SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयं स्वामित्वद्वारम् ॥ एतर्हि क्रमप्राप्ते स्वामित्वद्वारे ज्ञानावरणादीनां मूलप्रकृतीनां दर्शितसंख्येयगुणादिस्थितिबन्धवृद्धयादिसत्पदानां स्वामिनः प्रचिकटयिषुरादौ तावदोघतः प्रतिपादयन्नाह सत्तण्हं अण्णयरो अत्थि असंखंसवडिढहाणीणं । तह बंधगो खलु तसोऽण्णयरो संखंसवढिहाणीणं ॥७४१॥ (गीतिः) (प्रे०) “सत्तण्ह” इत्यादि, आयुःकर्मणः सर्ववक्तव्यताया गतद्वारेऽतिदिष्टत्वादायुर्वर्जानां सप्तानां मूलकर्मणां प्रत्येकम् “असंखंसवढिहाणीणं” ति स्थितिबन्धविषययोरसंख्यांशवृद्धिहान्योः “अण्णयरो अत्थि" ति त्रसः स्थावरो वाऽन्यतरो जीवः “बंधगो” इति गाथोत्तरा दिवापि योज्यते, ततः 'बन्धकः' -स्वामी भवतीत्यर्थः । अत्रान्यतरग्रहणात् पर्याप्तोऽपर्याप्तो वा कश्चिदपि निर्विशेषेण बोद्धव्यः, एवमुत्तरत्रापि । अथ सप्तानामेव संख्येयभागवृद्धिहान्योः स्वामिनं दर्शयन्नाह-"तह बंधगो” इत्यादि, तथा “संखंसवउिढहाणोण" ति खलशब्दस्यावधारणार्थत्वादन्यतरस्त्रसजीव एव 'बन्धकः' -स्वामी, भवतीति शेषः । इत्थं च संख्येयांशवृद्धिहानिस्वामितया स्थावरजीवानां व्यवच्छेदः कृतो विज्ञेयः । स्थावरजीवेषु संख्येयभागवृद्धिहान्योरसम्भवस्तु सत्पदद्वारे भावित एवेति ।। ७४१ ।। अथोघत एव सप्तानां संख्येयगुणवृद्धिहान्योः स्वामिनं दर्शयन्नाहसत्तण्हं सत्थाणे सण्णी संखगुणवड्ढिहाणीणं । तह होएइ असण्णी परठाणे बंधगोऽण्णयरो ॥७४२॥ (प्रे०) "स्त्त ग्हं सत्थाणे” इत्यादि, आयुर्वर्जानां सप्तप्रकृतीनां “संखगुणवढिहाणोणं” ति स्थितिबन्धविषययोः संख्येयगुणवृद्धि-संख्येयगुणहान्योः प्रत्येकं "सत्थाणे सपण." ति स्वस्थाने वर्तमानः संज्ञी,अस्य च"बंधगोऽण्णयरो” इत्यनेन गाथाप्रान्तेऽन्वयः । अत्र स्वस्थानं जात्यपेक्षया बोद्धव्यम् , ततः संज्ञिपञ्चेन्द्रियत्वे वर्तमानो यः कश्चिज्जीवः स सप्तानां स्थितिबन्धविषययोः संख्येयगुणवृद्धिहान्योः स्वामी भवतीत्यर्थः । अथान्येषामपि प्रकृतद्धिहान्योः स्वामित्वमस्तीति तानपि संगृह्णन्नाह-"तह होएई” इत्यादि. तथाशब्दः समुच्चये । “होएइ असण्णी परठाणे” ति एकेन्द्रियाद्यसंज्ञिपञ्चेन्द्रियरूपोऽन्यतरोऽसंज्ञिजीवः 'परस्थाने' जात्यन्तरे उत्पद्यमानः सन् प्रस्तुतयोद्वयोः संख्येयगुणवद्धिहान्योः स्वामी भवति, तत्रासंज्ञिपञ्चेन्द्रियादितोऽधश्चतुरिन्द्रियादितयोत्पादे संख्येयगुणहानेः स्वामी, एकेन्द्रियादित ऊर्च द्वीन्द्रियादितयोत्पादे स एवासंज्ञी संख्येयगुणवृद्धि स्वामी भवति, न तु संज्ञिपञ्चेन्द्रियवत्स्वस्थानेऽपीति ॥७४२॥ अौघत एवासंख्यगुणवृद्धः स्वामिनं प्रकटयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy