________________
६२८ ]
विहाणे मूलपडिटिइबंधो [ द्विगुणवृद्धिस्थानै-कान्तराल्पबहु०
भवन्ति । अयम्भावः - ज्ञानावरणस्य जघन्यस्थितिबन्धस्थाने यावन्ति स्थितिबन्धाध्यवसायस्थानानि सन्ति तेभ्यः पल्योपमासंख्येयभागमात्राणि स्थितिबन्धस्थानान्यतिक्रम्य परस्मिन्ननन्तरे स्थितिबन्धस्थाने द्विगुणान्यध्यवसायस्थानानि सन्ति, तत आरभ्य पुनरपि पल्योपमासंख्येयभागमात्राः स्थितीरतिक्रम्यानन्तरे स्थितिबन्धस्थाने पुनरपि द्विगुणान्यध्यवसायस्थानानि सन्ति, एवं द्विगुणवृद्धिस्ताद्वक्तव्या यावदुत्कृष्टा स्थितिः । एवमायुर्वर्जशेषकर्मविषयेऽपि द्रष्टव्यम् । उक्तं च कर्मप्रकृतिचूर्णी
'परंपरावणिहार णाणावरणिजस्स जहण्णियाए ठितिबंधज्झवसाणट्ठाणेहिंतो पलिओवमस्स असंखेज्जइभातृणं गुणवड्ढी । एवं दुगुणवड्ढित्ता दुगुणवड्ढित्ता जात्र उक्कस्सिता ठितित्ति' इति ॥ ८४६ || ननु यथोक्तस्थितिबन्धाध्यवसायद्विगुणवृद्धिस्थानानि ज्ञानावरणादेरुत्कृष्टस्थितिं यावत् कियन्ति, किं तानि द्विगुणवृद्धयोरन्तरालवर्तिस्थितिबन्धस्थानेभ्यो ऽधिकान्यूनानि वेत्यत्राह - अंगुलमूलच्छेयणअसंखभागो उ दुगुणठाणाणि ।
ताणि यथोवाणि तओ होज्जेगंतरमसंखगुणं ॥८४७॥
(प्रे०) "अंगुलमूलच्छेयण” इत्यादि, अङ्गुलवर्गमूलछेदनकासंख्येय भागप्रमाणानि, तुकारोऽवधारणे, तत एतावन्त्येव " दुगुणठाणाणि " त्ति ज्ञानावरणादेरेकैकस्य जघन्य स्थितेरारभ्योत्कृष्टां स्थितिं यावल्लभ्यमानानि स्थितिबन्धाध्यवसायानाम् 'द्विगुणस्थानानि' - द्विगुणवृद्धिस्थानानि यथोक्तस्वरूपाणि सन्ति । एतदुक्तं भवति एकाङ्गुलप्रमाणे क्षेत्रे यावन्त आकाशप्रदेशास्तावतां यत्प्रथमं वर्गमूलं तदर्धार्थकरणप्रकारेण छेदनकविधिना तावच्छिद्यते यावद् भागं न सहते, तथा च कृते यावन्ति छेदनकानि प्राप्यन्ते तावतां तेषामसंख्येयानां छेदनकानामसंख्यतमभागप्रमाणानि ज्ञानावरणादेः प्रत्येकमुत्कृष्टस्थितिं यावद्गमने स्थितिबन्धाध्यवसायानां द्विगुणवृद्धिस्थानानि भवन्ति । उक्तं च कर्मप्रकृतिचूर्णी
1
'णाणागुणट्ठितिबंध ज्झवसाणद्वाणंतराणि अंगुलवग्गमूलच्छेयणगाणं असंखेज्जतिमो भागो । 'अंगुल - मूलच्छेयणग' त्ति अंगुलवग्गमूलं छण्णउतिच्छेदणगविद्दीए ताव छिज्जति जाव भागं ण देति' इति । अनाऽसत्कल्पनया - अङ्गुलप्रमाणक्षेत्रे पट्त्रिंशदभ्यधिकपञ्चशतयुतपञ्चषष्टिसहस्राणि (६५५३६) नभः प्रदेशानि कल्प्यन्ते तेषां प्रथमे वर्गमूले षट्पञ्चाशदभ्यधिकशतद्वयं ( २५६ ) नमः प्रदेशाः प्राप्यन्ते तेषां षट्पञ्चाशदस्यधिकशतद्वयसंख्याकानामर्घाऽर्धकरणप्रक्रिययाछेदनकम् - प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पञ्चमम् + ↓
[
+
J
२५६÷२=१२८÷२=६४ : २=३२ ÷ २= १६ ÷ २= ८ ÷२=४÷२=२ - २=१
अष्टौ छेदनकानि लभ्यन्ते, असंख्येयानामप्यसत्कल्पनयाऽष्टसंख्याकानां तेषामसंख्येयभागगता
Jain Education International
For Private & Personal Use Only
षष्ठम् सप्तमम् - +
अष्टमम् +
www.jainelibrary.org