SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ पच न्द्रियतिर्यगोचादिमार्गणासु० ] वृद्धयधिकारे ऽल्पबहुत्वद्वारम् [ ६११ न्द्रियतिर्यगोध- तदपर्याप्ताऽपर्याप्तत्र सकाया- पर्याप्तपञ्चेन्द्रियलक्षणासु चतसृषु मार्गणास्त्रित्यर्थः । इत्थं च मार्गणाचतुष्के सप्तानां संख्येयगुणवृद्धिहानिबन्धकाः सर्वस्तोकाः, तेभ्यः संख्येयभागवृद्धिहानिबन्धकास्त्वसंख्येयगुणाः, तेभ्योऽसंख्येय भागवृद्धिहानिबन्धकास्तु निरयगत्योघवत् संख्येयगुणा एव, ततः पुनरवस्थान स्थितिबन्धका अपि तथैवाऽसंख्येयगुणा एवेति । अत्रापवादपदं विहाय शेषपदेषु यथोक्ताल्पबहुत्व हेतवोऽपि नरकगत्योघवदेव विज्ञेयाः, अपवादपदे तु निरयगत्योघापेक्षयाऽस्ति विशेषः, ततश्चाल्पबहुत्वमपि विशेषेणाभिहितम्, कः सः ? इति चेद्, निर त्यमार्गणायां तया सहाभिहितमार्गणासु चान्यतमस्यामपि मार्गणायामपर्याप्तसंस्थसंज्ञिपञ्चेन्द्रिलक्षणा द्विविधजीवाः प्रविष्टा नासन्, अत्र तु प्रत्येकं तादृशा द्विविधजीवाः प्रविष्टाः सन्ति, अपर्याप्तेषु तु संज्ञिपञ्चेन्द्रियजीवापेक्षयाऽसंज्ञिपञ्चेन्द्रियजीवा असंख्येयगुणा विद्यन्ते, ततश्च संख्येयगुणवृद्धिहानिबन्धकेभ्यः संख्ये भागवृद्धिहानिबन्धका असंख्येयगुणाः प्राप्यन्ते, असंज्ञिभिः स्वस्थाने संख्येयगुणवृद्धिहान्योरनिर्वर्तनादिति ||८३० || अथ पर्याप्तमनुष्यादिचतुर्मागर्णाः सङ्गृह्याहपजमणुस - मणुसीस मणपज्जव-संयमेसु सत्तण्हं ओघकमा संखगुणा जहुत्तरं बंधगा या ॥ ८३१ ॥ (प्रे० ) "पजमणुसे" त्यादि पर्याप्तमनुष्य मानुषीमार्गणयोः, मनः पर्यवज्ञान-संयममार्गयोश्च प्रत्येकं सप्तनामायुर्वनां प्रकृतीनां "ओघकमा" ति 'ओघक्रमात् ' - येन क्रमेण ओघप्ररूपणायामवक्तव्या संख्येयगुणवद्ध्यादिपदान्यभिहितानि तेन क्रमेणेत्यर्थः । तेन क्रमेण किमित्याह-"संखगुणा जह्नुत्तर" मित्यादि, 'यथोत्तरम्' उत्तरोत्तरस्थानेषु संख्येयगुणा बन्धका ज्ञेयाः । तद्यथा-सर्वस्तोका अवक्तव्यबन्धकाः, तेभ्योऽसंरूपगुण वृद्धेर्वन्धकाः संख्यगुणाः, तेभ्योऽसंख्येयगुणहानेर्बन्धकाः संख्यगुणाः, तेभ्यः संख्येयगुणवृद्धिहान्योरेकैकस्याः संख्येयगुणाः परस्परं तु तयोस्तुल्याः बन्धकाः, तेभ्योऽन्यतरस्या बन्धकेभ्यः संख्य भागवृद्धिहान्योरेकैकस्या बन्धकाः संख्येयगुणाः, परस्परं तुन्याः, तयोरन्यतरस्या बन्धकेभ्योऽसंख्पभागवृद्धिहान्योरेकैकस्या बन्धकाः संख्यगुणाः परस्परन्तु प्राग्वत्तुल्याः, तेभ्यः पुनरवस्थान स्थितिबन्धकाः संख्येयगुणा इति । कुतः प्रतिपदं यथोत्तरं संख्येयगुणा: ? इति चेद्, पर्याप्तमनुष्यादिप्रस्तुत प्रत्येकमार्गणासूत्कृष्ट जीवपरिमाणस्यैव संख्येयवेत्न यथोत्तरं संख्येयगुणादधिकवन्धकानामसम्भवादिति ||८३१॥ अथ स्थावरभेदेषु प्रस्तुताल्पबहुत्वमाह - सत्तरह वडिहाणीण हुन्ति थोवा तओ असंखगुणा । sara सव्वेगिंदिपणकायेसु ॥ ८३२ ॥ (प्रे०) “सत्तण्हे" त्यादि, ओघ सूक्ष्मौघ तत्पर्याप्ता - पर्याप्त बादरौघ तत्पर्याप्ताऽपर्याप्तलक्षणानि सप्तै केन्द्रियमार्गणास्थानानि, एवमेव पृथ्वीकाया - ऽप्काय - तेजस्काय - वायुकाय - साधारणवन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy