________________
मार्गणासु सप्तानामेक-द्विविधस्थितिवृद्धिहानि० ] वृद्धयधिकारे सत्पदद्वारम्
[५४९ काययोगसामान्यौ-दारिककाययोगयोः, स्त्रीवेद-पुरुषवेद-नपुंसकवेद-क्रोधादिचतुःकषायेषु,मत्यादिज्ञानचतुष्क-संयमौषभेदयोः। चः समुच्चये, स चोत्तरगाथाप्रान्ते योज्यः ततः सामायिक-छेदोपस्थापनसंयमा-ऽवधिदर्शनेषु, चक्षुर्दर्शना-ऽचक्षुर्दर्शनयोः, शुक्ललेश्या-ऽभव्यमार्गणयोः, सम्यक्त्वोघे, औपशमिकसम्यक्त्वे,क्षायिकसम्यक्त्वे, संज्ञिमार्गणायामाहारिमार्गणायां चेत्येतासु प्रत्येकं श्रेणिगतजीवानां समावेशादसंख्यगुणवद्धिहान्योः, संज्ञिपञ्चेन्द्रियत्वे सुलभानां शेषाणामसंख्यभाग-संख्यभाग-संख्यगुणवृद्धिहानीनां च यथोक्तनीत्याऽस्तित्वमावेदनीयमिति ॥ ७३४-७३५-७३६ ।।
अथ यासु मार्गणास्वेका वृद्धि रेका च हानिस्तासु तथैव दर्शयन्नाह
सत्तण्हं कम्माणं अत्थि असंखंसवढिहाणीओ। बंधस्म उ सब्वेसु एगिदिय-पंचकायेसु॥७३७॥
(प्रे०) “सत्तण्हं कम्माण"मित्यादि, आयुर्वर्जानां सप्तानां मूलकर्मणां "बंधस्स उ” त्ति प्रस्तुतत्वात् स्थितिबन्धस्य,तुशब्दोऽत्रावधारणार्थों व्युत्क्रमेण गाथापूर्वार्धस्य प्रान्ते योज्यः । “अत्थिअसंखंसवडिढहाणीओ" त्ति अंशो भागश्च वण्टः स्यादि' त्यभिधानचिन्तामणिवचनादंशभागादिशब्दानामेकार्थकतया एकाऽसंख्यभागवद्धिरेका चासंख्यभागहानिस्ते द्वयेव सत्यौ, न पुनरन्या वृद्धि-हानय इत्यर्थः । कासु मार्गणास्वित्याह-"सव्वेसुएगिदियपंचकायेसु” ति एकेन्द्रियसत्कसर्वभेदेषु पथिव्यादिवनस्पतिकायान्तपञ्चकायमार्गणासत्कसर्वभेदेष्वित्येवं षट्चत्वारिंशन्मार्गणासु प्रत्येकमित्यर्थः । सुगमं चैतत्, स्थावरभेदेषु सप्तानामुत्कृष्टस्थितिबन्धाज्जघन्यस्थितिबन्धस्य पल्योपमासंख्येवभागमात्राधिकत्वेनोक्तान्यवृद्धयादेरसम्भव एवेति ॥ ७३७ ।।
अथ विकलेन्द्रियभेदेषु द्वे वृद्धी द्वे च हानीति दर्शयन्नाह
सव्वविगलेसु अत्थि उ असंख-संखंसवढिहाणीओ।। (प्रे०) “सव्वविगलेसु" इत्यादि, द्वीन्द्रिय-त्रीन्द्रिय चतुरिन्द्रिय-लक्षणविकलेन्द्रियसत्केष्वोघ-पर्याप्ता-ऽपर्याप्तभेदनिष्पन्नेषु सर्वभेदेषु "अत्थि उ असंखसंखंसवढिहाणीओ" त्ति एवकारार्थकस्य तु शब्दस्य प्राग्वत्प्रान्ते योजनात्प्रस्तुतज्ञानावरणादिसप्तकर्मसत्कस्थितिबन्धस्याऽसंख्यांश-संख्यांशलक्षणे द्वे वृद्धी द्वे च हानीति चत्वारि पदान्येव "अत्थि" ति सन्ति-विद्यन्ते, न पुनरन्यानीत्यर्थः । कुतः ? एतेषु नवभेदेषु प्रत्येकं जघन्योत्कृष्टस्थितिवन्धयोरुत्कृष्टान्तरालस्य पन्योपमसंख्येयभागप्रमाणत्वेनोक्ताधिकवृद्धिहानीनामसम्भव एव । भावना त्वोघवदेव कर्तव्येति ॥
अयान्यविलक्षणत्वात् सूक्ष्मसम्परायसंयममार्गणायां पृथगाहसंखंसवढिहाणी सुहुमे छण्हऽत्थि बंधस्स ॥७३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org