________________
६१०)
___ बंधविहाणे मूलपयडिठिइबंधो [ तिर्यग्गत्योचादिमार्गणास्थानेषु वन्धकानामल्पबहुत्वम् । अथ क्रमप्राप्ते तिर्यग्गत्योघे तद् दिदर्शयिपुस्तत्साम्यादन्यमार्गणा अपि सङ्ग्रह्य सममेवाह
तिरि-युरलमीस-कम्मण-दुअणाणा-ऽयत-तिअसुहलेसासु। अभविय-मिच्छत्तेसु अमणा-णाहारगेसु च ॥८२७॥ सत्तण्ह बंधगा खलु थोवा संखगुणवड्ढिहाणीणं । ताउ असंखेज्जगुणा हवन्ति संखंसवढिहाणीणं ॥८२८॥ (गीतिः) तान्हितोऽणंतगुणा अस्थि असंखंसवढिहाणीणं । ताउ असंखेज्जगुणाऽवट्ठाणस्स हु मुणेयव्वा ॥८२९॥ (प्रे०) "तिरियुरले"त्यादि, तिर्यग्गत्योधौ-दारिकमिश्रकाययोग-कार्मणकाययोगमत्यज्ञान-श्रुताज्ञाना-ऽसंयम-कृष्णादिव्यशुभलेश्यासु, अभव्य-मिथ्यात्वयोः, असंड्य-ऽनाहारकयोश्चेत्येतासु समुदितासु त्रयोदशमार्गणासु प्रत्येकमायुर्वर्जानां सप्तानामेकैकस्य "बंधगा खलु थोवा संखगुणवढिहाणीणं" ति संख्येषगुणवृद्धिहानिलक्षणयोर्द्वयोः पदयोः प्रत्येकं बन्धकाः खलु 'स्तोकाः' वक्ष्यमाणपदेभ्यः स्तोकाः, परस्परं तु तुल्या इत्यपि विज्ञेयम् । कुतः स्तोकाः बन्धकाः ? स्वस्थाने तु पर्याप्ताऽपर्याप्तसंश्यसंज्ञिपञ्चेन्द्रियैरेव तयोनिवर्तनात् ,तेषां च मार्गणागतशेषवृद्धिहानिबन्धकेभ्योऽनन्तभागगतत्वात् । “ताउ" ति 'तेभ्यः'-उक्तान्यतरबन्धकेभ्यः संख्येयांशवृद्धिहान्योरेकैकस्यास्तेऽसंख्येयगुणा भवन्ति । कुतः ? पर्याप्ताऽपर्याप्तसंज्ञिपञ्चेन्द्रियाणामिव पर्याप्ताऽपर्याप्ततीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञिपञ्चेन्द्रियाणां स्वस्थाने संख्येयभागवृद्धिहान्योर्जायमानत्वात् । "ताहिन्तो” त्ति तेभ्यः संख्येयांशवद्धिहान्यन्यतरबन्धकेभ्यः सप्तानामसंख्यांशवद्धिहान्योरेकैकस्या बन्धका अनन्तगुणा भवन्ति, स्वस्थानकेन्द्रियाणामपि प्रस्तुतवद्धिहानिद्वयस्वामित्वात् । परस्परन्त्वेते पूर्ववत् तुल्या एव विज्ञेयाः । “ताउ” त्ति तेभ्योऽसंख्येयभागवृद्धिहान्यन्यतरवन्धकेभ्योऽवस्थानलक्षणस्थितिबन्धनिर्वतकाः “असंखेजगुणा” ति ओघवदसंख्येयगुणा ज्ञेया इति ।
अथ क्रमप्राप्तपञ्वेन्द्रियतिर्यगोधमार्गणायां प्रस्तुताल्पबहुत्वं विभगिपुस्तत्साम्यादन्यत्राऽपि सममेव सापवादमतिदिशति
णिरयब पणिदितिरिय-तदपजा-ऽपजतसपणिंदीसु।
णवरि असंखेजगुणा हवन्ति संखंसवढिहाणीणं ॥८३०॥ (गोतिः) (प्रे०) "णिरयव्वे" त्यादि,निरयगत्योघवत् प्रस्तुताल्पबहुत्वं विज्ञेयम् , विहाय "णवरि" इत्यादिनोचरार्धेनाभिहितापवादपदम्, कासु मार्गणास्वित्याह- "पणिंदितिरिये" त्यादि, पञ्चे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org