________________
५५४]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वसंख्यगुणस्थितिवृद्धिहानि. जासु खु मग्गणासु अस्थि असंखगुणवड्ढिहाणीओ। सत्तण्हं कम्माणं तासुखलु ताण ओघव ॥७४५॥ णवरि सुरो णत्थि तिणर-पणमणवय-उरल-थी-णपुसेसु।
गयवेए मणणाणे संयम-सामइअ-छेएसु ॥७४६॥ (प्रे०) “जासुखु” इत्यादि, आदेशचिन्तायां यासु मनुष्यगत्योधादिमार्गणासु 'सत्तण्हं कम्मोणं" ति आयुर्वर्जसप्तान्यतमानां मूलकर्मणाम् "अत्थि असंखगुणवड्ढिहाणीओ" त्ति असंख्यगुणवृद्धिरसंख्यगुणहानिश्च स्तः, असंख्यगुणवृद्धिहान्योः प्राक सत्पदद्वारेऽस्तित्वं प्रतिपादितमिति भावः । “तासु खलु ताण ओघव्य" ति तासु मनुष्यगत्योघादिमार्गणासु "ताण" त्ति बहुवचनान्तनिर्देशः प्राकृतत्वात् , ततस्तयोः सप्तप्रकृतिस्थितिबन्धविषययोरसंख्यगुणवृद्धिहान्योः प्रत्येकम् “ओघव्व" ति ओघवत् , स्वामिन इति गम्यते, स्वामित्वप्ररूपणस्याविकृतत्वात् । इत्थमतिदिष्टे कासुचिन्मार्गगासु याऽतिसक्तिस्तां निराचिकी राह-"णवरि सुरो णत्थि" त्यादि, 'नवरं'-परमयमत्रापवादः । क इत्याह-"सुरो णत्थि" ति ओघनरूपणायां सप्तानामसंख्यगुणवृद्धवन्धकः प्रपतन्नुपशमक इव भवप्रथमवसमयी सुरोऽपि कथितः, किन्तु सः 'सुरः'-देवः प्रकृतेऽसंख्यगुणवृद्धः स्वामी 'नास्ति'-न भवति । किं मनुष्यगत्योधादि चतुश्चत्वारिंशन्मार्गणास्वप्युत कासुचिदेवेत्याह-"तिणरपणमणवये'त्यादि, अपर्याप्तभेदवर्जेषु त्रिषु नरगतिमार्गणाभेदेषु, पञ्चशब्दस्य मनोवचसोः प्रत्येकं योजनात्पञ्चमनोयोग-पञ्चव बोयोगो-दारिककाययोग-स्त्रीवेदनपुंसकवेदमार्गणाभेदेषु, गतवेदमार्गणायां, मनःपर्यवज्ञानमार्गणायां, संयमोघ-सामायिकसंयमछेदोपस्थापनसंयममार्गणास्वित्येतास्वेकविंशतिमार्गणास्वेव, न पुनस्तदन्यातु पञ्चेन्द्रियोष-पर्याप्तपञ्चेन्द्रिय-त्रसौघ-पर्याप्तत्रसकाय-काययोगसामान्य-पुवेद-कषायचतुष्क-मत्यादित्रिशान-चक्षुरादित्रिदर्शन-शुकलेश्या-भव्य-सम्यक्त्वोध-क्षायिकसम्यक्त्वो-पशमिकसम्यक्त्व-संया-ऽऽहारिरूपासु त्रयोविंशतिमार्गणास्वपीत्यर्थः । एतासु त्रयोविंशतिमार्गणासु तु सर्वथैव निरपवादमोघवदिति भावः । कुत एवम् ? उच्यते, उपशमश्रेणौ भवक्षयेण देवगतावुत्पादेऽपि तत्रानन्तरोक्तपञ्चेन्द्रियोषादित्रयोविंशतिमार्गणानामविच्छिन्नतया प्रवर्तनात् , पूर्वोक्तानां मनुष्यगत्योघादिमार्गणानां तु मनुष्यभवसमाप्त्या सममेव विच्छेदाच्चेति ।।७४५-७४६॥
तदेवं यासु मार्गणासु ज्ञानावरणादीनामन्यतमस्यासंख्यगुणवृद्धि हानिपदे सद्भूते तासु तयोः स्वामिनोऽभिहिताः । साम्प्रतमुक्त शेषवृद्धिहानीनां स्वामिनोऽपि यासु मार्गणास्वोघवद्भवन्ति तास्वपि लाघवार्थमतिदेशेनैव तान् दर्शयन्नाह
तिरिये तसम्मि काये णपुंसगम्मि य कसायचउगे य । अण्णाणदुगे अयते अणयण-अपसत्थलेसासु॥७४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org