SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ २०६ ] कापेक्षया संख्येयभागवृद्धिहान्योः प्रत्येकं बन्धका असंख्येयगुणाः प्राप्यन्त इति । "ता हिन्तो" ति तेभ्यः संख्येयभागवृद्धिहान्यन्यतरबन्धकेभ्यः “ऽणंतगुणा हुन्ति असंखंसवड्ढिहाणीणं” ति असंख्यांशवृद्धिहान्योः प्रत्येकं वन्धका अनन्तगुणा भवन्ति, सस्थानसाधारण वनस्पतिकायिकानामपि तत्स्वामित्वात् । बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासु तत्तहृद्धयादिबन्धकाल्पबहुत्व● . “ताहिन्तो” त्ति तेभ्योऽसंख्यांशवृद्धिहान्यन्यतरत्रन्धकेभ्यः "वठाणस्स असंखगुणा मुणेयव्वा" त्ति ज्ञानावरणादेरवस्थानलक्षणस्य स्थितिबन्धस्य बन्धका असंख्यगुणा ज्ञातव्याः । कुतः ? असंख्यभागवृद्धिहान्यवस्थानस्थितिबन्धानां प्रत्येकं सर्वजीवस्वामिकत्वेऽप्यसंख्य भागवृद्धिहानेरे कजीवाश्रितोत्कृष्टकालस्य द्विसमयमात्रत्वात् ततश्वावस्थानबन्धोत्कृष्टकालस्य त्वसंख्येयगुणत्वात्। अयम्भावः-सामान्येन तत्तदृद्धिहानिबन्धार्ह जीवराशीनामेकेन्द्रिय-विकलेन्द्रिय- मनुष्यादिरूपेण विजातीयत्वे तत्तद्राशीनां परस्पराल्पबहुत्वानुसारेण तत्तद्वद्ध्यादिवन्धकानामल्पबहुत्वं सम्पद्यते, अतो द्विचरमत्रिचरमादिपदेषु तथैव दर्शितम्, उत्तरत्र तथा दर्शविष्यते च । तत्तद्वृद्धिहानिबन्धकानां नारक- तिर्यग मनुष्य-देव-पञ्वेन्द्रिय-विकलेन्द्रियै केन्द्रियादिरूपेण तुल्यत्वे तु संख्ये गुणसंख्येयभागादितत्तद्विजातीय वृद्ध्यादेर्वन्धकाः वक्ष्यमाणनीत्या यथोत्तरं संख्येयगुणाः सम्पद्यन्ते, अत एव नरकगत्योघादिमार्गणासु ते यथोत्तरं संख्येयगुणा अभिधास्यन्ते, सजातीयसंख्येयगुणवृद्ध यादेर्बन्धकास्तु तत्तत्सजातीय संख्येय गुणादिवृद्धिहान्पोरेकजीवाश्रयकालानुसारेण तुल्या अतुल्या वा प्राप्यन्ते, एकजीवाश्रयकालस्य तुल्यत्वे तुल्याः प्राप्यन्ते, तस्यातुल्यत्वे त्वतुल्याः संख्येयगुणा लभ्यन्त इति भावः । अत एवौघतस्तत्तत्सजातीय वृद्धिहानिपदयोर्घन्धकास्तुल्या अभिहिताः, मार्गणास्थानेष्वभिधास्यन्ते च । अवस्थानवन्धकास्तु संख्येय-संख्येयातीतलक्षणस्व परिमाणानुसारेण चरमपदे संख्येयगुणा असंख्य गुण वा सम्पद्यन्त इत्यत ओघतश्चरमपदे तेऽसंख्येयगुणा प्रतिपादिताः, नरकगत्योघादिमार्गणास्त्रसंख्येयगुणास्तथा पर्याप्तमनुष्यादिमार्गणासु संख्येयगुणाश्च प्रतिपादयिष्यन्त इति ॥। ८२०-८२१-८२२ ।। तदेवमभिहितमोवतो ज्ञानावरणादेरसंख्येयभागप्रभृतिवृद्ध्यादिसत्पदानां बन्धकाल्पबहुत्वम् । अधुना तदेवादेशतो द्रष्टव्यम्, तत्र प्रथमं निरयगत्योघभेदे दिदर्शयिषुस्तत्साम्यादन्यमार्गणाभेदानपि संगृह्याह सव्वेसु णिरयेसु पज्जपणिंदितिरिये तिरिच्छीए । असमत्तणरे सव्वत्थवज्जदेवेसु विवदुगे ||८२३|| विब्भंगम्मि य देसे तेउ - पउम - वेअ गेसु सासाणे | मिस्से सत्तण्ऽप्पा संखियगुणवड्ढिहाणीणं ॥ ८२४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy