________________
भोधतस्तत्तदृद्धयादिबन्धकानामरुपबहु० ] वृद्धपधिकारेऽल्पबहुत्वद्वारम्
[६०५ 'इहोपशमकप्रहणेन मोहोपशामका उपशान्तमोहाश्च गृह्यन्ते, क्षपकोपादानेनापि क्षपकाः क्षीणमोहाश्च स्वीक्रियन्ते, उपलक्षणव्याख्यानात् , ततश्च सर्वस्तोका एव उपशामकाः क्षपकास्त्वेतेभ्यः संख्ये यगुणाः, एतेषां चोपशमकक्षपकाणामेत ल्पबहुत्वमुभयेषामप्युत्कृष्ठपदसत्त्वे लभ्यमाने द्रष्टव्यम्' इति ।।
इत्थं च ज्ञानावरणस्यासंख्यगुणवद्धन्धकम्यो ज्ञानावरणस्यासंख्येयगुणहानेर्बन्धकाः संख्ये. यगुणाः प्राप्यन्ते । इत्थमेव दर्शनावरणादीनां प्रत्येकमपि द्रष्टव्यम् ।
"तत्तो वि" ति तेभ्योऽनन्तरपदोक्तज्ञानावरणादिसत्कासंख्यगुणहानिबन्धकेभ्योऽपि "असंखगुणा हवन्ति" ति असंख्यगुणा भवन्ति,बन्धका इत्यनुवर्तते । एवमुत्तरत्राऽपि बन्धका इत्यनुवृत्त्या द्रष्टव्यम् । कस्य कस्य पदस्येत्याह-"संग्वगुणवढिहाणीणं" ति ज्ञानावरणादीनां तत्तत्प्रकृतीनां संख्येयगुणवद्धिहान्योरेकैकपदस्येत्यर्थः,परस्परं तु तयोर्बन्धकास्तुल्या इति विज्ञेयम् , पदद्वयस्य युगपदुपादानात् । कुतोऽसंख्यगुणाः ? इति चेत् , सर्वसंज्ञिपञ्चेन्द्रियाणां संख्येयगुणवृद्धिहानिस्वामित्वेन तेषां परिमागतोऽसंख्येवत्वेन च संख्येयेभ्योऽसंख्यगुणहानिबन्धकेभ्यः सुतरामसंख्येयगुणत्वादिति । न च भवन्तु संख्येयगुणवृद्धिस्वामिन उत्कृष्टपदेऽसंख्यगुणाः । कथं पुनः संख्येयगुणहानिस्वामिनोऽप्यसंख्येयगुणा एव, ओघत एकेन्द्रियाणामपि संख्येवगुणहानिस्वामित्वेनाऽनन्तगुणत्वस्यैव युज्यमानत्वादिति वाच्यम् , यत एकेन्द्रिया न स्वस्थाने संख्येयगुणहानिस्वामिनः, किन्तु द्वीन्द्रियादिभ्यश्व्युत्वोत्पद्यमाना भवप्रथमसमयवर्तिन एव,द्वीन्द्रियादयस्त्वसंख्येया एव, अतो द्वीन्द्रियादिभ्यश्च्युत्वैकेन्द्रियतयोत्पद्यमाना भवप्रथमसमयवर्तिन एकेन्द्रिया अप्यसंख्येया एवोत्कृष्टपदे प्राप्यन्ते,तथा चानन्तेष्वप्येकेन्द्रियेषु केचनासंख्येया एव एकस्मिन् समये संख्येयगुणहीनस्थितेर्बन्धकतया प्राप्यन्ते, न पुनस्तदधिकाः, प्रस्तुताल्पबहुत्वं चैकसामायिकोत्कृष्टपदगतबन्धकानाम् , अत एकेन्द्रियाणां संख्येयगुणहानिस्वामित्वेऽपि संख्येयगुणहानिबन्धका एकस्मिन् समये उत्कृष्ट पदे उत्कृष्ट पदगतेभ्योऽसंख्येयगुणहानिवन्धक भ्योऽनन्तगुणा नैव भवन्ति, किन्तु यथोक्ता असंख्येयगुणा एव भवन्ति ।
___ "ताउ" ति तेभ्यः संख्येवगुणद्धिहान्यन्यतरवन्धकेभ्यः "असंखेजगुणा या" त्ति असंख्येयगुणा बन्धकाः “संख्सवडिढहाणोणं" ति ज्ञानावरणादीनां सप्तानामन्यतमकर्मणः संख्येयभागवृद्धिहान्योरेकैकस्या ज्ञेयाः । परस्परं तु तयोः प्राग्वत्तुन्या एव, प्राग्वदत्रापि पदद्वयस्य युगपदुपादानात् , एवमेवोत्तरत्रापि युगपत्संगृहीतेषु पदेषु बन्धकानां तुल्यत्वं स्वयमेव द्रष्टव्यम् । अत्रानन्तरोक्तपदापेक्षयाऽसंख्येयगुणत्वं तु स्वस्थानविकलेन्द्रियासंज्ञिपञ्चेन्द्रियाणामपि संख्येयभागवद्धिहानिस्वामित्वाद्विज्ञेयम् । इदमुक्तं भवति-ज्ञानावरणादेः संख्येयगुणद्धिहानिस्वामिनः स्वस्थाने तु संज्ञिपञ्वेन्द्रिया एव, संख्येयभागवद्धिहान्योस्तु संक्षिपञ्वेन्द्रियवद् विकलेन्द्रियाऽसंज्ञिपञ्चेन्द्रिया अपि, संज्ञिपञ्चेन्द्रियेभ्यस्तु ते एकेन्द्रियवर्जा अपि सर्वेऽसंख्येयगुणाः सन्ति, तदेवं विकलेन्द्रियासंज्ञिपञ्चेन्द्रियाणामपि संख्येयभागवृद्धिहान्योर्बन्धकत्वादनन्तरपूर्वपदोक्तबन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org