________________
अनन्तर - परम्परोपनिधयाऽध्यवसाय० ] चरमेऽधिकारे स्थितिसमुदाहारः
[ ६२७
तत्कारणीभूताः स्थितिबन्धाध्यवसाया येऽसंख्य लोकाकाशप्रदेशराशितुल्या अभिहिता तेऽपि जघन्यस्थितिबन्धात्मके स्थितिबन्धस्थाने 'स्तोकाः' - स्तोकासंख्य लोकाकाशप्रदेशराशितुल्याः सन्ति, अनन्तरे समयाधिकजघन्यस्थितिबन्धरूपे द्वितीयस्थितिबन्धस्थाने जघन्यस्थितिबन्धात्मकप्रथमस्थितिबन्ध स्थानापेक्षयाऽसंख्यगुणा स्थितिबन्धाध्यवसायाः सन्ति, तेभ्यस्तृतीये द्विसमयाधिकजघन्यस्थितिबन्धरूपेऽनन्तरस्थितिबन्धस्थाने तत्कारणीभूताः स्थितिबन्वाध्यवसाया असंख्यगुणाः सन्ति, एवं तावद् वाच्यं यावदुत्कृष्टस्थितिबन्धात्मकं चरमं स्थितिबन्धस्थानम् । उक्तं च कर्मप्रकृतिचूर्णौ
'आगस्स जहणिगाए ठितिए ठितिबंधज्झवसाणद्वाणाणि थोवाणि | बितियाए असंखेज्जगुणाणि । ततिआए असंखेज्जगुणाणि । एवं जाव उक्कस्सिता ठिति त्ति' ||८|| इति ।
"सत्तण्ह" त्ति आयुर्वजनां शेषाणां ज्ञानावरणादीनां सप्तानां प्रत्येकं "जहण्णाओ" ति पूर्ववजघन्यायाः स्थितेरारभ्य “कमा" त्ति क्रमाद् विशेषाधिकानि यावद् "आ चरमा" सि ज्ञानावरणादीनां प्रत्येकं 'चरमा' - सर्वोत्कृष्टा स्थितिः । स्थितिबन्धाध्यवसनानीति प्रक्रमागम्यते ।
इदमुक्तं भवति - आयु:कर्मणो जघन्यस्थितिबन्धात्मकात्प्रथमस्थितिबन्धस्थानादारभ्य यथोत्तरस्थितिबन्धस्थानेषु यथाऽसंख्यलोकाकाशप्रदेशराशितुल्या अध्यध्यवसाया असंख्यगुणा असंख्यगुणाः प्राप्यन्ते, न तथा शेषकर्मणामपि, किन्तु ज्ञानावरणादीनां शेषकर्मणां जघन्यस्थितेरारभ्य यथोत्तरस्थितिबन्धस्थानेषु तत्कारणीभूता अध्यवसाया विशेषाधिका विशेषाधिका एव प्राप्यन्ते । तद्यथा-ज्ञानावरणस्य जघन्यस्थितिबन्धरूपे प्रथमे स्थितिबन्धस्थाने तत्कारणीभूताः स्थितिबन्धाध्यवसावाः 'स्तोकाः' - स्तोकासंख्यलोकाकाशप्रदेशराशितुल्याः, तदनन्तरवर्तिनि द्वितीये स्थितिबन्धस्थाने तत्कारणीभूता अध्यवसायाः पूर्वापेक्षया विशेषाधिकाः, ततस्तदनन्तरवर्तिनि तृतीये स्थितिबन्धस्थाने तन्धाध्यवसायाः पुनरपि विशेषाधिकाः, एवं विशेषाधिका विशेषाधिकास्तावद् वाच्या यावज्ज्ञानावरणस्योत्कृष्टस्थितिबन्धात्मकं चरमं स्थितिबन्धस्थानम् । एवमेव दर्शनावरणादीनामपि प्रत्येकं वक्तव्यम् । उक्तं च कर्मप्रकृतिचूर्णौ
'णाणावर णिज्जरस जहण्णियाए ठितिए ठितिबंधज्झवसाणाणि थोवाणि | बितियाए ठितिए ठितिबन्धज्झत्र साणट्ठाणाणि विसेसाहियाणि । ततियाए ठितिए ठितिबन्धज्झवसाणाणि विसेसाहियाणि, एवं त्रिसहियाणि विसेसहियाणि जाव उक्कस्सगा द्वितित्ति । एवं आउवज्जाणं सत्तण्हं कम्माणं' इति ।
तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । अथ परम्परोपनिधया तां कुर्वन्नाह - "पलियासंखियभाग" मित्यादि, 'सत्तण्ह जहण्णाओं' इत्यस्यानुवर्त्तनादायुर्वर्जानां सप्तानां जघन्यायाः स्थितेरारभ्य यावत्'चरमा'-उत्कृष्टा स्थितिस्तावत् "पलियाऽसंखियभागं" ति 'पल्यस्य' - पल्योपमस्याऽसंख्यभागम्'-तदीयासंख्यप्रथमवर्गमूलमानम्, पल्योपमासंख्येय प्रथमवर्गमूलगतसमयप्रमाणनिरन्तरस्थितिबन्धस्थानसमूहमिति भावः । एतावद् "गंतु' गंतु” ति 'गत्वा गत्वा' - अतिक्रम्याऽतिक्रम्याऽनन्तरे स्थितिबन्धस्थाने "दुगुणवड्ढी" त्ति स्थितिबन्धकारणीभूताध्यवसायानां द्विगुणवृद्धयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org