Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 707
________________ १३४] बंधविहाणे मूलपयडिठिइबंधो [ स्थितिबन्धाध्यवसायानुकृष्टिप्रतिषेध० इत्थं च तथाविधोपपत्तेः सद्भावात् , तया चावशेषसूचिश्रेणेनिर्विभाज्यप्रदेशं यावत् पूर्वलब्धच्छेदनकापेक्षयाऽसंख्येयभागमात्राणां छेदनकानामुपपत्तेः स्तोकछेदनकवृद्धया यथोक्तसाधिकाधरजप्रमाणसूचिश्रेणेः सर्वच्छेदनकानामपि साधिकसार्धयोद्धारसागरोपमसमयतुल्यत्वमेव, ततश्च तदसंख्येयभागमात्रस्य घनामुलक्षेत्रस्य छेदनकान्यतीवस्तोकानीत्यादि यत् प्रतिपादितं तन्न निमूलम् । तदेवंसूचिश्रेणेरसंख्येयभागमात्रस्य धनागुलस्य छेदनकानांहरवपल्योपमासंख्येयभागमात्राणामुत्पत्तरङगुलप्रथमवर्गमूलस्य तु तानि ततोऽपि स्तोकानि, तत्पड्भागमात्राण्येव, तेषां प्रथमवर्गमूलच्छेदनकानामप्यसंख्येयभागमात्राणि मृलोक्तानि स्थितिबन्धाध्यवसायस्थानानां द्विगुणवृद्धिस्थानान्यविरुद्धान्येव, ज्ञानावरणादीनामुत्कृष्ट स्थितौ प्रतिपन्योपमासंख्येयभागमन्तराऽन्तरा उत्पद्यमानानां तावतां रिणवृद्धिस्थानानां सुखेनोपपत्तः,इत्येवं प्रथमविरोधस्यानवकाश एव । किञ्च विकल्पान्तरं समालम्ब्याऽन्या या विरोधद्वयी उद्भाविता साऽप्यमीषामध्यवसायगुणवृद्धिस्थानानां लघुतरपल्योपमासंख्येयभागमात्रत्वोपपत्ते रेव निरस्ता, गुणवृद्धिस्थानानां स्तोकतया द्विगुणवृद्धिद्वयान्तरस्य महत्तरत्वेनाऽसंख्येयगुणत्वोपपत्तेः, अनन्तरोपनिधायामनन्तरस्थितिबन्धस्थानेऽसंख्येयभागप्रमाणानामध्यवसायस्थानानामभिमतवृद्धरुपपत्तश्च तादृशविकल्पस्यैवानवकाशादिति ॥८४७॥ तदेवं सप्रभेदतो दर्शिताऽध्यवसायानां प्रगणना । साम्प्रतं तेषामेव स्थितिबन्धाध्यवसायानामनुकृष्टिं चिन्तयन्नाह अट्ठण्ह जहण्णाओ दुइआअ ठिईअ अज्झवसणाणं । ठाणाणि अपुव्वाइं एमेव हवेज्ज जा परमा ॥८४८॥ (प्रे०) "अट्ठण्ह जहण्णाओ" इत्यादि, ज्ञानावरणादीनामन्तरायपर्यन्तानामष्टानामपि मूलकर्मणां प्रत्येकं "जहण्णाओ" त्ति जघन्यायाः स्थितेः “दुइआअ ठिईअ" ति रितीयायां स्थिती, अनन्तरे समयाधिकजघन्यस्थितिवन्धस्थानरूपे द्वितीयस्थितिबन्धस्थान इत्यर्थः । तत्र किमित्याह-"अज्झवसणाणं ठाणाणि" ति तस्या द्वितीयस्थितेर्बन्धप्रायोग्यानामध्यपसायानां स्थानानि-भेदाः "अपुवाई" ति 'अपूर्वाणि' पूर्व-पूर्वस्मिन् जघन्यस्थितिबन्धे यानि नासन् तथाविधानि, जघन्यस्थितिबन्धकारणीभूताध्यवसायेभ्यो विलक्षणानि, न पुनरेकमप्यध्वसायस्थानं तत्सदृशमत्र समयाधिकजघन्यस्थितिबन्धाध्यवसायस्थानेषु विद्यत इति भावः । ननु द्वित्रिसमयावधिकजघन्यस्थितिबन्धस्थानेषु तर्हि किमित्याह-"एमेव हवेजे"त्यादि, एवमेव, यथा जघन्यस्थितिवन्धस्थानापेक्षया समयोत्तरे समयाधिकजघन्यस्थितिबन्धस्थाने तथैव समयसमयोत्तरेषु द्विसमय-त्रिसमयावधिकजघन्यस्थितिबन्धरूपेषु स्थितिबन्धस्थानेषु यावच्चरमायां सर्वोत्कृष्टस्थितावित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762