________________
६०२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वसंख्यगुणवृद्धिहान्यन्तर ० 'तत्र'-तासु मार्गणासु “समयो लहु असंखगुणवड्ढिहाणीण" ति तयोरसंख्यगुणवृद्धिहान्योर्नानाजीवाश्रितं 'लघु' - जघन्यं बन्धान्तरं समयः, ओघवत्समयप्रमाणं भवतीत्यर्थः । भावनाप्योघवदेव द्रष्टव्येति । अथाऽनयोरेवोत्कृष्टान्तरमाह-" जेट्ठ" मित्यादि, असंख्यगुणवृद्धिहान्योः प्रत्येकं ‘ज्येष्ठम्’-उत्कृष्टमन्तरं वर्षपृथक्त्वं भवतीति परेणान्वयः । कासु मार्गणास्त्रित्याह - " मणुसित्थो”त्यादि, मानुषी - स्त्रीवेद- नपुंसक वेदाऽपगतवेद-मनः पर्यवज्ञानौ- पशमिकसम्यक्त्वमार्गणास्वित्यर्थः । न च 'वासपुहुत्तमुत्रसामएस' इति वचनादौपशमिकसम्यक्त्वमार्गणायां प्रस्तुतहान्यन्तरस्योत्कृष्टतो वर्षपृथक्त्वप्रमाणत्वेऽपि मानुष्यादिमार्गणासु नैतद्युज्यते, तासु क्षपकाणामपि प्रस्तुतहानेर्भावात्, क्षपकाणामुत्कृष्टान्तरस्य षण्मासप्रमाणत्वाच्चेति वाच्यम् । तत्तद्वेद-तत्तज्ज्ञानादिनाऽविशिष्टानां क्षपकसामान्यानां नानाजीवाश्रयान्तरस्य पण्मासप्रमाणत्वेऽपि तत्तद्वेदज्ञानादिभेदेन विशिष्टानां स्त्र्यादितल्लिङ्गिनामवध्यादितत्तज्ज्ञानीनां सिद्धयन्तरवद्यथा मानुष्यादिमार्गणासु स्त्रीवेदादिविशिष्टक्षपकनानाजीवान्तरापेक्षया सप्तानां जघन्यस्थितिबन्धान्तरं विलक्षणं विलक्षणं प्राप्यते तथैव प्रस्तुत - हान्यन्तरमपि मानुष्यादिमार्गणाप्रविष्टक्षपकजीवाऽन्तरापेक्षया विलक्षणं वर्षपृथक्त्वादिकं प्राप्यते, न तु क्षपकसामान्योत्कृष्टान्तराक्षिप्तं षण्मासप्रमाणमेव, अत एव पु'वेदादिमार्गणास्थानेषु तत् षण्मासमनुक्त्वा साधिकवर्षादिमानमनुपदमेव वक्ष्यते, इत्थं जघन्य स्थितेर्बन्धकान्तरवदिदमप्यन्तरं मानुष्यादिमार्गणासु यथासम्भवं वेदितव्यमिति । अपगतवेद मार्गणायां तु वेदनीय- नामगोत्र लक्षणानां तिसृणां मूलप्रकृतीनामेव तद्वर्षपृथक्त्वम्, न पुनस्तदन्यासाम्, गतवेदमार्गणायां तदन्यासाम संख्येयगुणवृद्धिहान्यो रेवाभावात् ।
अथ छेदोपस्थापन संयममार्गणायां प्रस्तुतवृद्धिहान्योरुत्कृष्टान्तरमाह - "छेए अट्ठारस" इत्यादि, एतदपि सुगमम्, नानाजीवानाश्रित्य प्रस्तुतमार्गणाया एव सान्तरत्वात्, तदीयोत्कृष्टान्तरस्याऽष्टादशसागरोपमकोटिकोटिप्रमाणत्वाच्च । विशेषतस्तु प्रस्तुतमार्गणायां सप्तकर्मणां जघन्यादिस्थितिबन्धस्य प्राग्दर्शितोत्कृष्टान्तरानुसारेण दर्शनीयम् ।
1
इदानीं शेषमार्गणासु तत्रप्रविष्ट नानाजीवाश्रितोपशमश्रेण्युत्कृष्टान्तराधीनम संख्यगुणवृद्धेरुत्कृष्टान्तरं दर्शयति - "सेसासु वड्ढोए" इत्यादि, यासु मार्गणास्त्रसंख्यगुणवृद्धिपदं सत् तास्वनन्तरोक्ता मानुष्यादिषण्मार्गणाः संत्यज्य शेषासु मनुष्यगत्योघादिमार्गणासु प्रत्येकं 'बृद्धेः’असंख्यगुणवृद्धेरुत्कृष्टमन्तरं वर्षपृथक्त्वं भवति । कुतः १ असंख्यगुणवृद्धेरुपशमश्रेणावेव भावादिति ।
अथोक्तशेषासु मार्गणास्वेव क्रमेण प्रस्तुतहानेरुत्कृष्टान्तरं दर्शयति- " पुरिसे साहियवासो यंहाणी" ति पुरुषवेद मार्गणायां सप्तमूलप्रकृतीनामसंख्यगुणस्थितिबन्धहानेर्नाना जीवाश्रितमुत्कृष्टमन्तरं साधिकवर्षप्रमाणम्, तथा क्रोधादिलक्षणासु चतसृषु कषायमार्गणासु प्रत्येकम् "अब्भहियो वासो" त्ति अभ्यधिकवर्षमानं प्रस्तुतान्तरं भवेत्, "उअ छम्मासा अंतरं होई” ति 'उत'-अथवा मतान्तरेण कषायमार्गणाचतुष्के प्रस्तुतान्तरं षण्मासा भवति । "ओहिदुगे” ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org