________________
शेषमार्गणासु सर्वविधवृद्धयादि०] वृद्धयधिकारे स्वामित्वद्वारम्
[ ५५७ सेसासु बंधगोऽत्थि सपयाण तिविहाउ वढिहाणीओ। सत्तण्हं अण्णयरो सविसेसो पुण मुणेयबो ॥ ७५० ॥
प्रे०) “सेसासु बंधगो"इत्यादि, असंख्यगुणवृद्धिहानी परिहत्य शेषाणां त्रिविधानां वृद्धिहानीनां स्वामिनो यास्वनन्तरमभिहितास्तास्तिग्गत्योधादि विंशतिमार्गणा विवयं शेषासु नरकगत्योघाद्यष्टचत्वारिंशदभ्यधिकशतमागणासु प्रत्येकं बन्धको भवति । केषां क इत्याह-"सपयाण तिविहाउ वढिहाणोओ"इत्यादि,आयुर्वर्जसप्तमूलप्रकृतीनामसंख्येयभाग-संख्येयभागसंख्येयगुणभेदभिन्नत्रिविधवृद्धित्रिविधहानिभ्यो नरकगत्योधादिशेषमार्गणायां यत्र यावन्त्येक
यादीनि पदानि सत्पदद्वारे सद्भ तानि प्रतिपादितानि,तत्र तेषां सर्वेषामेकद्वयादीनामसंख्येयभागवृद्धयादिसत्पदानां प्रत्येकं मार्गणागतो "अण्णयरो” त्ति अन्यतरो नारकादिजीव इत्यर्थः ।
___ इत्थमप्यपर्याप्तत्रसकायादिमार्गणासु द्वीन्द्रियादिजीधैः संख्येयगुणवृद्धयादेरनिर्वर्तनेन तत्र 'अण्णयरो' इत्यनेन मार्गणागतान्यतरपदवाच्याऽपर्याप्तद्वीन्द्रियादिजीवग्रहणेऽतिप्रसङ्गात्तदोषमुद्धत - मनाऽऽह–“सविसेसो पुण मुणेयव्वो" ति स पुनरन्यतरजीवः 'सविशेषः' - यथासम्भवं विशेषेण सहितो ज्ञातव्यः । तद्यथा-अपर्याप्तत्रसकायमार्गणायां सप्तानां संख्येयगुणवृद्धः स्वामी हीन्द्रिय-त्रीन्द्रियवर्नोऽन्यतमाऽपर्याप्तजीवः । औदारिकमिश्रकाययोगमार्गणायां सप्तानां संख्येयगुणवृद्धः स्वाम्येकेन्द्रियवोऽन्यतम औदारिकमिश्रकाययोगिजीवः । कार्मणकाययोगमार्गणायां पुनरन्यतमः संज्ञिपञ्चेन्द्रियकार्मणकापयोगिजीवः सप्तानां संख्येयगुणवृद्धः संख्येयगुणहानेश्व स्वामी, न पुनरन्यतम एकेन्द्रियादिकार्मणकाययोगिजीवोऽपि । कुतः ? एकेन्द्रियाद्यसंज्ञिपञ्चेन्द्रियान्तानां जीवानां स्वस्थाने संख्ययगणवद्धिहान्योरसम्भवात । अत एवाधिकृतकार्मणकाययोगमार्गणायां सप्तानां संख्ययभागवद्धिहान्योः स्वामितयाऽप्येकेन्द्रियजीवा वर्जनीयाः । असंख्यभागवृद्धिहान्योस्त्वन्यतमस्त्रसः स्थावरोवा जीवः स्वामी भवतीति दिग् । अनया दिशौदारिककाययोगादिमार्गणादौ स्वयमेव विशेषो द्रष्टव्य इति ।
शेषमार्गणास्तु नामत इमाः–अष्टौ नरकगतिभेदाः, चत्वारस्तिर्यक्पञ्चेन्द्रियभेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशद्देवगतिभेदाः, सप्तैकेन्द्रियभेदाः, नव विकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियजातिभेदाः, त्रसकायौषभेदवर्जाः पृथिव्यादिषटकायसत्कशेषसर्वभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, औदारिको-दारिकमिश्र-वैक्रिय-वैक्रियमिश्रा-ऽऽहारक-ऽऽहारकमिश्रकार्मणकाययोगभेदाः, स्त्रीवेद-पुरुषवेदी, मत्यादिचतुर्ज्ञानभेदाः, विभङ्गज्ञानम्, सूक्ष्मसम्परायसंयमाऽसंयमवर्जाः षटसंयमभेदाः, चक्षुदर्शना-ऽवधिदर्शनभेदौ, तेजः-पद्म-शुक्ललेश्याभेदाः, मिथ्यात्ववर्जाः सम्यक्त्वौधादिषड्भेदाः संज्य-ऽनाहारकमेदौ चेति ।। ७५० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |