________________
समयाधिकस्थितिवन्धेऽपूर्वाभ्यवसाय०] चरमेऽधिकारे स्थितिसमुदाहारः
[६३५ इदमुक्तं भवति- जघन्यस्थितिबन्धो यैरसंख्यलोकप्रदेशप्रमितैः स्थितिबन्धाध्यवसायस्था निवर्तयितु शक्यते, तदपेक्षया तीबैर्विलक्षणैरेव स्थितिबन्धाध्यवसायैः समयाधिकजघन्यस्थितिबन्धो निर्वतयितुं शक्यते, इत्यतो जघन्यस्थितिबन्धस्थानापेक्षयाऽपूर्वाण्येव स्थितिबन्धाध्यवसायस्थानानि समयाधिकजघन्यस्थितिबन्धेऽभिहितानि । समयाधिकजघन्यस्थितिबन्धो यैः स्थितिबन्धाध्यवसायस्थाननिवर्तयितुं शक्यते तदपेक्षयाऽधिकतीत्रैरत एवापूर्वैरध्यवसायस्थानईिसमयाधिकजघन्यस्थितिबन्धो निवर्तयितुं शक्यते, एवं यैः स्थितिबन्धाध्यवसायस्थानेबिसमयाधिकजघन्यस्थितिवन्धो जायते तदपेक्षया तीव्रतरैः स्थितिबन्धाध्यवसायस्थानैरेव त्रिसमयाधिकजघन्य स्थतिबन्यो जायते, न पुनः पूर्वैरपीति द्वित्रिसमयाधिकजघन्यस्थितिबन्धेऽप्यपूर्वाण्येव स्थितिबन्धाध्यवसायस्थानानि हेतुभूतानि सन्ति, एवं समयसमयवृद्धया यावदुत्कृष्टस्थितिबन्धस्तावदपूर्वाण्यपूर्वाणि स्थितिबन्धाध्यवसायस्थानान्येव हेतुतया वर्तन्ते ।
अत्राऽसत्कल्पनया-ज्ञानावरणस्य स्थितिबन्धप्रायोग्यानि सर्वाण्यध्यवसायस्थानानि मन्दतीव-तीव्रतरादिक्रमेण प्रथमद्वितीयादितया स्थाप्यन्ते, तानि च समुदितान्यसत्कल्पनया त्रिंशदुत्तरशतम् , स्थितिबन्धस्थानानि चाष्टौ, तत्र च प्रथमस्थितिबन्धाध्यवसायस्थानप्रभृतीनि पश्चाध्यवसायस्थानानि जघन्यस्थितिबन्धे हेतुभूतानि, न पुनः षष्ठप्रभृतीन्यपि, तेषामुक्तपञ्चस्थितिबन्धाध्यवसायस्थानापेक्षया तीव्रतया समयावधिकजघन्यस्थितिबन्ध एव हेतुत्वात् , तत्राऽपि षष्ठप्रभृतीनि द्वादशपर्यन्तान्येव स्थितिबन्धाध्यवसायस्थानानि समयाधिकजघन्यस्थितिबन्धे हेतुभूतानि, न पुनस्तदुत्तरवर्तीन्यपि, तेषां तीव्रतर-तीव्रतमादिभावेन समयद्विसमयाद्यधिकजघन्यस्थितिवन्धे हेतुत्वात् । तत्राऽपि द्विसमयाधिकजघन्यस्थितिबन्धस्त्रयोदशप्रभृतिभिर्द्वाविंशतितमपर्यन्तैः स्थितिबन्धाध्यवसायस्थानैरेव निर्वर्तयितुं शक्यते, न पुनादशपर्यन्तेष्वेकेनापि, एवं त्रयोविंशतितममध्यवसायस्थानमपि तत्र न कारणम् , तस्य पूर्वापेक्षया तीव्रतया त्रिसमयाधिकजघन्यस्थितिबन्धहेतुत्वात् , त्रयोविंशतितमप्रभृतीनि पञ्चत्रिंशत्तमपर्यन्तानि स्थितिबन्धाध्यवसायस्थानानि तु त्रिसमयाधिकजघन्यस्थितिबन्ध एव हेतुभूतानि, न तु ततः समयादिहीनस्थितिबन्धे समयावधिकस्थितिवन्धे वा, एवमेवोत्तरत्रापि कल्पनीयम् । अत्रासत्कल्पनया स्थितिबन्धस्थानाष्टके मन्दतर-मन्दतमाद्यध्यवसायानां हेतुत्वे इयं स्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org