SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ मार्गणासु तत्तद्वृद्धयादिबन्धकाल्पबहु० ] वृद्धयधिकारेऽल्पबहुत्वद्वारम् [ ६०९ संख्येगुणवृद्धिहानिबन्धकेभ्यः संख्येयभागवृद्धिहानिबन्धकानामसंख्येयगुणत्वम् , एवं संख्येभागवृद्धिहानिबन्धकापेक्षयाऽसंख्ययभागवृद्धिहानिबन्धका नाऽसंख्येयगुणाः, किन्तु यथोक्ता यथोत्तरं संख्येयगुणा एव सम्भवन्तीत्यलं विस्तरेण । अथ प्रस्तुतम् “तत्तो संखेनगुणा हुन्ति” इत्यादि, तेभ्योऽनन्तरोक्तेभ्यो ज्ञानावरणादितत्तत्प्रकृतेः "असंखंसवढिहाणीणं" ति स्थितिबन्धविषयाया असंख्येयभागवृद्धिहान्यन्यतरस्या बन्धकाः संख्येयगुणा भवन्ति । उपपत्तिस्त्वत्राऽनन्तरगतपदस्य संख्येयगुणत्वे या दर्शिता सैव द्रष्टव्या, मार्गणागतसर्वजीवानां संख्येयगुण-संख्ययभागवृद्धिहानीनामिवाऽसंख्येयभागवृद्धिहान्योबन्धेऽपि समर्थत्वात् । इत्थमेवोत्तरत्रापि निरन्तरोक्तपदद्वयस्य मार्गणागतस्वामिनां सदृशत्वेन संख्येयगुणत्वमवसेयमिति । "ताउ" तितेभ्योऽसंख्येयभागवृद्धिहान्यन्यतरबन्धकेभ्यः “असंखेजगुणाऽवट्ठाणस्स" त्ति अवस्थानलक्षणस्य स्थितिबन्धस्य निर्वतका असंख्ययगुणा भवन्तीत्यर्थः । अत्र हि प्रत्येक मार्गणासु संख्यातीतानां जीवानां प्रविष्टत्वादसंख्येयगुणत्वमोघवद् द्रष्टव्यम् ।। तदेवमभिहितं नरकगत्योधादिमार्गणास्थानेष्वायुर्वर्जानां सप्तानां संख्येयगुणवद्धयादिबन्धकानामल्पबहुत्वम् । इदानीं सर्वार्थसिद्धविमानभेदादिकतिपयमार्गणासु चरमपदं विहाय शेषस्थानेष्वनन्तरोक्ताल्पबहुत्वेन साम्यात् तासु सापवादमतिदिशति-"एवमेव सव्वत्थे"त्यादि,अनुपदं नरकगत्योधादायुक्ताल्पबहुत्ववत् सर्वार्थसिद्धविमानभेदा-ऽऽहारक-तन्मिश्रकाययोगमार्गणासु तथा परिहारविशुद्धिकसंयममार्गणायां चेत्येतासु चतसृषु मार्गणासु प्रत्येकं प्रस्तुताल्पबहुत्वं ज्ञातव्यम् , "णवरि" ति नवरमयं विशेषः, स च “संखगुणा” त्ति अनन्तरोक्ताल्पबहुत्वे यत्राऽसंख्येयगुणा बन्धका उत्तास्तत्र चरमपदेऽवस्थानलक्षणस्थितिबन्धस्य बन्धकाः संख्येयगुणा इत्येवंरूपो विज्ञेयः । इत्थं च सर्वार्थसिद्धविमानभेदादिमार्गणाचतुष्के सप्तानां संख्येयगुणवृद्धिहान्यन्यतरस्य बन्धकाः स्तोकाः, तेभ्यः संख्येयभागवृद्धिहान्यन्यतरस्य बन्धकाः संख्येयगुणाः, तेभ्योऽसंख्येयभागवृद्धिहान्यन्यतरस्य बन्धकाः संख्येयगुणाः, तेभ्योऽवस्थानलक्षणस्थितिबन्धस्य निर्वतका अपि संख्येयगुणा एवेत्येवमल्पबहुत्वं प्राप्तम् , अत्र चरमपदे संख्येयगुणत्वाभिधानं तु मार्गणाचतुष्केऽपि जीवानामेव संख्येयत्वाधिज्ञेयम् । अयम्भाव:-कस्यामपि मार्गणायामुत्कृष्टपदेऽसंख्येयानामनन्तानां वा जीवानां सद्भावेऽसंख्यभागवद्धिहान्यन्यतरबन्धकेभ्योऽवस्थितस्थितिबन्धका असंख्येयगुणाः सम्पद्यन्ते, यस्यां तु न सम्भवन्त्युत्कृष्टपदे संख्यातीता जीवाः, किन्तूत्कृष्टतोऽपि संख्येया एव तस्यां पुनरवस्थितस्थितिबन्धकाः संख्येयगुणा एव प्राप्यन्ते,तत्र सर्वबन्धकराशेरेव संख्येयत्वेनाऽन्यविकल्पानुपपत्तेः । शेषपदेषु तु नरकगत्योधवत्संख्येयगुणत्वमुपपाद्यमिति ।।८२३-८२६।। तदेवमभिहितं नरकगत्योधेन साम्यादन्यमार्गणास्वपि युगपदेव सप्तानामसंख्यभागवृद्धयादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy