SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ वृद्धयादिबन्ध काल्पबहुत्वोपपत्तिमार्गी: ] वृद्धयधिकारेऽल्पबहुत्व द्वारम् तत्तो संखेज्जगुणा हवन्ति संखंसवडिढहाणीणं । तत्तो संखे जगुणा हुन्ति असंखंसवड्ढिहाणीणं ॥ ८२५ ॥ (गीतिः) ताउ असंखेज्जगुणाऽवट्ठाणस्सेवमेव सव्वत्थे । आहारदुगम्मि तहा परिहारे णवरि संखगुणा || ८२६ ॥ (प्रे० ) " सव्वेसु णिरयेसु " इत्यादि, सर्वेष्वोघोत्तर भेदभिन्नेष्वष्टसंख्याकेषु निरयगतिभेदेषु, तथा पर्याप्तपञ्चेन्द्रियतिर्यग्भेदे, तिरश्रीभेदे, अपर्याप्तमनुष्ये, “सव्वत्थवज्जदेवेसु" ति सर्वार्थसिद्धविमानभेदवर्जेष्वोघ-भवनपत्यादि भेदभिन्नेष्वेको नत्रिंशद्देवगतिभेदषु, वैक्रिय- वैक्रियमिश्रकाययोगयोः, विभङ्गज्ञाने, देशसंयमे, तेजः - पद्मलेश्या - वेदकसम्यक्त्वेषु, सासादने, मिश्र दृष्टिमार्गणानां चेत्येता स्वेकोनपञ्चाशन्मार्गणासु प्रत्येकं "सत्तण्हप्पा संखियगुणवडिहाणोण”मित्यादि, आयुर्वर्ज सप्तान्यतममूलप्रकृतीनां संख्येयगुणवृद्धिहान्योरेकैकस्याः ' अन्पाः' - सर्वस्तोकाः, बन्धका इत्यनुवर्तते इत्येवमुत्तरत्रापि ततस्तासामेव सप्तानां प्रत्येकं संख्येय भागवृद्धिहान्यन्यतरस्या बन्धका उत्कृष्टपदे संख्येयगुणा भवन्ति । ननु नरकगत्यवादिप्रस्तुतमार्गणासु प्रत्येकमेकजीवाश्रितो निरन्तर उत्कृष्टबन्धकालः संख्येयगुणवृद्धिहान्योः संख्ये भागवृद्धिहान्योश्च प्रत्येकं तुल्यो द्विसमयमात्रः, किञ्च नरकगत्योघादिमार्गणागताः प्रत्येकं जीवा उक्त वृद्धयादिचतुर्विधसत्पदबन्धार्हाः, इत्थं च यथा संख्येयगुणवृद्धिहान्योन्धका उत्कृष्टपदे तुल्याः प्राप्यन्ते तथा संख्येयभागवृद्धिहान्योर्बन्धका अपि कथं तैस्तुल्या नोच्यन्ते, किन्तु संख्येयगुणा उच्यन्ते ? इति चेद्, भण्यतेऽत्रोत्तरम्, प्रत्यन्तमुहूर्त जायमानासु स्वस्थाने बन्धप्रायोग्यास्वसंख्येयं गुणवृद्धिहानिवर्जासु संख्येयगुणादिषु त्रिविधवृद्धिषु त्रिविधहानिषु चैकैकस्या एकजीवाश्रितोत्कृष्टान्तरस्यान्तर्मुहूर्त प्रमाणत्वेऽप्युत्कृष्ट तो यावदन्तरमसंख्येयभागबुर्द्धर्भवति तदपेक्षया संख्येयभागवृद्धेस्तत्संख्येयगुणं भवति, ततोऽपि संख्येयगुणवृद्धेस्तत्संख्येयगुणं भवति, इत्थं चान्तर्मुहूर्तान्तरेण जायमानयोः संख्येयगुणवृद्धयोरन्तरालेऽन्तर्मुहूर्तकालान्तरिताः संख्येयाः संख्ये भागवृद्धयस्तादृश्यो हानयश्च जायन्ते, तासामप्यान्तमुहूर्तिके एकैकस्मिन्नन्तराले संख्येया असंख्येयभागवृद्धिहानयः प्राप्यन्ते । इत्थमेव हानिविषयेऽपि विज्ञेयम् । एतच्च बाहुल्येन भवति, न पुनर्नियमतः, निरन्तरं सदृशवृद्धिद्वयमित्र समयद्विसमयाद्यन्तरेणाऽपि संख्येयगुणादिसदृशवृद्धिहानीनां सम्भवात् संख्येयगुणादिवृद्धिहानीनां बाहुल्येनान्तमुहूर्तमन्तरं तु प्रत्येकं वृद्धिहानीनामेकजीवाश्रितनिरन्तरकाल स्योत्कृष्टतोऽपि द्विसमयमात्राऽभिधानात् तदीयोत्कृष्टान्तरस्यान्तमुहूर्त प्रमाणाभिधानाच्च, अत एव निरन्तराः स्तोकान्तरा वा वृद्धिहानयः कादाचित्य एवाssवेदनीयाः । Jain Education International [ ६०७ " For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy