________________
चतुर्विधवृद्धिहान्यन्तरोपपत्ति० ]
[ ५६३
उत्कृष्टमन्तरमसंख्येयाः “परहा" त्ति पदैकदेशे पदोपचारात्पुद्गलपरावर्ता इत्यर्थः । उक्तशेषयोराह - "देसूणो" इत्यादि, सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकं पुनः प्रकृतमेकजीवाश्रितमुत्कृष्टमन्तरं देशोनाऽपार्श्वपुद्गलपरावर्त इत्यर्थः ।
वृद्धयधिकारेऽन्तरद्वारम्
इयमत्रोपपत्तिः - श्रेणौ बन्धप्रायोग्यं स्थितिबन्धं विहायैकेन्द्रियादिषु प्रमत्तसंयतान्तेषु जीवेषु यस्य यस्य जीवस्यैकांधिका यावत्यः सप्तकर्मतत्कस्थितिबन्धवृद्धयो हानयश्च स्वस्थान एव सम्भवन्ति तस्य तस्य जीवस्य तासु समुदितासु वृद्धिहानिष्वेकैकविधा वृद्धयो हानयो वोत्कृष्टतः संख्येयान् स्थितिबन्धानतिक्रम्यातिक्रम्य जायमाना अपि भिन्नमुहूर्तादधिकव्यवधाना न भवन्ति । न च यद्यैवं तदाऽसंख्येयभागवद्विहान्यन्तरमिव शेषद्विविधवृद्धिहान्यन्तरमपि कथमन्तर्मुहूर्त मात्रं नोक्तमित्याशङ्कयम् । यतः शेषद्विविधवृद्धिहानीनां नैकेन्द्रियविकलेन्द्रियादयोऽपि स्वस्थानतः स्वामिनः, तथा च संज्ञिपञ्चेन्द्रियाद्यवस्थायां शेषद्विविधवृद्धिहान्यन्यतरां निर्वर्त्यानन्तरमेव कालं कृत्वा य एकेन्द्रियादिषु गच्छति, तत्र चोत्कृष्टामेकेन्द्रियादिकाय स्थिति निर्गमयति, तावत्कालं न भवति तस्य तादृशी पूर्वकृतबुद्धयादिसदृशी बुद्धिर्हानिर्वा । इत्थं चान्तर्मुहूर्ताभ्यधिकेन्द्रियादिकायस्थितितुल्यमन्तरमुत्कृष्टतः सम्पद्यते ।
तथाहि - कश्चित् सकाय जीवो भवचरमान्तमुहूर्ते स्वस्य स्वस्थाने प्रायोग्यं संख्येय भागवृद्धस्थितिबन्धं कृत्वा तदनन्तरं चान्तर्मुहूर्त यावत् स्वप्रायोग्याः संख्येया अन्यविधवृद्धिहानीर्निर्वत्यैकेन्द्रियतयोत्पन्नः, न च तत्र तस्य संख्येयभागवृद्धेरवकाशः, अतोऽसौ प्रत्यन्तमुहूर्तं तत्र प्रायोग्यामसंख्येयभागवृद्धिं तादृशीं हानिमवस्थानं च बुर्वन् कुर्वन्ने केन्द्रियस्योत्कृष्टां काय स्थितिम संख्येयपुलपरावर्तप्रमाणां तत्रैव निर्गमयति । समाप्तायां चैकेन्द्रियोत्कृटकापस्थिती पुनरपि श्रसत्वेनोत्पचान्तर्मुहूर्तमतिक्रम्य संख्यभागाविकं स्थितिबन्धं कुर्वन् संख्ये भागवृद्धिं करोति, न त्वक् ॥ इत्थं तादृशजीवेनानन्तैरेकेन्द्रियभवैरन्तरितयोस्त्रसभवयोर्निर्वर्तित संख्येयभागस्थितिबन्ध वृद्धिद्वयस्या - न्तरं यथोक्तमसंख्येयपुद्गलपरावर्तप्रमाणं प्राप्यते तच्चो कनीत्याऽन्तर्मुहूर्ताभ्यधिकैकेन्द्रियोत्कृष्टकायस्थितिप्रमाणं विज्ञेयम् । इत्थमेव संख्येयभागवृद्धिस्थाने संख्येयभागहानिद्वयं कुर्वन्तं जीवमादायोत्कृष्टं संख्येयभागहान्यन्तरमपि भावनीयम् । एवमेव संख्येयगुणवृद्धिहान्यन्तरेऽपि भावनीये, केवलं पूर्वं विवक्षितवृद्धिहानि उयान्तराल एकेन्द्रियकायस्थितिदर्शिता, अत्र तु संख्येयगुणवृद्धिहान्योर्विकलेन्द्रियाणामपि स्वस्थानेऽसम्भवात्तदपेक्षया लभ्यमानः कियत्कालोऽपि तदन्तरालेऽधिकतया द्रष्टव्यः तथा च सत्यन्तरमपि पूर्वापेक्षया दीर्घतरं प्राप्येतेति ।
असंख्यगुणवृद्धिहान्योरेकैकस्या उत्कृष्टमन्तरं तु श्रेणिद्वयस्योत्कृष्टान्तरालमपेक्ष्य प्राप्यते, श्रेणिद्वयस्योत्कृष्टमन्तरं त्वेकजीवापेक्षया देशोनापार्श्वपुद्गलपरावर्तप्रमाणम् । विशेषतस्तु जीवविशेषं कृत्य स्वयमेव भावनीयमिति ।। ७५६-७५७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org