________________
पल्योपमसागरोपमस्वरूप-प्रयोजने ] चरमेऽधिकारे स्थितिसमुदाहारः
[ ६३१ इदमुक्तं भवति-संख्यातीतानां कालादीनां गणनायामागमोक्तानि पारिभापिकाणि पल्योपमसागरोपमादीनि परिमाणान्याश्रीयन्ते, तत्र-उद्धारा-ऽद्धा-क्षेत्रपल्योपमभेदात् त्रिविधं पल्योपमम् , सूक्ष्म-बादरभेदादेकैकं पुनर्द्धिधा । एवं सागरोपममपि । तत्रा-ऽऽयामविस्ताराभ्यामवगाहेन चोत्सेधागुलनिष्पन्नैकयोजनमानो वृत्ततया परिधिना किश्चिन्यूनषड्भागैरभ्यधिकत्रियोजनमानः पल्यविशेषो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कृष्टतः सप्तभिरहोभिः प्ररूढानि यानि युग्मिवालाग्राणि तैः प्रचविशेषानिबिडतरमाकण्ठं तथा भ्रियते यथा तानि वालाग्राणि वह्निना न दह्यन्ते, न वा वायुनाऽपनेतु शक्यन्ते, न च तावन्मात्रम् , किन्तु जलमपि तानि न कोथयति, इत्येवं निबिडतरभृतात् तस्मात्पल्यात् प्रतिसमयमेकैकवालाग्रापहारे यावता कालेन स पल्यः सर्वात्मना निलेपो जायते तावान् संख्येयसमयप्रमाणकालो बादरोद्धारपल्योपमं प्रोच्यते, बादरोद्धारपल्योपमानां दशकोटिकोटिभिर्वादरोद्धारसागरोपमो जायते । सूक्ष्मोद्धारपल्योपमस्त्वेवंरुपोऽभिहित:-यथोक्ते पल्ये यानि वालाग्राणि भूतान्यासन् तानि प्रत्येकमत्रासंख्येयखण्डानि कृत्वा पूर्ववदेव सुबहुनिविडं पल्ये भ्रियन्ते, एतानि च वालाग्राण्यतीवसूक्ष्माणि, द्रव्यतस्तु निर्मलनेत्रैः छअस्थैः सुबहुप्रयत्नेन यद् द्रव्यविशेषं चाक्षुसप्रत्यक्षविषयीक पार्यते तद्रव्यादप्यसंख्येयभागमात्राणि प्रत्येकं सन्ति, क्षेत्रतस्तु तानि प्रत्येकं सूक्ष्मपनकशरीरस्यावगाहक्षेत्रादसंख्येयगुणं क्षेत्रमवगाहन्ते, एतेषां च पल्यभूतानां वालाग्राणामसंख्येयतया प्रतिसमयमेकैकस्योद्धार संख्यया वर्षकोटिकोटयोऽपगच्छन्तीति कृत्वा संख्येयवर्षकोटिकोटिप्रमाणं मूक्ष्मोद्धारपल्योपमं समवसेयम् । तेषां दशकोटिकोटयः सूक्ष्मोद्धारसागरोपमम् । आभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते, यथा सर्वेऽपि द्वीपसमुद्राः सार्धद्वयोद्धारसागरोपमसमयप्रमिताः ।
उक्तं चानुयोगद्वारेषु
'एएहिं सुहुमउद्धारपलिओवमसागरोवमेहिं किं पओयणं ? एएहिं दीवसमुदाणं उद्धारे धिप्पइ । केवइया णं भंते ! दीवसमुद्दा उद्धारेणं पन्नत्ता ? गोयमा ! जावइया णं अड्ढाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया णं दीवसमुद्दा उद्वारेणं पन्नत्ता ।।' इति ।
ननु बादरोद्धारपल्योपम-सागरोपमयोस्तर्हि किं प्रयोजनम् ? न किञ्चिद् । एवं बादराद्धापल्योपम-सागरोपमयो दरक्षेत्रपल्योपम-सागरोपमयोरपि न किञ्चिद्विशेषप्रयोजनं विद्यते, केवलं सूक्ष्मोद्धारपल्योपमादीनां सुखावसेयार्थमादो वादरोद्धारपल्योपमादीनामपि प्ररूपणं क्रियते । पूर्व येषां वालाग्राणां प्रतिसमयमुद्धारेण बादरोद्धारपल्योपमं दर्शितं तेषामेव वालाग्राणामेकैकस्य वर्षशतान्तरेणोद्धरणे यावता कालेन पयनिर्लेपनं भवति तावान् संख्येयवर्षकोटिमानः कालो बादराद्धापल्योपमम् । तेषां दशकोटिकाटयो बादराद्धासागरोपमम् । सूक्ष्मे त्वेवम् पूर्वोक्तस्वरूपादसंख्येयखण्डानि कृत्वाऽऽकण्ठं निबिडं भृतात् पल्यादेकैकस्य वालाग्रस्य वर्षशतेऽतिक्रान्ते निष्काशने यावान् निर्लेपनकालस्तावानसंख्येयवर्षकोटिमानः सूक्ष्ममद्धापल्योपमम् , तेषां दशकोटिकोटयः सूक्ष्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org