________________
मार्गणास्वसंख्यभागादिशेषवृद्धिहानि० ] वृद्धषधिकारे स्वामित्वद्वारम्
[५५५ भवियेयर-मिच्छेसु असण्णि-आहारगेसु ओघव्व । तिविहाण वढिहाणीण णवरि अमणम्मि ण उ सण्णी ॥७४८॥
(प्रे०) "तिरिये तसम्मि' इत्यादि, तिर्यग्गत्योघे, त्रसकायौधे, काययोगोघे, नपुसकवेदे । चः समुच्चये । कषायचतुष्के । चः प्राग्वत् । मत्यज्ञान-श्रुताज्ञानयोड़िके, "अयते” त्ति असंयमे, “अणयण" ति अचक्षुर्दशेने, कृष्णादिषु तिसृष्वप्रशस्तलेश्यास, भव्ये, भव्यादितरस्मिन्नभव्ये, मिथ्यात्वे, असंड्या-ऽऽहारकयोरित्येतास विंशतिमार्गणास प्रत्येकम् “ओघव्व" त्ति ओघवदभिधातव्यम् , ओघवत् “सत्तण्हं अण्णयरो" इत्याद्यभिलापः कर्तव्य इति भावः । ननु सर्वोऽप्यभिलाप ओघवत्कर्तव्य उत किञ्चिन्मात्र इत्याह-"तिविहाण वढिहाणीण" त्ति प्रकृतसप्तकर्मणामुक्तशेषाणां स्थितिबन्धसत्कानामसंख्येयभाग-संख्येयभाग-संख्येयगुणलक्षणानां त्रिविधानां वृद्धीनां त्रिविधानां हानीनां च । त्रिविधवृद्धिहानिविषयोय आद्यगाथाद्वयरूप औधिकोऽभिलापः स एव कर्तव्यः, न पुनरशेषोऽपीत्यर्थः ।
एवमभिधानातिदेशेऽपि या किश्चिन्मात्राऽतिव्याप्तिस्तां निराविकीपुराह-"णवरि अमणम्मि ण उ सण्णी" ति 'नवरं -परमसंज्ञिमार्गणायां संज्ञिजीवानामभावात् ‘सत्थाणे सण्णी' इत्येवं यो द्वितीयगाथाऽवयवरूपोऽभिलापः स न कर्तव्य इत्यर्थः ।।
ननु 'ओघव' इत्यस्य कथमभिधानातिदेशपरत्वं व्याख्यायते, न पुनरातिदेशपरकत्वम् ? इति चेद्, उच्यते, तस्य पदार्थातिदेशपरत्वेऽसंज्ञिमार्गणायां ‘णवरि अमणम्मि ण उ सण्णी' इत्यपवादाभिधानेनाऽसामञ्जस्यदोषपरिहारेऽपि त्रसकायौघमार्गणायां स्थावरजीवानामप्रवेशेन तत्र तु तद्दोषतादवस्थ्यमेव स्यात् । न च 'व्याख्यानतो विशेषप्रतिपत्ति' रिति न्यायेन तत्र स्थावराणामसंख्यभागवृद्ध्यायस्वामित्वस्य व्याख्याविषयत्वात् , तेषां तत्राऽप्रवेशेन सुज्ञेयत्वाद्वा
* घट-पटादितत्तदर्थाः, तद्वाचकान्यभिधानानि,तज्ज्ञानरूपाः प्रत्ययाश्च घट-पटादिपदेनैवलोके व्यपदिश्यन्त इत्येवमर्था ऽभिधान-प्रत्ययानां लोके तुल्यनामधेयत्वनियमात् 'त्रस-स्थावरणामन्यतरस्यायुर्वर्जसप्तप्रकृत्यसंख्यभागस्थितिबन्धवृद्धयादिस्वामित्व'लक्षणस्यौधिकार्थस्य, तत्प्रतिपादकस्य ‘सत्तण्णं अण्णयरों इत्याद्यभिधानस्य, ताहगर्थविषयकान्तःस्कुरायमानप्रत्ययस्य च तुल्यः ‘ोध' इति व्यपदेशो भवितुमर्हति । तथा च संस्थितौ मूलोक्त-'श्रोधव्व' इत्यत्र 'रोघ' इति नामधेयं यथा 'यः कश्चित् त्रसो या स्थावरो वा जीवः स आयुर्वज सप्तप्रकृत्यसंख्यभागस्थितिबन्धवृद्धयादिस्वामी'त्येवंरूपस्यार्थस्य प्रतिपादकं तथा तादृगाभिधायकस्य 'सत्तणं अण्णयरो' इत्यादिपूर्वलिखितवर्णावलिमात्रस्याऽपि प्रतिपादकं भवत्येव । तन्मध्ये मूलोक्त'-'ओघव' इत्यत्र 'मोघ' इतिनामधेयं ताहग्वर्णावलिमात्रप्रतिपादकं ज्ञेयम् , न पुन स्त्रसादीनां ताहक्स्वामित्वादि'लक्षणस्याऽर्थस्य प्रतिपादकम् । तथा च प्रोघव्व' इत्यनेन भव्यादिमार्गणायामायुर्वर्जसप्तानामसंख्यभागस्थितिबन्धवृद्धयादीनां स्वामित्वस्य प्रतिपादनं 'सत्तण्णं प्रोघव' इत्याद्यात्मकौधिकाभिधानेन सदृशाभिधानेन भवतीत्यर्थके 'मोघव त्ति प्रोघवदभिधातव्यम् ' इति व्याख्याने कृते कश्चिदाशङ्कते'ननु' इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org