________________
बन्धविहाणे मूलप डिठिइबंधो [ द्विगुणवृद्धिस्थान-कान्तराल्पबहु० सूचिश्रेणिच्छेदनकानामपि साधिक सार्धद्वयोद्धारसागरोपमप्रमाणत्वेनाऽद्धापल्योपमासंख्येयभागमात्रत्वात् अङ्गुलमात्रक्षेत्रगताकाशप्रदेशानां तु तादृशसूचि श्रेणेर संख्येय भागगतत्वाच्च ।
,
"
ननु किञ्चिदधिकार्धरज्ज्वायतायाः सूचिश्रेणेः छेदनकानि साधिकसार्धोद्धारसागरोपमद्वयसमयप्रमाणान्येव भवन्ति, न पुनर्बहूनामुत्सर्पिण्यवसर्पिणीनां समयप्रमाणानीत्यत्र का युक्तिः ? इति चेत् भवत्यत्र युक्तिः, सा त्वेवंरूपा - जम्बूद्वीप मे रोर्मध्यभागादारभ्य दक्षिणायां दिश्यायता सर्वद्वीपसमुद्रदक्षिणदिग्द्वारस्पर्शिनी दक्षिणायां दिशि तिर्यग्लोकान्तपर्यन्ता याऽर्धरज्जुमाना एकप्रादेशिकी सूचिश्रेणिः साऽपि उत्तरस्यां दिशि लवणसमुद्रस्य मध्यं यावत् सार्धलक्षयोजनेनाऽभ्यधिका दीर्घा गृह्यते, अतः सा किञ्चिदधिकार्धरज्जुप्रमाणैव, तस्यास्तु छेदनकानि लक्षयोजनावशेषं यावत् सार्धद्वयोद्धारसागरोपमस्य समयप्रमाणानि प्राप्यन्ते, तद्यथा - निरुक्तोत्तरलवणमध्यभागात्प्रारब्धा सूचिश्रेणिः ततः प्रभृति दक्षिणस्यां दिशि जम्बूलवणादिना क्रमेण यावत्तमस्य द्वीपस्य समुद्रस्य वा दक्षिण द्वारपर्यन्ता गृहीत्वा तस्या लक्षयोजनावशेषं यावत् छेदनकानि क्रियन्ते तावद्वीपसमुद्र संख्या प्रमाणान्येव तानि प्राप्यन्ते ।
६३० ]
पश्यतामत्रोदाहरणानि - उत्तरलवणमध्यभागादारभ्य तस्यैव लवणसमुद्रस्य दक्षिणद्वारान्ता सूचिश्रेणिगृह्यते तदा सा जाता चतुर्लक्षयोजनायता, तस्याश्चैकलक्षयोजनावशेषं यावद् द्वे छेदन के, (लक्ष. चे० प्रथम लक्ष. चे द्विती. ल.शेष.) द्वीपसमुद्रावपि द्वावेव गृहीतावास्ताम्, छेदनके अपि द्वे इति तौल्यम् । अथ सा जम्बूलवणादिना क्रमेण पञ्चमस्य पुष्करवरद्वीपस्य दक्षिणद्वारपर्यन्ता गृह्यते तदा जाता द्वात्रिंशल्लक्षयोजनदीर्घा, तस्याश्च लक्षयोजनावशेषं यावत् पञ्चैव छेदकानि लक्ष. छेद. लक्ष. छे. लक्ष. छे. लक्ष. छे. लक्ष. छे. लक्ष. शेषः ), इत्येवं द्वीपसमुद्राणां पञ्चत्वे छेद
=
÷२ =१६÷२=८ : २=४ : २ =२÷ २=
१
कान्यपि पञ्चैव प्राप्तानि । इत्थमेव यद्यष्टमस्य वारुणिवरसमुद्रस्य दक्षिणद्वारपर्यन्ता सा यथोक्तक्षेत्र प्रारब्धा श्रेणिगृह्यते तदा सा पट्पञ्चादभ्यधिकद्विशतलक्षयोजनमाना भवति, तस्याश्च छेदकान्यपि लक्षयोजनावशेषं यावदष्टावेव प्राप्यन्ते । स्थापना तु प्रागिव स्वयमेव कार्या 1
इत्येवं तथाविधनियमवशात् तिर्यग्लोकस्य दक्षिणदिग्वर्त्तिप्रान्तभागपर्यन्ता सा गृह्यते तदा छेदनकान्यपि लक्षयोजनावशेषं यावद् द्वीपसमुद्राणां संख्यानुसारेण प्राप्यन्ते, द्वीपसमुद्रास्तु सार्धद्वयोद्धारसागरोपमसमयपरिमिताः । उक्तं च भाष्यसुधाम्भोनिधिभिः
“उद्धारसागर।णं अड्ढाइज्जाण जत्तिया समया । दुगुणाद्गुणपत्रित्थरदिवोदही । हुति एवइया" इति ।
इत्येवं साधिकार्धरज्जुप्रमाणायाः सूचिश्रेणेरपि लक्षयोजनावशेषं यावच्छेदनकान्यपि तावन्ति सार्धद्वयोद्धारसागरोपमस्य समयप्रमाणानीतिकृत्वा भवता सम्भावितप्रमाणापेक्षयाऽतीवस्तोकान्यद्धापल्योपमासंख्येयभागमात्राण्येव समधिगतानि । कुतः ? उद्धार सागरोपमापेक्षयाऽद्धापल्योपमस्याSसंख्येयगुणत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org