Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
५८२]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासु तत्तत्स्थितिवृद्धिहानिबन्धकपरिमा० न्द्रियौघ-तत्पर्याप्त-त्रसकायौघ-तत्पर्यात-पञ्चमनोयोग भेद--पञ्चवचोयोगभेद-काययोगौ-दारिककाययोग-वेदत्रय-कषायचतुष्क-मत्यादिज्ञानचतुष्क-संयमोघ-सामायिक-छेदोपस्थापनसंयम-चक्षुरादित्रिदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वोध-क्षायिकौ-पशमिकसम्यक्त्व-संड्या-ऽऽहारिमार्गणाम सप्तप्रकृतीनामपगतवेदमार्गणायां च वेदनीय-नाम-गोत्रकर्मणामेव 'ते'-प्रस्तुतवद्धिहानिबन्धकाः “संखेजा" त्ति सुगमम् । ओघतः संख्येयानां लाभे मार्गणासु तदधिकानामसम्भव एवेति भावः ॥७८१॥
अथोक्तशेषवृद्धिहानीनां बन्धकपरिमाणं दिदर्शयिषुराहपज्जमणुस-मणुसीसुसब्वत्था-ऽऽहारदुग-अवेएसु। मणपज्जव-जइ-समइअ-छेअग-परिहार-सुहुमेसु ॥७८२॥ सत्तण्हं संखेज्जा णेया सगसेसवढिहाणीणं ।
सेसासु असंखेज्जा संखियभागगुणवढिहाणीणं ॥७८३॥ (गीतिः) (प्रे०) “पज्जमणुसमणुसोसु' इत्यादि, पर्याप्त मनुष्य-मानुपीमार्गणयोः, सर्वार्थसिद्धविमानदेवगतिभेदा-ऽऽहारकमिश्रकाययोगा-ऽपगतवेदमार्गणासु, मनःपर्यवज्ञान-संयमोघ-सामायिकछेदोपस्थापन-परिहारविशद्धिक-सूक्ष्मसम्परायसंयममार्गणास्वित्येवं द्वादशमार्गणःस प्रत्येकं 'सत्तण्ह' त्ति प्रकृतानामायुर्वर्जानां सप्तानां कर्मणां “सगसेसवढिहाणीणं संखेजा णेया" त्ति स्वपदेन प्राग्वन्मार्गणाया विवक्षितत्वात् 'स्वकानां'-पर्याप्तमनुष्यादितत्तन्मार्गणासकानां 'शेषवद्धिहानीनाम्'अनन्तरोक्तासंख्यंगुणवृद्धिहानी विवयं यत्र ज्ञानावरणादेयोवन्ति वृद्धिहानिपदानि सत्पदद्वारे बद्भूतानि प्रतिपादितानि तत्र तेषां सर्वेषां वद्धिहानिसत्पदानां संव्येया ज्ञेयाः, बन्धका इति गम्यते ।
अयम्भावः-एतासु पर्याप्तमनुष्यादिद्वादशमार्गणासु प्रत्येकं संख्येयानामेव जीवानां सद्भावादपगतवेद-सूक्ष्मसम्परायसंयमवर्जशेषमार्गणासु ज्ञानावरणादीनां सप्तानामसंख्येयभाग-संख्येयभागाऽसंख्येयगुणवद्धिहानिलक्षणानां षण्णां सत्पदानां बन्धकाः संख्येयाः, अपगतवेदमार्गणायां ज्ञानावरणदर्शनावरणा-ऽन्तरायकर्मणां संख्येयभाग-संख्येयगुणवद्धिहानिलक्षणानां चतुणों सत्पदानाम् , मोहनीयस्य संख्येयभागवृद्धिहानिलक्षणयोयोः सत्पदयोस्तथा वेदनीय-नाम-गोत्रकर्मणां तु संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानां चतुणा शेषसत्पदानां संख्येयाः । अत्र वेदनीय-नाम-गोत्रकर्मणामसंख्येयगुणवृद्धि-हानिलक्षणयोयोस्सत्पदयोरपि बन्धकाः संख्येया एव सन्ति, नवरं ते प्रागेर 'सत्तण्हं संखेज्जा अस्थि असंखगुणे' इत्यादिगाथोत्तरार्धेनाभिहिता इत्यतोत्र पुनर्न परिगणिताः, उक्तशे पदानां बन्धकपरिमाणस्यात्र भगनीयत्वात् । सूक्ष्मसम्परायसंयममार्गणायां मोहनीयायुवर्जानां षण्णामपि बन्धप्रायोग्यप्रकृतीनां संख्येयभागवद्धिहानिलक्षणयोई योः सत्पदयोः प्रत्येकं संख्यया बन्धकाः सन्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762