________________
५६२ ]
बंधविहाणे मूलपयडिठिइबंधो [ भोघतश्चतुर्विधवृद्धिहान्युत्कृष्टान्तर० नाम्'-असंख्येयभाग-संख्येयभागा-ऽसंख्येयगुण-संख्येयगुणवृद्धिलक्षणानां स्थितिबन्धविशेषाणां तथा "तिविहहाणीण" ति त्रिविधानामसंख्यगुणहानिवर्जानां शेषाणामसंख्येयभाग-संख्येयभागसंख्येयगुणहानिलक्षणानां स्थितिवन्धविशेषाणां च प्रत्येकमित्यर्थः । अवशेषाया असंख्यगुणहानेजघन्यमन्तरमाह-"भिन्नमुहुत्त"मित्यादि, 'भिन्नमुहूर्तम् '-अन्तमुहूर्त 'लघु'-जघन्यमन्तरमसंख्य. गुणहान्या इति ।
तत्रा-संख्यगुणवृद्धिवर्जानां त्रिविधवृद्धीनां श्रेणिबहिर्वर्तिजीवानामपि सम्भवात् सामयिकावस्थानादिनाऽन्तरितत्वे जघन्यमन्तरं प्राप्यते । इदमुक्तं भवति-श्रेणिवाहि विस्थितिवन्धा न नियमतोऽन्तमुहूर्तमेव प्रवर्तन्ते, ततश्च त्रिविधवृद्धीनामन्यतमा वृद्धिं कृत्वा समयमवस्थाय तत्स्वामी पुनरप्यनन्तरसमये समयान्तरकृतसदृशीमेव त्रिविधान्यतमां स्थितिबन्धवृद्धिं करोति तदा एकसमयान्तरं प्राप्यते । इत्थमेव त्रिविधहान्यन्तरविषयेऽपि विज्ञेयम् , तासामपि श्रेणिबहिर्तिजीवानां सद्भावात् । असंख्यगणवद्धिस्तु यद्यपि श्रेणिबहिरपि भवति. तथाऽपि न सा येषां केषा. मपि पञ्चेन्द्रियाणां, किन्तु ये केचिदुपशमश्रेणी भवक्षयाद्देवतयोत्पन्नास्तेषां देवभवप्रथमसमयवर्तिनां केषाश्चिदेव, ततश्च यः कश्चित्प्रपतच्चारित्रमोहोपशमकस्तत्तत्कर्मणामसंख्यगुणस्थितिबन्धवृद्धि समयमेकं कृत्वा समयमेकं तावन्मात्रस्थितिं बध्नन् तत्रैवावस्थायाऽनन्तरसमये भवक्षयादेवतयोत्पघते, तस्य श्रेणिभावि-देवभवभाव्यसंख्यगणस्थितिवन्धवद्धयोः समयमाणावस्थितस्थितिबन्धेनान्तरितत्वादोघतो जवन्यमन्तरं समयमात्र प्राप्यते, नान्येन केनापि प्रकारेणेति । असंख्यगुणस्थितिबन्धहानेः स्वामिनस्तु केवलाः श्रेणि समारोहन्त उपशमकाः क्षपका वैव, न पुनर्भवप्रथमसमयवर्तिनो देवा अन्ये वा, किश्च श्रेणी प्रत्येकं स्थितिबन्धा आन्तमु हर्तिकाः, ततश्च लकदमंग्व्यगणहीनस्थितिबन्धं कृत्वा पुनरप्यसंख्यगुणहीनस्थितिवन्धं कुर्वतो जीवस्याऽसंख्यगणहानिद्वयमध्ये जघन्यतोऽप्यन्तमुहर्तकालोऽतिगच्छति, इत्थं चासंख्यगुणस्थितिबन्धहानेर्जघन्यः कालः शेषवृद्धिहानिकालवत् समयमात्रो न प्राप्यते, किन्तु जघन्यतोऽप्यन्तमुहूर्तमेवेति ।। ७५५।।
अर्थतासामेवोत्कृष्टमन्तरमोघतः प्रचिकटयिषुर्गाथा यमाहउकोसमंतरं उ असंखेज्जइभागवढिहाणीणं । सत्तण्डं कम्माणं भिन्नमुहुत्तं मुणेयव्वं ॥७५६ ॥ परममसंखपरट्टा संखियभागगुणवढिहाणीणं । देसूणोऽद्धपरट्टो असंखगुणवड्ढिहाणीणं ॥ ७५७ ॥
(प्रे०) “उक्कोसमंतर"मित्यादि, आयुर्वर्जानां सप्तकर्मणामसंख्येयभागवृद्धिहान्योः प्रत्येकमुत्कृष्टमेकजीवाश्रयमन्तरं 'तु'-पुनः भिन्नमुहूर्तम्'-अन्तमुहूर्त ज्ञातव्यम् । संख्येयभागवृद्धिहान्योराह"परममसंख" इत्यादि, सप्तानां संख्येयभागसंख्येयगुणस्थितिवन्धवृद्धिहानीनां प्रत्येकं 'परमम्'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org