________________
६२६ ]
afaणे मूलप डिइिबंधो [ स्थितिबन्धस्थानेष्वव्यवसायप्रगणना जघन्यस्थितिबन्धे, एवं समयसमयवृद्धया यावदुत्कृष्टस्थितिबन्ध इति भावः । प्रतिस्थितिबन्धं किमित्याह - "असंखा लोगा" इत्यादि, नानाजीवानाश्रित्य तेषामेकैकस्य जघन्यादिस्थितिबन्धस्य कारणीभूताः कषायोदयजन्या आत्मनः परिणामविशेषाः 'अध्यवसनानि' - अध्यवसायास्तेषामध्यवसायानामसंख्येया लोकाः, लोकप्रमाणेष्वसंख्येयेषु क्षेत्रखण्डेषु यात्रन्तो नभः प्रदेशाः सन्ति तावत्प्रमाणा अध्यवसाया भवन्तीति भावः । इदमुक्तं भवति - अतीतग्रन्थेऽभिहितानां कार्यरूपाणां जघन्यादिस्थितिबन्धानामसाधारणकारणानि “ठि अनुभागं कसायओ कुणइ" इतिवचनात् कषायोदयजन्या आत्मपरिणामविशेषा अध्यवसाया एव, ते च कषायानुभाववैचित्र्याज्जीवानां विविधाः सन्ति, तेषामसंख्य भागगतेष्वसंख्येयलोकप्रदेशराशितुल्येषु जघन्यस्थितिबन्धप्रायोग्याध्यवसायेष्वन्यतमाध्यसाये वर्तमानो जीवो ज्ञानावरणस्य जघन्यामेव स्थितिं बध्नाति, अतस्तेऽसंख्ये यलोक प्रदेशराशितुल्याः सर्वेऽध्यवसायास्तज्जघन्यस्थितौ हेतुतया प्रतिष्ठिताः । तान् विहाय पुनरसंख्येयभागगतेषु पूर्वापेक्षया विलक्षणेषु वष्टिनियताध्यवसायेष्वन्यतमाध्यवसाये वर्तमानो जीवस्तु समयाधिकजघन्यां स्थितिमेव बनातीति तेऽसंख्येय लोक प्रदेशराशितुल्याः सर्वेऽध्यवसाया द्वितीयायां समयाधिकजघन्यस्थितौ हेतुतया प्रतिष्ठिताः, एवं तृतीयादिषूत्कृष्टस्थितिबन्धपर्यन्तासु सर्वासु स्थितिषु भवतीत्यत उक्तम्- "पइठिइबंधमसंखा लोगा" इत्यादि । उक्तं च कर्मप्रकृतिचूर्णी
'णाणावरणियस्स जहणगाए ठितीए ठितिबंधज्झवसाणाणि असंखेज्जलो गागास पदेसमेत्ताणि | बितिया ठिति [ याव] असंखेज्जलो गागासपदे समेत्ताणि । ततियाए ठितिए असंखेज्जलो गागासपदेसमेत्ताणि । एवं जाव उक्कस्सिया ठितित्ति । एवं सत्तण्ह वि कम्माणं' इति ।
अमी प्रत्येक स्थितिबन्धस्थाने तत्कारणीभूताः कषायोदयरूपाः स्थितिबन्धाध्यवसाया असंख्येयलोका काशप्रदेशराशिप्रमिताः सन्तोऽपि न सर्वत्र स्थितिबन्धस्थानेषु तुल्या एव, किन्तु हीनाधिका इत्यतस्ते समयाधिकस्थितिबन्धलक्षणेऽनन्तरस्थितिबन्धस्थाने कियन्तः, पल्योपमासंख्यभागाधिकस्थितबन्धलक्षणे परम्परस्थितिबन्धस्थाने च कियन्त इत्येतत्प्ररूपणार्थमनन्तरोपनिधया परम्परोपनिधया चाह—
आउस्स असंखगुणा हसाओ जाव उक्कोसा ॥८४५॥ सत्तण्ह जहण्णाओ कमा विसेसाहियाणि आ चरमा । पलियासंखियभागं गंतु गतुं दुगुणवड्ढी ॥८४६॥
(प्रे०) “आउस्स असंखगुणा" इत्यादि, अनन्तरोपनिधया प्ररूपणायामायुः कर्मण: "असंस्वगुणा" त्ति प्रकृतत्वात् स्थितिबन्धाध्यवसाया अनन्तरस्थितिबन्धस्थानेऽसंख्यगुणाः सन्ति । कुत्रेत्याह - "हस्साओ जाव उक्कोसा" ति 'हस्वायाः' - जघन्यायाः स्थितेरारभ्य यावदुत्कृष्टा स्थितिस्तावदित्यर्थः । अयम्भावः - आयुषो जघन्यस्थितिबन्धादिरूपेषु स्थितिबन्धस्थानेषु प्रत्येकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org