________________
- स्थितिबन्ध वृद्धिहानिसत्पदोपपत्ति०] वृद्धयधिकारे सत्पदद्वारम्
"वड़िओ
संख्येयभागा-ऽसंख्येयभाग-संख्येयगुणा--ऽसंख्येयगुण---भेदनिष्पन्नाचतुः प्रकाराः हाणीओ" ति 'वृद्धयः- पूर्वसमयाऽपेक्षयाऽधिक स्थितिबन्धलक्षणाः, 'हानय:'- पूर्वसमयापेक्षया हीनस्थितिबन्धलक्षणा: “त्थि” त्ति अकारस्य दर्शनात् 'सन्ति' विद्यन्ते । चतुर्विधा वृद्धयश्चतुर्विधा हानयश्च सत्य एव, न पुनरेकेन्द्रियादिकतिपय मार्गणासु यथा संख्येयभागादिवृद्धिहानयो वियदिन्दीवरवदसत्यो वक्ष्यन्ते तथाऽत्रैौघचिन्तायामपीति भाव: । तत्रासंख्यभागस्थितिबन्धवृद्धिहानी प्रत्येकं पदनिक्षेपाधिकारोक्तैकैकसमयात्मकजघन्यवृद्धिहान्यनुसारेणाऽन्यथा वा समर्याद्वसमयादिवृद्धिहानिप्रभृति पल्योपमासंख्येय भागान्त बुद्धिहान्यनुसारेण प्रसिद्धे । संख्येयभागस्थितिबन्धवद्विस्तु पल्योपमसंख्येयभागादिनाऽधिकं स्थितिबन्धं कुर्वतामेकेन्द्रियवर्जजीवानां स्वस्थाने लभ्यते, अत्रैकेन्द्रियाणां वर्जनं तेषां स्ववन्धप्रायोग्यजघन्यस्थितिबन्धात् स्ववन्धप्रायोग्योत्कृष्टस्थितिबन्धोऽपि पल्योपमासंख्येयभागेनाधिकः सन्नसंख्येयभागाधिकैव वृद्धिः सम्भवति, न पुनस्तदधिकेति । संख्येयभागहानिः पुनश्चतुरिन्द्रियादितश्च्युत्वा त्रीन्द्रियादितयोत्पद्यमानानां जीवानां परस्थाने, स्वस्थाने च पल्योपम संख्येयभागादिना हीनस्थितिबन्धं कुर्वतामेकेन्द्रियवर्जजीवानां प्रसिद्धयति । संख्येयगुणवृद्धिहानिविषयेऽपि तथैव, नवरं चतुरिन्द्रियादिभ्योऽसंज्ञिपञ्चेन्द्रियादितयोत्पद्यमानानां परस्थाने वृद्धिः, संज्ञिपञ्चेन्द्रियादिभ्यो यथोत्तरमसंज्ञिपञ्चेन्द्रियाद्ये केन्द्रियपर्यन्तेषूत्पद्यमानानां परस्थाने हानि:, स्वस्थाने तु संज्ञिपञ्चेन्द्रियाणामेव ते उभेऽपि प्रसिद्ध यतः । सप्तानामसंख्येयगुणस्थितिबन्धवृद्धिहानी तु श्रेणिसत्कस्थितिबन्धानपेक्ष्य प्रसिद्धयतः । तत्राप्यसंख्ययेयगुणवृद्धिः प्रपतत उपशमकस्यानिवृत्तिकरणगुणस्थानकभाविस्थितिबन्धानपेक्ष्य, न पुनः सूक्ष्म सम्परायगुणस्थान भाविस्थितिबन्धानपेक्ष्यापि, तत्र तस्य नव्यनव्यस्थितिबन्धानां पूर्वपूर्वस्थितिबन्धापेक्षया संख्येयभागाधिकानामेव भावात् । एवम संख्ये गुणहानिविषयेऽपि बोद्धव्यं, नवरं श्रेणिमारोहत उपशमकस्य क्षपकस्य वाऽनिवृत्तिकरणगुणस्थान भाविस्थितिबन्धानपेक्ष्यैव न पुनः पूर्ववत् सूक्ष्मसम्परायगुणस्थान भाविस्थितिबन्धानपेक्ष्य । इदमुक्तं भवति - उपशमश्रेणिमारोहतो यस्य कस्यापि महात्मनो यथोत्तरस्थितिबन्धेषु हीन-हीनतरादिस्थितिर्वध्यते, तत्राप्यनिवृत्तिकरणगुणस्थानके वर्तमानस्य तस्य येषां कर्मणां यस्मिन् स्थितिबन्धे पल्योपमासंख्येयभागमात्रा स्थितिर्बध्यते, तेषां कर्मणां ततः प्रभृति यथोत्तरमसंख्येयगुणहीनक्रमेण स्थितिबन्धाः प्रवर्तन्ते; एवमपि तावद्भवति यावन्नपुंसक वेद - स्त्रीवेदोपशमनादनन्तरं सप्तनोकषायोपशमनाद्वाया मध्ये नामगोत्रयोस्ततो वेदनीयस्यापि प्रथमः संख्ये वार्षिकः स्थितिबन्धो जायते । तदानीं च सर्वेषामेत्र संख्येयवार्षिक एवं स्थितिबन्धः ततः प्रभृति ये तेषामुत्तरोत्तरस्थितिबन्धा भवन्ति, ते न प्राग्वदसंख्येयगुणहीनक्रमेण किन्तु संख्येयगुणहीनक्रमेणैव । उक्त च कर्मप्रकृत्युपशमनाकरणवृत्तौ -
'स्त्रीवेदे उपशान्ते ततः शेषान् सप्तनोकषायान् उपशमयितुमारभते । तेषां चैवं पूर्वोक्तेन प्रकारेणोपशम्यमानानामुपशमनाद्धायाः संख्ये यतमे भागे गते सति “द्वयोः” नामगोत्रयोः संख्ये वार्षिकः स्थितिबन्धो
Jain Education International
[ ५४७
For Private & Personal Use Only
www.jainelibrary.org