________________
५५० ]
बंधविहाणे मूलपयडिठिइबंधो [ सूक्ष्मसम्पराय-गतवेदयोरायुर्वर्जस्थिति० (०) "संखंसवढिहाणी" इत्यादि, "सुहुमे" त्ति सूक्ष्मसम्परायसंयममार्गणायां "छण्ह" त्ति मोहनीपायुर्वर्जानां शेषाणां ज्ञानावरणादीनां षण्णां मूलकर्मणां प्रत्येकं "बंधस्स" त्ति प्रक्रमात्स्थितिबन्धस्य "संखंसवडिहाणी"त्ति संख्येयांशवृद्धिः संख्येयांशहानिश्च द्व एव "त्थि" त्ति पूर्वमकारस्य दर्शनात् 'अत्थि' ति स्त इत्यर्थः, सद्भूत इति यावत् । अत्र षण्णां संख्येयभागमात्रवृद्धिहान्योरेवास्तित्वं न पुनस्तदन्यासामसंख्यभागादिवद्धिहानीनामित्येतत्सर्वमौघिकासंख्येयगुणवृद्धि-हानिविवरणानुसारेण भावनीयमिति ॥ ७३८ ॥
अथाऽपगतवेदमार्गणायां प्रस्तुतमाह-- गयवेए संखेज्जंस-गुण-असंखगुणवढिहाणीओ।
एगा दो तिण्णि कमा मोह-तिघाइ-इयराण कमा ॥७३९॥ (प्रे०) “गयवेए संखेज्ज"मित्यादि, "गयवेए"त्ति अपगतवेदमार्गणायां "संखेज्जंसगुण-असंखगुणवढिहाणीओ" ति द्वन्द्वान्ते श्रुयमाणं पदं प्रत्येकं सम्बध्यते' इति न्यायेन वृदिहानिपदस्य संख्येयांशादिना प्रत्येक योजनात् संख्येयभागवृद्धिहानी, तथा प्रथमोक्तसंख्येयशब्दस्यांशशब्देनेव गुणशब्देनाऽपि योजनात् संख्येयगुणवृद्धिहानी, असंख्यगुणवृद्धिहानी चेत्यर्थः । ततः किमित्याह-एगा दो तिणि कमा" ति क्रमाद् ‘एका'-संख्येयभागवृद्धिहान्यात्मिका, क्रमाद् ‘द्वे' -संख्येयभागवृद्धिहानि-संख्येयगुणवृद्धिहान्यात्मिके, क्रमात् 'तिस्रः' -संख्येयभाग-संख्येयगुणा-ऽसंख्यगुणात्मकत्रिविधवृद्धिहानयश्चेत्यर्थः । ताश्च 'मोहतिघाइइयराण कमा' त्ति क्रमात 'मोह' ति मोहनीयकर्मणः, "तिघाइ" ति मोहनीयस्यानन्तरमुक्तत्वात्त दर्जानां शेषाणां ज्ञानावरणदर्शनावरणा-ऽन्तरायलक्षणानां त्रयाणां घातिकर्मणाम् , “इयराण" ति उक्ततरेषां गतवेदमार्गणायां बध्यप्रायोग्यानां वेदनीय-नाम-गोत्रकर्मणां च क्रमाद्विज्ञयाः। ____ इदमुक्तं भवति-पुवेदान्यवेदवतो वेदोदयविच्छेदादुर्घ सप्तनोकायोपशमनाऽद्धायां यथोत्तरं संख्येयभागहीनक्रमेण प्रवर्तमानान् मोहनीयस्थितिबन्धानपेक्ष्य मोहनीयस्यैका संख्येयभागहानिः । तस्यामेव सप्तनोकपायोपशमनाद्धायां यथोचरं संख्येयगुणहीनक्रमेण प्रवर्तमानान् ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्मणां स्थितिबन्धानपेक्ष्य तेषामेा संख्येयगुणहानिः, अन्यास्तु सूक्ष्मसम्परायगुणस्थानभाविन्यसंख्येयभागहानिश्च । एवमेव शेषवेदनीय-नाम-गोत्रकर्मणामपि द्वे हानी, नवरं तेषां सप्तनोकषायोपशमनाद्धायाः प्रारम्भे कतिपयस्थितिबन्धा यथोत्तरमसंख्येयगुणहीनक्रमेण प्रवर्तन्ते, अतस्तृतीयाऽसंख्येयगुणहानिरपि लभ्यते । एता हि श्रेणिमारोहतो भवन्ति, प्रपततस्तु ततो वैपरीत्येन मोहनीयस्थितिबन्धस्यैका संख्येयभागवृद्धिः, ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणां प्रत्येक स्थितिबन्धस्य संख्येयभागवृद्धिः संख्येयगुणवृद्धिश्चेति द्वे वृद्धी, शेषागां वेदनीय-नाम-गोत्रकर्मणां प्रत्येकं तृतीयाऽसंख्यगुणवृद्धिरपीति तिस्रो वृद्धयो भवन्ति । ननु पुवेदेन श्रेणिमारोहन्तं जीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org