________________
॥ अथ त्रयोदशमल्पबहुत्वद्वारम् ॥ . इदानीं त्रयोदशस्याल्पबहुत्ववारस्यावसरः । तत्रायुषः पदद्वयविषयकाल्पवहुत्वस्यापि सत्पदबारे 'भूगारबाउस्स' इत्यादिनाऽतिदेशेनैव दर्शितत्वादायुर्वर्जानां सप्तमूलप्रकृतीनां प्रत्येकमसंख्यभागप्रभृतिवृद्धिहान्यवस्थानादिबन्धकानामल्पबहुत्वं प्रतिपिपादपिपुरादौ तावदोघत आह
सत्तण्हं सव्वप्पाऽवत्तबस्स खलु बंधगा तत्तो। संखेज्जगुणा कममो असंखगुणवढिहाणीणं ॥२०॥ तत्तो वि असंखगुणा हवन्ति संखगुणवढिहाणीणं । ताउ असंखेज्जगुणा णेया संखंसबढिहाणीणं ॥८२१॥ (गोतिः) तान्हितोऽणंतगुणा हुन्ति असंखंसवढिहाणीणं ।
ताहिन्तोऽवट्ठाणस्स असंखगुणा मुणेयव्वा ॥८२२॥ (प्रे०) “सत्तण्हं सव्वप्पा” इत्यादि, आयुर्वर्जसप्तमूलप्रकृतीनां प्रत्येकमवतव्यलक्षणस्थितिबन्धस्य 'बन्धकाः' -निवर्तकाः “सवप्पा" त्ति अनुपदं वक्ष्यमाणासंख्यगुणवृद्धयादिशेषसर्वपदानामेकैकस्य बन्धंकापेक्षयाऽल्पत्वात् 'सर्वाल्पाः'-सर्वस्तोका भवन्ति, यत उपशमश्रेणितो निपततां स्थितिबन्धप्रथमसमये एवाऽवक्तव्यबन्धो भवति । "तत्तो" ति तेभ्यो ज्ञानावरणादीनामेकैकस्यावक्तव्यस्थितिबन्धकेभ्यः “संखेजगुणा" त्ति 'बंधगा' इत्यस्यानुवर्तनात्ते गामेव ज्ञानावरणादीनामेकैकस्य बन्धकाः संख्येयगुणा भवन्ति । कस्य कस्य पदस्येत्याह-"कमसो असंखगुणवढिहाणीणं" ति ‘क्रमशः' -यथाक्रममसंख्यगुणवृद्धरसंख्यगुणहानेश्च ।
इदमुक्तं भवति-उत्कृष्टपदे ज्ञानावरणस्यावक्तव्यलक्षणस्थितिबन्धस्य यावन्तो बन्धकाः प्राप्यन्ते, तेभ्यस्तस्यैव ज्ञानावरणस्याऽसंख्येयगुणस्थितिबन्धवृद्धबन्धका उत्कृष्टपदे संख्ये गुणाः प्राप्यन्ते, तेभ्यो ज्ञानावरणस्याऽसंख्ये यगुणवृद्धिवन्धकेभ्यो ज्ञानावरणस्यैवाऽसंख्यगुणहानेर्वन्धका उत्कृष्टपदे संख्येयगुणाः सम्पयन्ते । तत्रावक्तव्यस्थितिबन्धस्याऽसंख्यगुणवृद्धेश्वोपशमश्रेणितः प्रतिपतत एव जायमानत्वेऽप्यवक्तव्यबन्धस्य सकृदेव भावाद् , असंख्यगुणवृद्धः संख्येयशः सम्भवाचान्तमुहूर्त-द्वथन्तमुहूर्तावन्तरेण प्रतिपततामप्यसंख्यगुणवृद्धि३रन्तर्येण सम्भवति, न पुनस्तेषां सर्वेषां नैरन्तर्येणावक्तव्यस्थितिबन्धः, प्रतिपातप्रथमसमये एप तत्सम्भवात् ; इत्थं चावक्तव्यबन्धकेभ्योऽसंख्यगुणवृद्धिबन्धका उत्कृष्टपदे संख्येयगुणाः प्राप्यन्ते । असंख्यगुणहानिस्तूपशमकानामिव क्षपकाणामपि जायते, असंख्यगुणवृद्धिस्तूपशमकानामेव, किश्चोपशमकेभ्यः क्षपकास्तू-कृष्टपदे संख्येयगुणाः प्राप्यन्ते । यदाहुमलधारोयहेमचन्द्रसूरिपादा जोवसमासवृत्तौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org