SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ .६०८] बंधविहाणे मूलपयडिठिइबंधो [ यथोत्तरं संख्येयगुणत्वे उपपत्ति. नन्वतेन प्रकृते किमायातम् ? उच्यते, इत्थं हि प्रत्येक जीवानां जीवनबहुभागे स्वस्थाने बन्धप्रायोग्यवृद्धिष्वसंख्येयभागवद्धयो यावन्न्यो जायन्ते तदपेक्षया संख्येयभागवृद्धयः संख्येयगुणहीना जायन्ते, ततोऽपि संख्येयगुणाधिकस्थितिबन्धरुपा वृद्धिर्बन्धप्रायोग्यास्तदा सा पुनरपि संख्येयगुणहीनवारान् संजायते,एवं संख्येयगुण-संख्येयभागादिवृद्धीनां प्रत्येकं बन्धार्हजीवानां पञ्चेन्द्रियत्वादिरूपेणाविशिष्टत्वे तासु दीर्घान्तरेण जायमानाया संख्येयगुणवृद्ध‘न्धकतया जीवानां स्तोकवारानेव परिणतेस्तद्वन्धका उत्कृष्टपदेऽपि स्तोकाः प्राप्यन्ते, संख्येयभागवद्धिबन्धकतया तु तेषां जीवानां पूर्वापेक्षया संख्येयगुणाधिकवारान् परिणतेः संख्येयभागवृद्धिबन्धका उत्कृष्टपदे पूर्यापेक्षया संख्येयगुणाः सम्पद्यन्ते, एवमुत्तरत्राऽप्यसंख्यभागवृद्धिबन्धकतया पूर्वापेक्षयाऽपि संख्येयगुणाधिकवारान् परिणतेस्तद्वन्धकास्तूत्कृष्टपदे पूर्वापेक्षयाऽपि संख्येयगुणाः प्राप्यन्ते, एवं हानिपदेष्वपि विज्ञेयम् । प्रस्तुते च नरकगत्योघादिमार्गणासु संख्येयगुण-संख्येषभागा-ऽसंख्येयभागवृद्धिहानिबन्धार्हजीवानां नारकत्वादिना तेन तेन रूपेण समानत्वात् संख्येयगुणवृद्धस्तादृशहानेर्वा बन्धका उत्कृष्टपदे यावन्तः प्राप्यन्ते तदपेक्षया संख्येपभागवृद्धस्तादृशहानेर्वा बन्धकाः संख्येयगुणा अवाप्यन्ते, तदपेक्षया च संख्येयगुणा असंख्येयभागवृद्धिहान्यन्यतरबन्धका वक्ष्यन्ते । न च संख्येयगुणवृद्धयोरन्तर्मुहूर्तप्रमाणे एकस्मिन्नन्तरेऽन्तमुहूर्तान्तरिताः संख्येयाः संख्येयभागवृद्धिहानयोस्तासामपि प्रत्येकमान्तर्महर्तिकेष्वन्तरेषु संख्येया असंख्येयभागवद्धिहानय इत्येतत् कथं सङ्गच्छेदित्यारेकणीयम् । यतोऽन्तम हूर्तकालस्याऽसंख्येयभेदभिन्नतयैकस्मिन् बृहत्यन्तमुहूर्ते संख्येयानां ह्रस्वान्तमुहूर्तानाम् , तेष्वपि प्रत्येकं पुनरपि संख्येयानां ह्रस्वतरानामन्तमुहूर्तानां सुखेन समावेशो जायते, इत्थं न काचिदसङ्गतिः । ननु यद्यन्तर्मुहूर्तकालस्यासंख्येयभेदभिन्नतयोत्कृष्टं संख्येयगुणवद्धयन्तरमप्यसंख्येयैर्भेदैभिद्यते तदा तु तादृश्येकस्मिनन्तरेऽसंख्येवानां संख्येयभागवृद्धिहानीनां तथा तानामन्तरेघसंख्येयानामन्तमुहूर्तान्तरितानामप्यसंख्येयभागवद्धिहानीनां सम्भवात् निरयगत्योघादिषु मार्गणास्थानेषु संख्येयगुणवृद्धिहान्यन्यतरबन्धकापेक्षया संख्येयभागवृद्धिहान्यन्यतरबन्धकतया प्रत्येकं जीवानामसंख्येगुणाधिकवारान् परिणमनात् संख्येयभागवृद्धिबन्धका असंख्येयगुणाः सम्पधेरन् , तेभ्यश्च वक्ष्यमाणासंख्येयभागवृद्धिहान्यन्यतरबन्धका असंख्येयगुणा लभ्येरन् ? इति चेद्, न । यतो वद्धयो हानयो वा विवक्षितस्थितिबन्धानामन्यविधाधिकस्थितिबन्धतया न्यूनस्थितिवन्धतया वा परावृत्तौ सत्यां जायन्ते, न पुनरवस्थितस्थितिवन्धानामिव तुल्यस्थितिबन्धे विद्यमान एव; अन्यान्यस्थितिबन्धपरावृत्तिस्त्वन्यूनेऽपि मुहूर्ते संख्येयवारानेव जायते, न पुनस्तदधिकवारान् , इत्थं च बृहत्यन्तर्मुहूर्तेऽपि संख्येयवारान् स्थितिबन्धपरावृत्ते नवेिन तदधीनाः सर्वविधवृद्धिहानयः समुदिता अपि संख्येया एव भवन्ति, तथा च सति न सम्भवति कुतश्चिदपि निरयगत्योपादिजीवराशिषु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy