________________
वत्तस्थितिबन्धवृद्धयादयः केन भावेन] वृद्धयधिकारे भावद्वारम्
[ ६०३ अवधिज्ञानदर्शनलक्षणेऽवधितिक प्रस्तुतं हान्यन्तरम् “अहियसमा" ति साधिकसमा,अभ्यधिकवर्षमानमेवेत्यर्थः । अत्रैव मार्गणाइये महाबन्धकाराभिप्रायेण प्रस्तुतहान्यन्तरं दर्शयन्नाह-"केह हायणपुहुत्त" ति 'केचित्'-महाबन्धकारा अवधिज्ञान-दर्शनलक्षणमार्गणाइये सप्तानामसंख्येयगुणहानिलक्षणस्य स्थितिबन्धविशेषस्य नानाजीवाश्रितमुत्कृष्टमन्तरं 'हायनपृथक्त्वं'-वर्षपृथक्त्वम् , वदन्तीति शेषः । अथ शेषमार्गणासु प्रस्तुतं हान्यन्तरमाह-"अवसेसमग्गणासु"मित्यादि, यास्वन्यतमस्याऽपि कर्मणोऽसंख्यगुणहानिपदं सद्भूतमभिहितं ताभ्यो मार्गणाभ्योऽनन्तराभिहिता मानण्यादिचतुर्दशमार्गणास्त्यक्त्वाऽवशेषासु मनष्यगत्योघादित्रिंशन्मार्गणासु तस्या ज्ञानावरणादेरसंख्यगुणहाने नाजीवाश्रितमुत्कृष्टान्तरं षण्मासा भवति । ताश्च मार्गणा इमाः-मनुष्योघपर्याप्तमनुष्यो, तथैव पञ्वेन्द्रियौघ-तत्पर्याप्तभेदो, त्रसकायौप-तत्पर्याप्तभेदौ, पञ्चमनोयोगपञ्चवचोगेग-काययोगसामान्यौ--दारिककाययोग--मतिज्ञान--श्रुतज्ञान-संयमौघ-सामायिकसंयमचक्षुर्दर्शना-ऽच दर्शन--शुक्ललेश्या--भव्य--सम्यक्त्वौघ--क्षायिकसम्यक्त्व-संख्या-ऽऽहारिमार्गणाश्चेति ॥८१५-८१६-८१७-८१८।। __ तदेवमभिहितं विभागेन मार्गणास्थानेष्वपि सप्तानामसंख्यभागवृद्धयादिसत्पदानां नानाजीवश्रिां जयन्योत्कृष्टभेदभिन्न बन्धान्तरम् , तथा च कृते गतमेकादशमन्तरद्वारम् ।। ।। इति श्रीवन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे एकादशं नानाजीवाश्रयमन्तरद्वारं समाप्तम् ।।
।। अथ द्वादशं भावद्वारम् ।। ___ एतर्हि क्रमप्राप्तस्य भावद्वारस्यावसरः, तत्र पूर्ववत् प्रस्तुतस्थितिबन्धवद्धयादिरप्यौदयिकेन भावेन प्रवर्तत इत्येतन्निजिगदिपुरेकामा माह
भावेणोदइएणं बंधो सवाण वढिहाणीणं ।
सत्तण्हेमेव भवे सवढिहाणीण सव्वासु॥ ८१९ ॥ (प्रे०) "भावेणे"त्यादि, सुगमम् , केवलं “सव्वाण वढिहाणोणं सत्तण्ह" ति आयुषोऽसंख्यभागहानेस्तदीयावक्तव्यबन्धस्य तथाऽऽयुर्वर्जानां सप्तमूलप्रकृतीनामवस्थिताऽवक्तव्यस्थितिबन्धयोः सत्पदादिभावद्वारान्तद्वादशद्वारविषयायाः सर्वप्ररूपणायाः प्रस्तुताधिकारप्रारम्भे सत्पदद्वारे 'भत्थि अवत्तव्यत्त'मित्यादिगाथा- (७३२-७३३ )द्वयेनाभिहितत्वादुक्त शेषाणां तत्तदसंख्येयभागप्रभृतिवृद्धयादिसत्पदानां बन्धोऽप्योधत आदेशतश्चोत्कृष्टादिस्थितिबन्धवदोपशमिकादिभावानां मध्ये औदपिकेन भावेन जायते । अत्राऽऽपत्युपपत्तयस्तु भूयस्काराधिकारभावद्वारदर्शितनीत्या स्त्रयमभ्यूह्या इति ।।८१९॥
तदेवं कृतमतिदिष्टशेषस्थितिवन्धवृद्धयादिसत्पदेषु भावप्ररूपणम् , तथा च गतं भावद्वारम् । ॥ इति श्रीवन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे द्वादशं भावद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org