Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 649
________________ ५७६ ] ' बंधविहाणे मूलपडिठिइबधो [ आदेशतः करणयोजनया लब्धभङ्गाः तेषु सप्तविंशतिमार्गणाभेदष्वपि व्यशीत्युतरषट्शतान्वितैकोनविंशतिसहस्राणि (१९६८३) भङ्गा बोद्धव्याः । कुतः ? उक्तनवपदानामत्राप्यध्र वत्वाद् , अवस्थितपदस्य ध्रुवत्वाच्चेति । - अपर्याप्तमनुष्यमार्गणायामसंख्येयभाग-संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानि पट पदान्यवस्थानलक्षणमन्यदेकं पदं चेत्येवं सप्त पदान्यधु वाणि, ततः(२१८६)षडशीतियुतशताभ्यधिकसहस्रद्वयं भगा लभ्यन्ते, ते च सर्वेऽध्र वपदनिष्पन्ना बोद्धव्याः। कुतः १ प्रकृते एकस्यापिध्र वपदस्याऽसवेनैकरूपस्य वियोज्यत्वात् । एकरूपे वियोजिते तु शेषा अध्र वपदनिष्पन्ना भड्गा एव भवन्ति, "एगूणा हुन्ति धुवरहिआ" इति वचनात् । इत्थमेव वैक्रियमिश्रा-ऽऽहारक-तन्मिश्रकाययोग-परिहारविशुद्धिकसंयम-सासादन-मिश्रदृष्टिरूपास्वन्यासु षण्मार्गणास्वपि विज्ञेयम् । कुतः ? एतासु प्रत्येकमुक्तसप्तपदानामध्रु वत्वाद् , ध्रुवपदस्याभावाच्चेति । । सप्तकेन्द्रियमार्गणाभेदाः, सप्त साधारणवनस्पतिका पमार्गणाभेदाः, शेषद्वादशसूक्ष्मपृथिवीकायादिभेदाः, वनस्पतिकायौषभेदः, पथिव्यादिवायुकायान्ताश्चत्वार ओघभेदाः, तेषामेव चत्वारो बादरोघजीवभेदाः, चत्वारोऽपर्याप्तवादरपृथिव्यादिभेदाः, प्रत्येकवनस्पतिकायौघा-ऽपर्याप्तप्रत्येकवनस्पतिकायभेदो चेत्येतास्वेकचत्वारिंशन्मार्गणासु पुनः सप्तप्रकृतीनामसंख्येयभागवद्धिहानिलक्षणे द्वे, अवस्थानलक्षणमेकमिति त्रीणि पदान्येव सन्ति, तानि च त्रीण्यपि ध्रु वाणि, ततो ध्रुवपदनिष्पन्न (१) एको भङ्ग एव प्रत्येकं प्राप्यत इति । ____ विकलेन्द्रियसत्केषु नवमार्गणास्थानेषु प्रत्येकमसंख्येय भाग-संख्येयभागतिहानिलक्षणानि चत्वारि पदान्यध्र वाणि, एकमवस्थितपदं च ध्र वम् , तत उक्तरीत्या सप्तप्रकृतीनां प्रत्येकं स्थितिबन्धवृद्धयादेरेकानेकबन्धकनिष्पन्ना (८१) एकाशीतिर्भगा उत्पद्यन्ते। बादरपर्याप्तपृथिवीकाया- 'काय-तेजस्काय-वायुकायभेदाः पर्याप्तप्रत्येकवनस्पतिकाय भेदश्चेत्येतासु पञ्चमार्गणासु प्रत्येकं पुनः सध्र वा (९) नवैव भङ्गा उक्तरीत्या लभ्यन्ते । कुतः ? असंख्यभागवृद्धिहानिलक्षणयोर्द्वयोः पदयोरध्र वत्वात् , अवस्थानलक्षणस्यैकपदस्य ध्र वत्वाच्च । काययोगसामान्यमार्गणाभेदे संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणानि षट् पदानि, अवक्तव्यपदं चेत्येतानि सप्तपदान्यध्र वाणि, असंख्येयभागवृद्धिहानी लक्षणे द्वे पदे अवस्थितपदं चेति त्रीणि ध्र वाणि, ततो भङ्गका अप्युक्तनीत्या सप्ताशीत्यभ्यधिकशतान्वितसहस्रद्वयं (२१८७) प्राप्यन्ते, तत्रैको ध्रुवः, शेषा अध्र वा इति प्राग्वदवसातव्याः । यथा काययोगसामान्यमार्गणास्थाने तथौदारिककाययोगा-ऽचक्षुदर्शन-भव्या-ऽऽहारिमार्गणास्थानेष्वप्युक्तसप्तपदानां भजनीयत्वादुक्तपदत्रयस्याभाज्यत्वाच्च (२१८७) सप्ताशीत्यभ्यधिकशतोत्तरसहस्रद्वयं भङ्गका ज्ञेयाः । स्त्रीवेद-पुरुषवेद-सामायिकसंयमलक्षणासु तिसृषु मार्गणासु तु प्रत्येकमसंख्येयभाग-संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणान्यष्टौ पदानि भाज्यानि, अवस्थितपदं च ध्रुवमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762