________________
६३२ ]
बंधविहाणे मूलपयडिटिइबंधो [ द्विगुणवृद्धिस्थान-कान्तराल्पबहु०
मद्धासागरोपमम् । एतेषां सूक्ष्माद्धासागरोपमाणां दशकोटिकोटय एका उत्सर्पिणी, तावत्प्रमाणवैकाऽवसर्पिणी, एकोत्सर्पिण्यवसर्पिणीमानं कालचक्रम् । तेषामनन्तैः पुद्गलपरावर्तः । सूक्ष्माद्धापल्योपम-सागरोपमयोः प्रयोजनं तु देव-मनुष्यादीनामायुः कर्मादिस्थितिपरिमाणम् ।
यद्यप्येतावता सूक्ष्मोद्धारा-ऽद्धापल्योपमसागरोपमाणां प्ररूपणेनैव स्वसमिहितं सिद्धं भवति, अधिकृतार्थस्य तेनैव गम्यत्वात् तथाऽपि प्रसङ्गवशाद् द्विविधक्षेत्रपल्योपम - सागरोपममानं संक्षेपतो दर्श्यते-पूर्वोक्तस्वरूपात् पल्याद् वालाग्रस्पष्ट नभः प्रदेशानामेकैकस्य प्रतिसमयमपहरणे यावान् निर्लेपनकालोऽसंख्येयोत्सर्पिण्यवसर्पिणीमानस्तावद्धादरक्षेत्रपल्योपमम्, तदशकोटिको यो बादरसागरोपमम् । तथैवासंख्येयखण्डानि कृत्वा भृते यथोक्तपल्ये वालाग्रैः स्पृष्टानामस्पृष्टानां च नभः प्रदेशानां प्रतिसमयमेकैकस्यापहरणे यावान् निर्लेपनकालो बादरपल्योपमादसंख्येयगुणकालमा नस्तात्सूक्ष्मं क्षेत्रपल्योपमम् । तदशकोटिकोटयः सूक्ष्मं क्षेत्रसागरोपममिति ।
,
एवं संख्येयवर्षकोटीकोटीप्रमितसूक्ष्मोद्धारसागरोपमापेक्षयाऽसंख्येयवर्ष कोटीमानस्य सूक्ष्माद्धापल्योपमस्याऽसंख्येयगुणाधिकतया सार्द्धद्वयोद्धारसागरोपम तुल्यान्यपि यथोक्तनीत्या लब्धछेदनकान्यद्धापल्योपमस्य संख्येयतमभागमात्रगतान्येव ।
शेषाया लक्षयोजनमानायाः सूचिश्रेणेर्निर्विभाज्यं प्रदेशं यावच्छेदनकानि तु लब्धछेदनकापेक्षा तीवस्तोकान्येव स्युः, तेषां च पूर्वलब्धछेदनकेषु प्रक्षेपणे साधिकार्धरज्जुप्रमाणसूचिश्रेणिनिष्पन्नानि सर्वछेदनकान्यपि साधिकसार्थोद्धार सागरोपमद्वयस्य समयप्रमाणानीति कृत्वाऽद्धापल्योपमस्यासंख्येय भागमात्राण्येव किं पुनरङ्गुलमात्रक्षेत्रनभःप्रदेशप्रथमवर्गमूलस्य छेदनकानि तानि तेषामप्यसंख्येयभागगतान्येव स्युरिति भावः । कुतः ? अर्धरजुदीर्घसूचिश्रेणेनंभःप्रदेशराश्यपेक्षया घनाङ्गुलक्षेत्रगतनभः प्रदेशरा शेरप्यसंख्येयभागमात्रगतत्वात् ।
ननु यदुक्तं शेषाया लक्षयोजनमिताया: सूचिश्रेणेर्निर्विभाज्यप्रदेशं यावन्निष्पद्यमानानि छेदनकानि तु पूर्वलब्धछेदनकापेक्षयाऽसंख्येयभागमात्राणि स्युरित्येतत्कथमुपपद्येत, यतो पूर्वलब्धछेदनकानि तु सार्धद्वयोद्धारसागरोपम समय प्रमाणानां द्वीपसमुद्राणामेकैकस्य हान्या प्राप्तानि, इतस्तु निर्विभाज्यप्रदेशं यावच्छेदनकान्युत्पादयितव्यानि, तत्र तु ये आकाशप्रदेशास्ते द्वीपसमुद्र संख्यापेक्षयाऽतिबहवः, अङ्गुलमात्रक्षेत्रेऽसंख्येयोत्सर्पिण्यवसर्पिणी समयप्रमाणानामाकाशप्रदेशानामभिहितत्वात् तेषां च द्वीपसमुद्र संख्यापेक्षया बह्वसंख्येयगुणत्वेन छेदनकानामपि तदनुसारेण पूर्वापेक्षया बह्वसंख्येयगुणानाम्नुत्पत्तेः सम्भवः । इत्येवमर्धरज्जुप्रमाणसूचि श्रेणेर्निर्विभाज्यप्रदेशं यावत् निष्पद्यमान छेदनकानां पल्योमासंख्येयभागमात्राणां स्तोकानामसिद्धेस्तद्द्वारेणाङ्गुलक्षेत्रस्य तेषां स्तोकत्वप्रसाधनम्, तेन च सर्वमुपपादनं मूलाभावे शाखादीनामुपपादनमिवाविमृश्यकार्येव १ इति चेत्, न, यतोऽत्र विद्यते उपपत्तिः, तया च स्फुटं गम्यते यल्लक्षयोजनमानायाः शेषश्रेणेर्निर्विभाज्यप्रदेशं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org