SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ भोघतोऽसंखगुणवृद्धिहानिस्वामि० ] वृद्धयधिकारे स्वामित्वद्वारम् । [ ५५३ ..उवसामगो पडतो सेढीअ सुरो य पढमसमयत्थो। सत्तण्ह बंधगो खलु होइ असंखगुणवड्ढीए ॥७४३॥ __ (प्रे०) "उवसामगो पडतो" इत्यादि, "सेढोअ" ति उपशमश्रेणेः पतन्नुपशमकः, "सुरो य पढमसमयत्यो” त्ति उपशमश्रेणी सप्तानामुत्कृष्टतः पल्योपमासंख्यभागप्रमाणस्थितिबन्धं कुर्वन्नायुःक्षयात् व्युत्वा यो देवतयोत्पन्नः सः 'प्रथमसमयस्थ' :-भवप्रथमसमयवर्ती सुरजीवश्व तदानीं सप्तानामसंख्येयगुणस्थितिबन्धबद्धः स्वामी भवतीत्यर्थः । ननु देवस्यापि सप्तानामसंख्यगुणस्थितिबन्धवृद्धिस्वामित्वसम्भवे कथं प्राग देवगत्योपादिमार्गणास्वसंख्येयगुणवृद्धिपदं सन्नाभिहितम् ? उच्यते,प्राग भूयस्काराबधिकारेऽवक्तव्यबन्धलक्षणाप्रवेशेन यथा देवगत्योषादिमार्गणासु सप्तानामवक्तव्यस्थितिवन्धो नाङ्गीकृतः, तेनैव न्यायेन मार्गणाप्रथमक्षणे भूयस्कारादिवन्धोऽपि नाभिमतः । कुतः ? अधिकृतविवक्षया भूयस्कारादेरप्यवक्तव्यबन्धवन्मार्गणाभाविपूर्वक्षणबन्धसव्यपेक्षत्वात् , पूर्वक्षणवर्तिबन्धस्तु न मार्गणाभावी, किन्तु मार्गणान्तरभाव्येवेति सुप्रतीतम् । भूयस्कारादिविशेषा एव पदनिक्षेपवृद्धयादयः, अतस्तेनैव नीत्या प्रकृतेऽप्योघतो लभ्यमानाऽप्यसंख्येयगुणवृद्धिर्देवगत्योघादिमार्गणासु नोक्ता । निपतत उपशमकस्यासंख्यगुणवृद्धिस्वामित्वं तु सत्पदद्वारे विस्तरतो भावितमिति तत एवावसातव्यमिति ॥ ७४३ ॥ अथौघत एव सप्तप्रकृतिस्थितिबन्धविषयाया असंख्यगुणहानेः स्वामिनमाह वट्टतो गुणठाणे णवमे उवसामगो तहा खवगो। सत्तण्ह बंधगो खलु अत्थि असंखगुणहाणीए ॥७४४॥ (प्रे०) “वटतो गुणठाणे” इत्यादि, नवमेऽनिवृत्तिवादरसम्परायाख्ये गुणस्थाने "वहतो" त्ति वर्तमानः "उवसामगो" ति चारित्रमोहनीयोपशामकः “तहा खवगो" त्ति तथा तत्रैव नवमे गुणस्थाने वर्तमानः 'क्षपकः'-चारित्रमोहनीयक्षपक आयुर्वर्जानां सप्तमूलप्रकृतीनाम् “असंखगुणहाणीए” ति स्थितिबन्धविषयाया असंख्यगुणहानेर्बन्धकः-स्वामी, भवतीति शेषः । खलुशब्दोऽवधारणे, स च व्युत्क्रमेण 'खवगो' इत्यस्योत्तरं योज्यः; ततस्तावेवाऽसंख्यगुणहानिस्वामिनावित्यर्थः । 'उवसामगो तहा खबगो' इत्यत्रैकवचनं जात्यपेक्षया प्रयुक्तमितिकृत्वा तज्जातीयाः-तत्सदृशा ये केचनापि जीवास्ते सर्वेऽपि स्वामिन इति बोद्धव्यम् । एवमेव पूर्वोत्तरग्रन्थे एकवचनान्तप्रयोगो जातिविवक्षया बोद्धव्य इति । अत्र भावना त्वनन्तरं सत्पदद्वारे ओघचिन्तायामपगतवेदमार्गणायां च दर्शिता तथैव द्रष्टव्येति ॥७४४॥ ___ तदेवमुक्तमोघतः शेषाणां सप्तप्रकृतीनां स्थितिबन्धविषयकासंख्यभागवृद्ध्यादेः स्वामित्वम् । साम्प्रतमादेशतस्तत्प्रदर्शनावसरः । तत्र लाघवार्थ यासु मार्गणासु यस्या वृद्ध्यादेः स्वामिन ओघसदृशास्तासु तस्यास्तथैवातिदिदिक्षुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy