________________
चतुर्विधवृद्धिहानिकालोपपत्ति०] वृद्धयधिकारे कालद्वारम्
[ ५५९ वृद्धेर्मनुष्यदेवो नयस्वामिकत्वायथाऽसंख्यगुणवृद्धिकाल उत्कृष्टतो द्विसमयस्तथा नाऽसंख्यगुणहानेरपि, श्रेणिमारोहतां मनुष्याणां तत्स्वामित्वेऽपि देवानामतत्स्वामित्वेन समयमेकमसंख्यगुणहानेरनन्तरमेव मनुष्यभवक्षयेण देवगतावुत्पादेऽपि तत्र देवभवप्रथमसमये हानेरेवाऽप्रवर्तनात् । कालाऽकरणे तु तावन्मात्रस्थितिबन्धप्रवर्तनरूपमवस्थानमेव प्रवर्तत इत्येवमसंख्येयगुणहानेरुत्कृष्टोऽपि बन्धकालः समयमात्रः प्राप्यत इति ।
असंख्यगुणवृद्धेसिमयोत्कृष्ट कालस्त्वनुपदं प्रसङ्गादर्शितस्तथैव समयमेकमुपशमश्रेणी पतदवस्थायाम् , तदनन्तरसमये कालकरणेन देवावस्थायां समयमेकम् , न पुनस्तदृवं तृतीयसमयेऽपि ।
शेपाणां त्रिविधानामसंख्येयभाग-संख्येयभाग-संख्येयगुणवृद्धीनां तथाविधानां त्रिविधहानीनां च द्विसमयोत्कृष्टकालस्तु निरन्तरे समयद्वये ताथास्वाभाव्येनाऽसंख्यभागाधिकस्थितिबन्धं कुर्वतां , तथैव संख्येयभागाधिकस्थितिबन्धं कुर्वतां, संख्येयगुणाधिकस्थितिबन्धं कुर्वतां तत्तत्स्थितिबन्धस्वामिनां निरन्तरप्रवृत्तासंख्येयभागवृद्धयादिस्थितिवन्धद्वयमपेक्ष्य प्राप्यते । - ननु वृद्धिबन्धो भूयस्काररूप एव. हानिबन्धोऽल्पतरवन्धरूप एव, यद्येवं तदा यथौघतः सप्तानां भूयस्कारस्थितिवन्धकालोऽल्पतरस्थितिबन्धकालश्च समयद्वयादधिकोऽभिहितस्तथा श्रेण्यधीनमसंख्येयगुणवृद्धयसंख्येयगुणहानिलक्षणं पदद्वयं विहाय शेषत्रिविधान्यतमवृद्धयादिपदानां न्वसौ समयद्वयादधिकः स्याद् ? इति चेद, उच्यते, एकविधाऽपि वृद्धिर्हानिर्वा जात्यन्तरपरावृत्यादिनिमित्तस्य सद्भावेऽसद्भावे वा निरन्तरसमयद्वयादधिककालं ताथास्वाभाव्येनैव न प्रवर्तते,अतस्तस्योस्कृष्टोऽपि कालो द्वौ समयावेव प्राप्यते । यदा द्विसमयबद्धरनन्तरसमये जात्यन्तरपरावृत्त्यादिनिमित्तं वर्तते, तदा तु पूर्वसमयजातवृद्धयपेक्षया विलक्षणवृद्धिरूपो भूयस्कारस्थितिबन्धोऽल्पतरस्थितिबन्धो वा नियमेन प्रवर्तते,तत्राऽपि यदि तत्स्वाम्येकेन्द्रियादिभ्यश्च्यवनेन द्वीन्द्रियादिरूपजात्यन्तर उत्पद्यते, तदा भूयस्कार एव । इत्थश्च भृयस्कारस्यान्यविधवद्धिरूपतया तद्वन्धकालसमयद्वयादधिको यावच्चतुःसमयोऽपि सम्पद्यते, इत्थमेव वैपरीत्येनाल्पतरस्थितिबन्धकालस्य त्रिसमयप्रमाणत्वे द्रष्टव्यम् , अन्यविधहानेरल्पतरस्थितिबन्धरूपत्वात् । एवं हि न भवति सप्तानां भूयस्कारस्थितिबन्धकालस्योत्कृष्टतश्चतुःसमयत्वेऽप्येकविधवद्धरुत्कृष्टकालः समयद्वयादधिकः, सप्तानामल्पतरस्थितिवन्धकालस्योत्कृष्टतस्त्रिसमयत्वेऽप्येकविधहानेरुत्कृष्टकालः समयद्वयादधिकश्च । इत्थमेव वक्ष्यमाणमार्गणास्थानेष्वप्यसंख्येयगुणवृद्धिहानिवजेत्रिविधान्यतमवृद्धिहानिकालस्य समयद्वयादनधिकत्वमभ्यूह्यम् ; यत्र त्वसौ द्विसमयोऽपि न, तत्र तु यथासम्भवमुपपत्तिमार्ग प्रदर्शयिष्याम इति ॥७५१॥
तदेवमभिहित ओघतः शेषाणामायुर्वर्जसप्तमूलप्रकृतीनामसंख्यभागवृद्धथादिलक्षणानामष्टविधानामपि स्थितिबन्धविशेषाणामेकजीवाश्रितो जघन्योत्कृष्टद्विविधः कालः । इदानीं तमेवादेशतो विभणिपुरोधप्ररूपणया बहुसाम्यात्सापवादमतिदिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org