________________
भोघतश्चतुर्विधवृद्धिहानिजवन्यान्तर० ] वृद्धपधिकारेऽन्तरद्वारम् जायते, नान्यथा । अतः सा निरन्तर्रा,तीयसमयासंख्यगुणवृद्धिः प्रस्तुतमनुष्यगत्योधादिविंशतिमार्गणासूपादातुन युज्यते, प्रथमसमयासंख्यगुणवृद्धेरनन्तरसमये कालकरणे मनुष्यगत्योघादिप्रत्येकमार्गणानां विच्छेदेन तत्स्वामिनां प्रस्तुतमार्गणातो बहिर्भावादिति । ___अथान्यमार्गणासु सर्वसत्पदविषयकापवादमाह-"कम्मणगयवेएम''मित्यादि, कार्मणकाययोगाऽपगतवेदमार्गणयोः सूक्ष्मसम्परायसंयमाऽनाहारकमार्गणयोश्च प्रत्येकं सप्तानामायुर्वर्जमूलप्रकृतीनां 'परमः'-उत्कृष्ट एकजीवाश्रयकालः 'समयः'-समयमात्रो भवति । असंख्यभागवद्धयादीनां कियतां पदानामित्याह-"सपयाणं वढिहाणी]" ति प्राग्वत्तत्तत्कार्मणकाययोगादिमार्गणासु सत्पदद्वारे सत्तयाऽभिहितत्वात्स्वपदभूतानां संख्येयभागादिस्थितिबन्धवृद्धिहानीनाम् । कुत एक एव समयः, न पुनर्ती समयो ? इति चेत् , प्रत्येकमायुर्वर्जानां बन्धप्रायोग्यप्रकृतीनां भयस्कारस्थितिबन्धकालस्याल्पतरस्थितिबन्धकालस्य चाप्युत्कृष्टतः समयमात्रत्वात् न भवति द्वौ समयौ, सामान्यनिवृत्ती विशेषनिवृत्तेरवश्यम्भावित्वात् । किमुक्तं भवति-सामान्यो हि भयस्कारः स्थितिचन्धः, असंख्यभागवृद्धयादयस्तु तद्विशेषा एव । यदि हि प्रस्तुतमार्गणाचतुष्के निरन्तरद्वितीयसमये भूयस्कार एव न प्राप्यते तत्कुतस्तद्विशेषरूपाया असंख्यभागवृद्धयादेः प्राप्तिः, न कुतश्चिदपि । इत्थं हि मार्गणाचतुष्के सर्वेषां वृद्धयादिसत्पदानामुत्कृष्टोऽपि कालः समयमात्रः प्राप्यते, न तु द्विसमयस्तदधिको वेति ॥७५२-७५३-७५४॥
तदेवं प्रतिपादितो मार्गणास्थानेष्वपि तत्तन्मार्गणोक्तासंख्यभागवृद्धयादिसत्पदानां जघन्योत्कृष्टभेदभिन्नो द्विविधोऽप्येकजीवाश्रितः कालः । तस्मिँश्च प्रतिपादिते गतं तृतीयं कालद्वारम् । ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे तृतीयमेकजीवाश्रितं कालद्वारं समाप्तम् ।।
॥ अथ चतुर्थमन्तरद्वारम् ॥ अथ चतुर्थमेकजीवाश्रयमन्तरद्वारम् । तत्रायुषः स्थितिबन्धहान्यादिसत्पदविषयकान्तरस्यापि प्रागेवतिदिष्टत्वादायुर्वर्जानां सप्तानां प्रकृतीनां स्थितियन्धवृद्धयादिसत्पदानामन्तरं प्रतिपिपादयिषुरादौ तावदोघतो जघन्यमन्तरमाहः
सत्तण्ह अंतरमणु चउविहवड्ढीण तिविहहाणीणं ।
समयो भिन्नमुहुत्तं लहु असंखगुणहाणीए ॥ ७५५॥ (प्रे०) "सत्तण्ह अंतरमणु"मित्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनामन्तरमेकजीवाश्रितम् 'अणु'-जघन्यम् , अस्य च गाथोत्तरार्धे "समयो"इत्यनेनान्वयः, ततस्तज्जघन्यमन्तरं समयः, समयमात्रमित्यर्थः । कासां वृद्धिहानीनामित्याह-"चउविहवड्ढोण"त्ति 'चतुर्विधा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only