________________
.५४८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासु सप्तानां चतुर्विधस्थितिवृद्धिहानिः
भवति । वेदनीयस्य पुनरसंख्येयवार्षिक एव । तस्मिंश्च स्थितिबन्धे पूर्णे सति अन्यो द्वितीयस्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको भवति । तथा च सति सर्वेषामपि कर्मणां ततः प्रभृति संख्येयवार्षिक एव स्थितिबन्धः पूर्वस्माच्च पूर्वस्माच्चान्योऽन्यः स्थितिबन्धः प्रवर्तमानः संख्ये यगुणहीनः प्रवर्तते । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु सप्तापि नोकषाया उपशान्ता भवन्ति ||४६ ||' इति ।
एवमुपशमकस्येतोऽपि यथोत्तरं संख्येयगुणहीनक्रमेण प्रवर्तमानाः स्थितिबन्धा मोहनीयस्य तु वेदोदयं यावत्प्रवर्तन्ते, न पुनस्तदूर्ध्वमवेद्यवस्थायामपि शेषाणां पण्णां तु तदूर्ध्वं क्रमेणाश्वकर्णाद्धामतिक्रम्य किट्टीकरणाद्धाप्रवेशेऽपि निरवच्छिन्नतया तेन संख्येयगुणहीनक्रमेणैव प्रवर्तन्ते, किट्टीकरणाद्धाया ऊर्ध्वं सूक्ष्मसम्परायगुणस्थानाख्यकिट्टीवेदनाद्वाप्रवेशे तु नैकस्यापि कर्मणः प्राग्वत्संख्येयगुणहीनक्रमेण स्थितिबन्धाः प्रवर्तन्ते, किन्तु सर्वे गमपि संख्येय भागहीन क्रमेणैव प्रवर्तन्ते । इत्थं ह्यनिवृत्तिकरणगुणस्थानक एव सप्तानाम संख्येवगुणहानिः प्राप्यते, न पुनः सूक्ष्मसम्परायगुणस्थाने । एवमेवासंख्येयगुणवृद्धिविषयेऽपि भावनीयम्, सामान्यतः प्रतिपतत उपशामकस्याऽपि सूक्ष्मसम्परायाऽनिवृत्तिवादर सम्परायादिगुणस्थानेषु क्तक्रमेणैवाऽनुलोभं स्थितिबन्धादीनां भावादित्यलं विस्तरेण । विस्तरार्थिना तु कर्मप्रकृतिकषायप्राभृतचूर्ण्यादिग्रन्था अवलोकनीया इति । अथयैषा सप्तानामसंख्यगुणस्थितिबन्ध वृद्धिस्त्वन्यथा उपशमश्रेणौ कालं कृत्वा देवतयोत्पद्यमानस्य जीवस्य देवभवप्रथम समयस्थितिबन्धमपेक्ष्यापि प्रसिद्ध्यति । तद्यथा - यः कश्चिदुपशमश्रेणिगतोऽन्तमुहूर्तप्रभृतिपन्योपमासंख्येयभागप्रमाणान्तस्थितिबन्धविकल्पेषु कमपि स्थितिबन्धविशेषं निर्वर्तयन् जीवो भवक्षयादेव गतावुत्पद्यते तदा तस्य तत्रान्तःकोटिकोटिसागरोपमप्रमाणस्थितिबन्धः प्रवर्तते, स च पूर्वसमयजातस्थितिबन्धापेक्षयाऽसंख्यगुणाधिकः, इत्येवं देवभवप्रथमसमय जातस्थितिबन्धमपेक्ष्याऽप्योघतः सप्तानामसंख्येयगुणवृद्धिः सत्रं बिभर्ति । न चेयं प्रतिपतदुपशमकस्य भवक्षयेणासंख्येयगुणहानेः सच्चाविष्करणाय यतनीयम् । प्रतिपतत आरोहतश्च प्रत्येकमपि भवक्षयेऽधिकस्थितिबन्धस्यैव प्रव र्तनेन हानेरेवासम्भवात्कुतोऽसंख्येयगुणहानिसम्भवः, न कुतश्चिदपीति ।
तदेवमभिहितं सप्तानां सम्भत्र द्वयादेर स्तित्वमोघतः | साम्प्रतमादेशतो तदभिधातव्यम्, तत्र यामु मार्गणास्वोचत्वार्यपि संख्येयगुणवृद्धयादिपदानि सद्भूतानि तासु तथैव दिदर्शयिपुर तिदिशति - "एमेव जाणियव्व" इत्यादि, तत्र "एमेव" ति 'एवमेव' - यथौघतः सप्तकर्मस्थितिबन्धविषयकचतुर्विधवृद्धि-चतुर्विधहानीनां सच्चमभिहितं तथैवानुपदं वक्ष्यमाणमनुष्यगत्योघादित्रिचत्वारिंन्मार्गणास्वपि ज्ञातव्यमित्यर्थः । मनुष्यगत्योवादिमार्गणा एव नामत आह- "णरतिगे” त्यादिना, अपर्याप्तभेदवर्जानां मनुष्यगतिमार्गणाभेदानां त्रिके मनुष्यत्रिके, मनुष्यध-पर्याप्तमनुष्यमानुषीमार्गणा स्वित्यर्थः । "दुपणिंदि" ति द्विशब्दस्य प्रत्येकं योजनादपर्याप्त मेदवर्जयोर्द्वयोः पञ्चेन्द्रि यध- पर्याप्तपञ्चेन्द्रियभेदयोः द्वयोस्त्रसौध - पर्याप्तत्र सकाय भेदयोरित्यर्थः । अन्यमार्गणाः संचिन्वन् गाथाद्वयमाह-“पंचसु मणवयणेसु" इत्यादि, पञ्चसु मनोयोगभेदेषु पञ्चसु वचनयोगभेदेषु,
For Private & Personal Use Only
Jain Education International
"
www.jainelibrary.org