________________
५५६ ] बंधविहाणे मूलपयडिठिइबंधो [ गतवेद-सूक्ष्मसम्पराययोः संख्येयगुणवृद्धया। न किश्चिदसामञ्जस्यमिति वाच्यम् । तथैवाऽसामञ्जस्यपरिहारेऽसङ्गतत्वाभावे वाभिमते तु तुल्यन्यायेनाऽसंज्ञिमार्गणायामपि तथा सम्भवात्तत्राऽपवादपदमनभिहितं स्यात् । एवमप्यसंज्ञिमार्गणास्थानेऽपवादपदमभिधाय त्रसकायौघमार्गणायां तदनभिधानम् 'ओघव्व' इत्यनेनैव तत्र स्थावराणामसंख्येयभाववृद्धयादिस्वामितया परिहृतत्वेनाऽसामञ्जस्याभावेनापवादाभिधानस्यानावश्यकत्वात् । 'ओघव' इत्यनेनैव स्थावराणामसंख्येयभागवृद्धयादिस्वामितया परिहारस्तु तस्याऽभिधानातिदेशपरकत्वे सत्येव सम्भवति, न त्वर्थातिदेशपरकत्वे, अर्थस्य तु सानां स्थावराणां चासंख्येयभागवृद्धयादिस्वामित्वरूपस्य तत्रौधिकचिन्तायां घटमानत्वेऽपि त्रसकायौघमार्गणायामघटमानतयाऽसामञ्जस्यापत्तेः । 'ओघव्व' इत्यस्य 'सत्तणं अण्णयरो' इत्यादिरूपौधिकाभिधानातिदेशपरकत्वे तु न काचिदसङ्गतिः, त्रसकायौघमार्गणायामन्यतरपदेन मार्गणाप्रविष्टानां त्रसकायिकानामन्यतमस्य त्रसकायिकस्य सप्तानामसंख्यभागवृद्धयादिस्वामित्वस्य बुध्यमानत्वात् ,तस्य तत्राविरोधेनोपपद्यमानत्वाच्च । इत्यतो 'ओघव्व' इत्यस्याभिधानातिदेशपरकत्वं व्याख्यायते। इत्येवमन्यत्रापि कृतेऽतिदेशे यथासम्भवं स्वयमभ्युह्यमिति ।।७४८॥
अथापगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः प्रकृतस्वामित्वमाह
गयवेए सुहमम्मि य हवेइ उवसामगो वड्ढीणं । उवसामगो व खवगो वा हाणीए मुणेयव्वो ॥७४९॥
(प्रे०) "गयए" इत्यादि, अपगतवेदमार्गणायां सूक्ष्मसम्परायसंयममार्गणायां च प्रत्येक भवति, स्वामीति गम्यते । कः कस्याः कस्याः स्वामी भवतीत्याह-"उवसामगो उ” इत्यादि, प्रपतन्नुपशमक एव “वड्ढीणं" ति ‘जासु खु'इत्यादि(७४६)गाथयाऽसंख्यगुणवृद्धिहानिस्वामिनामपगतवेदमार्गणायामपि प्रागतिदिष्टत्वादसंख्यगुणवृद्धिहानी विहाय ज्ञानावरण-दर्शनावरण-वेदनीयनाम-गोत्रा-ऽन्तरायकर्मणां प्रत्येकं संख्येयभाग-संख्येयगुणवद्धयोर्मोहनीयकर्मणः संख्येयभागवद्धस्तथा सूक्ष्मसम्परायसंयममार्गणायां मोहनीया-ऽऽयुर्वर्जानां षण्णां संख्येयभागवृद्धश्चेत्यर्थः । तथा "उवसामगो व खवगो व” ति वाकारश्वकारार्थस्ततः श्रेणिमारोहन्नुपशमकश्च क्षपकथोभावपि "हाणोए मुणयव्वा" त्ति पूर्ववदपगतवेदमार्गणायां ज्ञानावरण-दर्शनावरण-वेदनीय-नामगोत्रा-ऽन्तरायकर्मणां प्रत्येकं संख्येयभाग-संख्येयगुणहान्योर्मोहनीयकर्मणः संख्येयभागहानेः, सूक्ष्मसम्परायमार्गणायां मोहनीयायुर्वर्जानां षण्णामपि संख्येयभागहानेश्व ज्ञातव्यावित्यर्थः । एनयोस्तत्तत्संख्येयभागवद्धिहान्यादिस्वामित्वं ह्यनन्तरं सत्पदद्वारे सत्पदानां सचव्युत्पादनावसरे दर्शितभावनानुसारेण स्वयमेव भावनीयमिति ।। ७४९ ॥
अथोक्तशेषमार्गणासु सप्तकर्मसत्कवृद्धयादिसत्पदानां स्वामिनं विभणिषुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org