________________
१३४]
बंधविहाणे मूलपयडिठिइबंधो [ स्थितिबन्धाध्यवसायानुकृष्टिप्रतिषेध० इत्थं च तथाविधोपपत्तेः सद्भावात् , तया चावशेषसूचिश्रेणेनिर्विभाज्यप्रदेशं यावत् पूर्वलब्धच्छेदनकापेक्षयाऽसंख्येयभागमात्राणां छेदनकानामुपपत्तेः स्तोकछेदनकवृद्धया यथोक्तसाधिकाधरजप्रमाणसूचिश्रेणेः सर्वच्छेदनकानामपि साधिकसार्धयोद्धारसागरोपमसमयतुल्यत्वमेव, ततश्च तदसंख्येयभागमात्रस्य घनामुलक्षेत्रस्य छेदनकान्यतीवस्तोकानीत्यादि यत् प्रतिपादितं तन्न निमूलम् ।
तदेवंसूचिश्रेणेरसंख्येयभागमात्रस्य धनागुलस्य छेदनकानांहरवपल्योपमासंख्येयभागमात्राणामुत्पत्तरङगुलप्रथमवर्गमूलस्य तु तानि ततोऽपि स्तोकानि, तत्पड्भागमात्राण्येव, तेषां प्रथमवर्गमूलच्छेदनकानामप्यसंख्येयभागमात्राणि मृलोक्तानि स्थितिबन्धाध्यवसायस्थानानां द्विगुणवृद्धिस्थानान्यविरुद्धान्येव, ज्ञानावरणादीनामुत्कृष्ट स्थितौ प्रतिपन्योपमासंख्येयभागमन्तराऽन्तरा उत्पद्यमानानां तावतां रिणवृद्धिस्थानानां सुखेनोपपत्तः,इत्येवं प्रथमविरोधस्यानवकाश एव । किञ्च विकल्पान्तरं समालम्ब्याऽन्या या विरोधद्वयी उद्भाविता साऽप्यमीषामध्यवसायगुणवृद्धिस्थानानां लघुतरपल्योपमासंख्येयभागमात्रत्वोपपत्ते रेव निरस्ता, गुणवृद्धिस्थानानां स्तोकतया द्विगुणवृद्धिद्वयान्तरस्य महत्तरत्वेनाऽसंख्येयगुणत्वोपपत्तेः, अनन्तरोपनिधायामनन्तरस्थितिबन्धस्थानेऽसंख्येयभागप्रमाणानामध्यवसायस्थानानामभिमतवृद्धरुपपत्तश्च तादृशविकल्पस्यैवानवकाशादिति ॥८४७॥
तदेवं सप्रभेदतो दर्शिताऽध्यवसायानां प्रगणना । साम्प्रतं तेषामेव स्थितिबन्धाध्यवसायानामनुकृष्टिं चिन्तयन्नाह
अट्ठण्ह जहण्णाओ दुइआअ ठिईअ अज्झवसणाणं । ठाणाणि अपुव्वाइं एमेव हवेज्ज जा परमा ॥८४८॥ (प्रे०) "अट्ठण्ह जहण्णाओ" इत्यादि, ज्ञानावरणादीनामन्तरायपर्यन्तानामष्टानामपि मूलकर्मणां प्रत्येकं "जहण्णाओ" त्ति जघन्यायाः स्थितेः “दुइआअ ठिईअ" ति रितीयायां स्थिती, अनन्तरे समयाधिकजघन्यस्थितिवन्धस्थानरूपे द्वितीयस्थितिबन्धस्थान इत्यर्थः । तत्र किमित्याह-"अज्झवसणाणं ठाणाणि" ति तस्या द्वितीयस्थितेर्बन्धप्रायोग्यानामध्यपसायानां स्थानानि-भेदाः "अपुवाई" ति 'अपूर्वाणि' पूर्व-पूर्वस्मिन् जघन्यस्थितिबन्धे यानि नासन् तथाविधानि, जघन्यस्थितिबन्धकारणीभूताध्यवसायेभ्यो विलक्षणानि, न पुनरेकमप्यध्वसायस्थानं तत्सदृशमत्र समयाधिकजघन्यस्थितिबन्धाध्यवसायस्थानेषु विद्यत इति भावः ।
ननु द्वित्रिसमयावधिकजघन्यस्थितिबन्धस्थानेषु तर्हि किमित्याह-"एमेव हवेजे"त्यादि, एवमेव, यथा जघन्यस्थितिवन्धस्थानापेक्षया समयोत्तरे समयाधिकजघन्यस्थितिबन्धस्थाने तथैव समयसमयोत्तरेषु द्विसमय-त्रिसमयावधिकजघन्यस्थितिबन्धरूपेषु स्थितिबन्धस्थानेषु यावच्चरमायां सर्वोत्कृष्टस्थितावित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org