________________
५५८ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघतः सप्तानां चतुर्विधवृद्धिहानिकाल० ___ तदेवं प्ररूपिताः शेषमार्गणास्वपि संख्येयगुणादिस्थितिबन्धवृद्धयादिसत्पदानां स्वामिनः । तेषु च प्ररूपितेषु गतं द्वितीयं स्वामित्व द्वारम् ।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे द्वितीयं स्वामित्वद्वारं समाप्तम् ।।
॥ अथ तृतीयं कालद्वारम् ॥ अथ क्रमप्राप्ते एकजीवाश्रिते कालद्वारे मूलकर्मणां संख्येयभागादिस्थितिबन्धवृद्धयादीनां जघन्योत्कृष्टभेदभिन्न द्विविधमपि निरन्तरं कालं प्रतिपिपादविषयाऽऽदौ तावदोघत उक्तःशेषाणां सप्तकर्मणामसंख्येयभागादिस्थितिबन्धवृद्ध्यादेस्तमाह
समयो लहू खणा दो गुरू चउविहाण वडि ढहाणीणं ।
सत्तण्ह णवरि समयो गुरू असंखगुणहाणीए ॥ ७५१ ॥
(प्रे०) "समयो लह” इत्यादि, "सत्तण्ह" ति आयुर्वर्जानां सप्तप्रकृतीनां "चउविहाण वढिहाणीण" ति असंख्यभागा-ऽसंख्यगुण-संख्येयभाग-संख्येयगुणलक्षणानां चतुविधानां वृद्धीनां हानीनां च “समयो लहू खणादो गुरू” त्ति 'समयः'-एकसमयो 'लघुः'जघन्यः कालः, द्वौ 'क्षणो'-समयौ 'गरुः'-उत्कृष्ट एकजीवाश्रयो निरन्तरकालश्चत्यर्थः । अयं हि लाघवकृतः सामा यो निर्देशः, तत्र काचिदतिप्रसक्तिरपि, अतस्तां निराकुर्वन्नाह-"णवरि" इत्यादि, नवरं सप्तानामसंख्यगुणस्थितिबन्धहानेः 'गुरुः'-उत्कृष्ट एकजीवाश्रयः कालः समयः, न पुनः सामान्यवचनगम्यौ द्वौ समयाविति भावः । अत्र हि चतुर्विधानां वृद्धीनां हानीनां च जघन्यकालः समयस्तु सुगमः, समयमेकं तत्तदृद्धयादेरनन्तरं प्रायेणावस्थानस्यैव प्रवर्तनात् , यतस्ताथास्वाभाव्येन प्रवर्तमानौ द्विसमनिरन्तरभृयस्कारौ द्विसमयनिरन्तराल्पतरौ च कादाचित्कावेव, अवस्थानस्थितिबन्धा बाहुल्येनान्तमुहूर्तिकाश्चेति ।
असंख्यगुणस्थितिबन्धहानेः समयमात्रोत्कृष्टकालस्तु देवानामतत्स्वामित्वात् । अयम्भाव:उपशमश्रेणी मरणव्याघाताभावे प्रत्येकं स्थितिबन्धा आन्तमुहूर्तिकाः सन्ति,न पुनः शेपजीवानामिव कदाचित्केचन सामयिका अपि । किञ्च ये केवनोपशान्ताद्धाक्षयेग प्रपतन्तः सप्तानामसंख्यगुणवृद्धिस्वामिनो यमसंख्यगुणवृद्धस्थितिवन्धं कुर्वन्ति, ते तं पल्योपमासंख्यभागप्रमाणस्थितिकं कुर्वन्ति, न पुनस्तदधिकस्थितिकम् । ततश्च समयमेकमसंख्यगुणवृद्धिं कृत्वाऽनन्तरसमये भवक्षयेण ये केचन देवतयोत्पद्यन्ते तेऽपि तत्र देवभवप्रथमसमयेऽन्तःकोटीकोटीमागरोपमप्रमाणां स्थितिं बघ्नन्तो निरन्तरद्वितीयसमयेऽसंख्येयगुणवृद्धिस्वामिन एव भवन्ति, न पुनर्हानिस्वामिनः; इत्येवमसंख्यगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org