________________
५४६]
बंधविहाणे मूलपयडिठिइबंधो [सप्तानामसंख्यसंख्यभाग-गुणवक्तव्यत्वाभावादित्येते उभेऽपि पदे यथा तत्र भूयस्काराधिकारे सत्पदप्ररूपणादिद्वारेष्वोधादेशभेदतः प्रतिपादिते तथैवात्रापि बोद्धव्ये । तद्यथा-अयस्काराधिकारे प्रथमे सत्पदद्वारे ओघतः सप्तानामवस्थिता-ऽवक्तव्यस्थितिबन्धौ सन्तावभिहितौ तथैवात्राऽपि तौ सन्ताववगन्तव्यौ । आदेशतस्तु यथा तत्रावस्थितस्थितिबन्धः सर्वासु सप्तत्युत्तरशतमार्गणास्वपि सन् प्रतिपादितस्तथैवात्रापि सप्तानामवस्थितस्थितिबन्धः स्थितिबन्धस्यावस्थानं वा सर्वमार्गणास्वस्तीति द्रष्टव्यम् । आदेशतोऽवत्तव्यबन्धः पुनर्यथा तत्र मनुष्यगत्योघ-पर्याप्तमनुष्य-मानुपी-पञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रिय-त्रसकायौघ--पर्याप्तत्रसकाय--पञ्चमनोयोग-पञ्चवचोयोग--काययोगसामान्यो-दारिककाययोगा-उपगतवेदमतिज्ञान-श्रतज्ञाना--ऽवधिज्ञान-मनःपर्यवज्ञान-संयमोघ-चक्षुर्दर्शना-ऽचक्षुर्दर्शना-ऽवधिदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वोध-क्षायिकसम्यक्त्वो-पशमिकसम्यक्त्व-संख्या-ऽऽहारिमार्गणास्वायुर्वर्जसप्तानाम्, लोभमार्गणायां मोहनीयकर्मणश्च सन् प्रतिपादितस्तथाऽत्रापि तास्वेव मनुष्यगत्योघादिषट्त्रिंशन्मागंणासु सन्नित्यभिधातव्यः; न पुनः शेषमार्गणास्वपि, शेषमार्गणासु सत्तयाऽनभिहितत्वादिति ।
स्वामित्व द्वारे-ओघतः सप्तानामवस्थितस्थितिबन्धकस्तत्रोक्तस्वामित्वप्ररूपणागदत्राप्यन्यतमगतिको जीवोऽभिधातव्यः । सप्तानामवक्तव्यबन्धकोऽपि तद्वदेव प्रतिपतन्नुपशमकः,उपशान्तमोहगुणस्थानकादावबन्धकावस्थायां कालं कृत्वा देवतयोत्पन्नो देवभवप्रथमसमयवर्ती जीवो वाऽवगन्तव्यः। अनया दिशा यावद् द्विचरमं भावद्वारं तावत्सर्वं भूयस्कारग्रन्थानुसारेण स्वयमेव द्रष्टव्यम्, चरमेऽल्पबहुत्वद्वारे तु ग्रन्थकृत्स्वयमेव वक्ष्यतीति ।
__ इत्थं हि लाघवार्थ सप्तप्रकृतीनां स्थितिबन्धस्यावस्थानाऽ-वक्तव्येऽप्यतिदिष्टेऽवशिष्टा केवलाऽऽयुर्वर्जानां ज्ञानावरणादीनां सप्तानां संख्येयगुणादिस्थितिवन्धवृद्धिहानिविषया सत्पदादिप्ररूपणा, अतस्तामेव क्रमेणाविचिकीर्षया प्रथमे सत्पदद्वार ओघा-ऽऽदेशक्रमेणाह
वड्ढीओ हाणीओ बन्धस्स चउविहाऽथि सत्तण्हं । एमेव जाणियव्वं णरतिग-दुपणिंदियतसेसु॥७३४॥ पञ्चसु मणवयणेसुकाय-उरालेसु इत्थि-पुरिसेसु। णपुम-चउकसायेसु णाणचउग-संयमेसु य ॥७३५॥ समइअ-छे-ओहीसु चक्खु-अखक्खूसु सुइल-भवियेसु।
सम्मत्तम्मि उवसमे खइए सण्णिम्मि आहारे ॥७३६॥ (प्रे०) "वढिओ हाणीओ” इत्यादि, “सत्तण्ह" ति ओघत आयुर्वर्जानां मौलानां सप्तप्रकृतीनां “बन्धस्य" ति स्थितिबन्धस्य "चउविहा" ति उत्कृष्टस्यापि स्थितिबन्धस्याऽसंख्येयसमयप्रमाणत्वेनाऽनन्तभागाऽनन्तगुणवृद्धयादिरूपप्रकारद्वयस्याऽसम्भवाच्छेषाः चतुर्विधाः' -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org