________________
५६० ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणासु सर्वविधस्थितिवृद्धिहानि० सब्बासु सत्तण्हं सपयाणोघव्व वढिहाणीणं । (गोतिः) णवरि असण्णिम्मि गुरू समयो संखगुणवढिहाणीणं ॥७५२॥ तिणर-पणमणवयु-रल-णपुम-थी-मणणाण-संयमेसु तहा। समइअ-छेएसु गुरू खणो असंखगुणवड्ढिीए ॥७५३॥ कम्मण-गयवेएसुसुहुमा-ऽणाहारगेसु सत्तण्हं ।
समयो परमो यो सपयाणं वढिहाणीणं ॥७५४॥ (प्रे०) “सव्वासु"मित्यादि, नरकगत्योघाद्यनाहारकपर्यन्तासु सप्तत्युत्तरशतसंख्याकासु सर्वासु मार्गणासु “सत्ताह" ति आयुर्वर्जानां सप्तानां मूलप्रकृतीनां “सपयाणोघव्व वढिहाणीणं" ति स्थितिबन्धस्याधिकृतत्वादसंख्येयभागादिस्थितिबन्धवृद्धिहानिलक्षणानां 'स्वपदानां'सत्पदद्वारे तत्तन्मार्गणायामभिहितानां सत्पदाना मोघवद्-औधिककालतुल्यः, एकजीवाश्रयो जघन्योत्कृष्टकाल इति प्रक्रमाद्गम्यते । इत्थं चातिदिष्टे याऽतिप्रसक्तिस्तामुद्धरनाह-"णवरि" इत्यादि सार्धगाथाद्वयम् । 'नवरं'-परं तत्रायं विशेषः । कोऽसावित्याह-"असण्णिम्मि" इत्यादि,
ओषतः सप्तानां संख्येयगुणवद्धः संख्येयगुणहानेश्वोत्कृष्टबन्धकालो यः समयद्वयमभिहितः सोऽसंज्ञिमार्गणायां समयमात्रो विज्ञेयः । कुतः ? संख्येयगुणवृद्धेरेकेन्द्रियादिभ्यश्च्युत्वा द्वीन्द्रियादितयोत्पद्यमानानामसंज्ञिजीवानां परस्थानत एव भावात् , जात्यन्तरपरावृत्या परस्थानत एव लभ्यमानायाः संख्येयगुणाद्यन्यतमाया वृद्धः समयादधिककालस्यासम्भवात् । एतदपि कुतः ? इति चेत् , सकृज्जाताया जात्यन्तरपरावृत्तेर्जघन्यतोऽपि क्षुल्लकभवग्रहणादर्वागसम्भवादिति । इत्थमेव संख्येयगुणहानेः समयमात्र उत्कृष्टकालोऽपि व्युत्पादनीयः, केवलं वैपरीत्येनासंज्ञिपञ्चेन्द्रियादिभ्यश्च्युत्वा चतुरिन्द्रियादितयोत्पद्यमानानां परस्थानत एव संख्येयगुणहानेः सम्भवात्तदपेक्षयेति । ___ अथ मार्गणान्तरेष्वसंख्यगुणवृद्धिविषयेऽपवदन्नाह-"तिणरे"त्यादि, 'तिणर' इत्यनेनाऽपर्याप्तभेदवर्जा मनुष्योध-पर्याप्तमनुष्य-मानुषीलक्षणास्त्रयो नरगतिमार्गणाभेदा गृह्यन्ते, तेषु त्रिनरभेदेषु, तथा पञ्चशब्दस्य प्रत्येकं योजनात्पञ्चमनोयोगभेदाः, पञ्चवचोयोगभेदाश्च तेषु,
औदारिककाययोग-नपुंसकवेद-स्त्रीवेद-मनःपर्यवज्ञान-संयमोघमार्गणासु, तथा सामयिकसंयम-छेदोपस्थापनसंयमयोश्चेत्येतासु विंशतिमार्गणासु प्रत्येकं "गुरू खणो असंखगुणवढीए” त्ति ‘सत्तण्ह' इति पूर्वगाथातोऽनुवर्तते, ततः सप्तानां मूलप्रकृतीनामसंख्यगुणस्थितिबन्धवृद्धेः 'गुरू:'उत्कृष्ट एकजीवाश्रयकालो नैरन्तर्येण 'क्षणः'-समयः, समयमात्रः प्राप्यते, न पुनर्यथातिदेशमोघवद् द्वौ समयाविति भावः । कुतः ? इति चेत्, सप्तानां निरन्तरद्वितीयसमयभाविन्यसंख्यगुणस्थितिबन्धवृद्धिरुपशमश्रेणावसंख्यगुणस्थितिबन्धवृद्धिं कृत्वाऽनन्तरसमये भवक्षयेण देवगतावुत्पत्त्यैव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International