Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
॥ अध्यावासायसामुदाहा॥ अधुना "अज्झवसाणसमुदाहारो" इत्यनेनोद्दिष्टस्याऽध्यवसायसमुदाहाराख्यस्य चरमाधिकारस्यावसरः । तत्र त्रीण्यनुयोगद्वाराणि, तानि चाधिकारप्रारम्भे नामत उद्दिशनाह
छ? खलु अज्सवसणसमुदाहारे हवन्ति अहिगारे । तिण्णि कमा दारा ठिइ-पयडी-जीव-समुदाहारा ॥८४४॥ (प्रे०) “छट्टे खलु” इत्यादि, मूलप्रकृतिस्थितिवन्धग्रन्थमनुरुध्यानुपूर्विक्रमेण 'पष्ठे'चरमेऽधिकार इत्यर्थः; मूलप्रकृतिस्थितिबन्धग्रन्थे षण्णामधिकाराणामेवोद्दिष्टत्वादिति भावः । अतश्वरमेऽध्यवसानसमुदाहाररूपेऽधिकारे “तिणि कमा दारा" ति क्रमात् त्रीणि द्वाराणि भवन्ति, तानि च "ठिइपयडीजीवसमुदाहारा" ति समुदाहारशब्दस्य प्रत्येकं योजनात् स्थितिसमुदा'हार; प्रकृतिसमुदाहारः, जीवसमुदाहारश्चेत्येवंलक्षणानि । तत्र स्थितीरधिकृत्याध्यवसायानां स्थितिबन्धकारणीभूतानां कषायोदयजन्यात्मपरिणामविशेषाणां प्रगणनादिद्वारैः प्ररूपणं स्थितिसमुदाहारः, इत्थमेव प्रकृतिषु ज्ञानावरणादिलक्षणासु स्थितिबन्धाध्यवसायानां समुदाहरणं प्रकृतिसमुदाहारः, जीवसमुदाहारस्तु यत्र स्थितिबन्धस्थानेष्वेव जीवानां बन्धकतया समुदाहरणं भवति स विज्ञेयः । उक्तं च कर्मप्रकृतिचूर्णिविशेषविवृतौ श्रीमन्मुनिचन्द्रसूरिप्रकाण्डेन____ स्थितिबन्धस्थानेषु स्थितिबन्धाध्यवसायानां वक्ष्यमाणैत्रिभिः प्रगणनादिभिर्दारैः समुदाहरणमाख्यानं स्थितिसमुदाहारः । प्राति कृतिपु ज्ञानावरणादिषु स्थितिबन्धस्थानानामेव समुदाहारः प्रकृतिसमुदाहारः । जीवानां स्थितिबन्धस्थानेष्वेव बन्धकत्वेन समुदाहारो जीवसमुदाहारः' इति गाथार्थः ॥८४४॥
॥ प्रथमः स्थितिसमुदाहारः॥ अथ प्रथमे स्थितिसमुदाहारे त्रीण्यवान्तरद्वाराणि, तद्यथा-प्रगणना, अनुकृष्टिः, तीवमन्दता च । उक्तं च कर्मप्रकृतिचूर्णी-'ठितिसमुदाहारो त्ति-तत्थ इमाणि तिण्णि अणुभोगदाराणि । तं जहापगणना, अनुकड्ढी, तिव्वमंदता' इति । तत्र प्रथमे प्रगणनाद्वारे आदौ तावत् मूलप्रकृतीनां तत्तस्थितीरधिकत्याध्यवसायान् प्रगणयन्नाह
पइठिइबंधमसंखा लोगा अट्ठण्ह अज्झवसणाणं । (प्रे०) “पइटिइबंध"मित्यादि, प्रगणनाप्ररूपणायाम् “अट्ठण्ह" ति ज्ञानावरणादीनामष्टानां मूलप्रकृतीनामेकैकस्याः "पइठिइपंध" ति जघन्यस्थितिबन्धादारभ्य समयद्विसमयादिवृद्धयोत्कृष्ट स्थितिवन्धपर्यन्ता ये स्थितिबन्धाः-स्थितिबन्धविशेषाः, स्थितिबन्धस्थानानीति भावः । तेषु प्रत्येकम्-प्रतिस्थितिवन्धम् । जघन्यस्थितिबन्धे, समयाधिकजघन्यस्थितिबन्धे, द्विसमयाधिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762