________________
शेष मागणास्वायुर्वर्ज स्थितिवृद्धयादि० ] वृद्धयधिकारे सत्पदद्वारम्
[ ५५१
मादायैतास्तिस्रो हानयो वृद्धयश्च नोपपाद्यन्ते, किन्तु तदन्यवेदिनमधिकृत्योपपाद्यन्ते ? उच्यते,
वेदेन श्रेण समारोहतः सप्तनोकषायोपशमनाद्वायामपि सवेदितयैवावस्थानेन सप्तनोकषायोपशमनाद्भाभाविनी वेदनीय- नाम - गोत्र-कर्मणां स्थितिबन्धविषयाऽसंख्यगुणहानिः, तथा तस्यैव प्रतिपततो यासंख्यगुणवृद्धिश्च साऽपि प्रकृतमार्गणावहिर्भाविनीति कृत्वा लाघवार्थं पुवेदान्यवेदिनमादाय त उपपाद्येते, तस्य पुरुषेतरवेदिनो वेदनीयादीनामसंख्येयगुणस्थितिबन्धवृद्धि-हानिकालेऽपि प्रस्तुतमार्गणायामवस्थानात् । विस्तरार्थिना तु कर्मप्रकृत्युपशमनाकरणग्रन्थोऽनसर्तव्य इति || ७३९ ||
अथोक्तशेषमार्गणासु प्रस्तुतमाह
सत्तण्हं कम्माणं असंखसंखंसवड्ढिहाणीओ । संखगुणवदिहाणी अत्थि उबंधस्स सासु ॥ ७४०॥
(ग्रे०) “सत्तण्हं कम्माण' 'मित्यादि, आयुः कर्माधिकृत्य सर्वविधप्ररूपणायाः प्रागतिदिष्टत्वात्तद्वर्जानां सप्तानां मूलकर्मणां “बंधस्स "त्ति स्थितिबन्धस्य “ असंख - संखं सवदिहाणीओ संगुणsिहाणी अत्थि उ" त्ति अंशवृद्धिहानीति शब्दस्य प्रत्येकं योजनादसंख्यांशवृद्धिहानी संख्येयांशवृद्धिहानी तथा संख्येयगुणवृद्धिहानीति षट्पदान्येव सन्ति, अन्ये द्वे पदे त्वतीत्यर्थः । कासु मार्गणास्वित्याह - " से सासु ति उक्तशेषासु नरकगत्योघादिसप्त तिमार्गणासु । ताश्च मार्गणा इमा:- अष्ट नरकगतिभेदाः, पञ्च तिर्यग्गतिभेदाः, अपर्याप्तमनुष्यभेदः, त्रिंशदेवगतिभेदाः, अपर्याप्तपञ्चेन्द्रियभेदः, अपर्याप्तत्रसकाय भेदः, औदारिकमिश्र - वैक्रिय-वैक्रियमिश्रा ऽऽहारका -ऽऽहारकमिश्र - कार्मणकाययोग - मत्यज्ञान - श्रुताज्ञान- विभङ्गज्ञान- परिहारविशुद्धिकसंयम- देशसंयमा--ऽसंयमकृष्णादिपञ्च लेश्या भव्य क्षायोपशमिकसम्यक्त्व- सासादन- सम्यग्मिथ्यात्व - मिथ्यात्वा ऽसंज्ञय--नाहारिमार्गणाश्चेति । नन्वेतासु कुतः षण्णां पदानामेवास्तित्वम्, न पुनरन्ययोर्वा द्धिहान्योः ? इति चेद्, उच्यते, एतासु प्रत्येकं श्रेणिगतजीवानामलाभादसंख्यगुणवृद्धिहानिरूपे पदे न प्राप्येते, ताहवृद्धिहान्योः श्रेण्यधीनत्वात्, तदन्यवृद्धिहानीनां सच्चं तु प्रत्येकमन्तः सागरोपमकोटीकोटयादिप्रमाणस्थितिबन्धस्य लाभात्तदपेक्षया प्रसिद्धयति । यद्यप्यसंज्ञिमार्गणायामेवं नास्ति, तथाऽपि तत्रैकेन्द्रि यादिभिन्नभिन्नजातीयानां जीवानामपि प्रवेशात् परस्थानापेक्षया संख्येयगुणवृद्धिहान्यपि प्राप्येते । शेषवृद्धिहानयस्तु द्वीन्द्रियादीनां स्वस्थान भाविस्थितिबन्धापेक्षया ज्ञेया इति ॥ ७४० ॥ तदेवमभिहितानि शेषमार्गणास्वपि ज्ञानावरणादीनां सम्भवत्संख्येयगुणादिस्थितिबन्धवृद्धिहानि सत्पदानि । तेषु चाभिहितेषु गतमाद्यं सत्पदद्वारम् ।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पश्चमे वृद्धयधिकारे प्रथमं सत्पदद्वारं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org