसाणगुणहाणिट्ठाणंतरं असखेजगुणं, सत्तण्ह कम्माणं' इति ।
नन् “अंगुलसेढीमित्ते उस्सप्पिणीओ असंखिज्जा" इति वचनप्रामाण्यादङगुलमात्रक्षेत्रप्रदेशेभ्यः प्रतिसमयमेकैकप्रदेशापहारेऽसंख्योत्सर्पिण्यवसर्पिणीनामिव तद्वर्गमूलसंख्यातोऽपि तेनैव नीत्या प्रदेशानामपहरणे पूर्वापेक्षया स्तोका अपि ता उत्सर्पिण्यवसर्पिण्य असंख्येया एवापगच्छेयुः, यथा च ताः स्तोका अपि असंख्येयास्तथैव तासां छेदनकानि तदपेक्षया स्तोकतराणि सन्त्यपि स्तोकतरासंख्येयोत्सर्पिण्यवसर्पिणीनां समयप्रमाणानि सम्भवन्ति, किश्च तदसंख्येयभागस्तद्राश्यपेक्षया बह्वसंख्येयसागरोपमप्रमाण एव ग्राह्यः स्याद् , अन्यथा तेषामतिलघुतरभागस्यैव ग्राह्यत्वे मूले आवलिकाया असंख्येयभागः पल्योपमस्याऽसंख्येयभागो वा उक्तः स्यात् , न च तथा उक्तः, मूलोक्तेन 'अगुलमूलच्छेयणअसंखभागो' इत्यनेन बह्वसंख्येयसागरोपमप्रमाणानामध्यवसायद्विगुणवृद्धि स्थानानां ग्राह्यत्वे तु सर्व दुविरुद्धमेव स्यात् , ज्ञानावरणादेरुत्कृष्टस्थितेरपि त्रिंशत्सागरोपमकोटिकोटयादिप्रमाणत्वेन तस्याः प्रतिपल्योपमासंख्येयभागमतिक्रम्यातिक्रम्योत्पद्यमानानामध्यवसायद्विगुणवृद्धिस्थानानां पल्योपमासंख्येयभागगतसमयप्रमाणादधिकानामनुत्पत्तेः । न च सूक्ष्मतरपल्योपमासंख्येयभागप्रमाणस्थितिबन्धस्थानान्यन्तरीकृत्य तेषामध्यवसायस्थानद्विगुणवृद्धिस्थानानामुत्पादने तानि पल्योपमासंख्येयभागप्रमाणादत्यन्ताधिकानि बहुपल्योपमप्रमाणानि भवितुमर्हन्तीति वाच्यम्, यतो तथाकल्पनेऽप्युपर्युक्तदोषस्य दुर्वारत्वमेव; अन्यच्चाध्यवसायानां द्विगुणवृद्धि स्थानापेक्षयैकान्तरस्यासंख्येयगुणत्वं यन्मूले उक्तं तेनापि महान्विरोधः, अनन्तरोपनिधायां यथोत्तरस्थितिबन्धस्थानेषु या स्थितिबन्धाध्यवसायानामसंख्ययभागप्रमाणसंख्यावद्धिरभिमता तेनापि विरोधश्च ? इति चेत्, न, यतोऽङगलमात्रक्षेत्रगताकाशप्रदेशापहारप्रक्रिययाऽसंख्येयोत्सपिण्यवसर्पिणीनामिवाङ्गलप्रथमवर्गमूलतया प्राप्तसंख्याराशितोऽपि प्रतिसमयमेकैकाकाशप्रदेशापहरणप्रक्रिययाऽसंख्येयोत्सर्पिण्यवसर्पिणीनां लाभेऽपि तस्य छेदनकानि त्वतीवस्तोकानि-अद्धापल्योपमासंख्येयभागमात्राण्येव सम्पद्यन्ते, न पुनः स्तोकमात्रोत्सर्पिण्यवसर्पिणीसमयप्रमाणानि, सागरोपमसमयप्रमाणानि पल्योपमसमयप्रमाणानि वा । कुतः १ इति चेत्, उच्यते, किञ्चिदधिकारज्जुप्रमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org