________________
आयुर्वर्जानामक्तव्या-ऽवस्थानसत्पदादि० ] वृद्धयधिकारे सत्पदद्वारम्
आदेशतः-सर्वमार्गणास्ववक्तव्यस्थितिबन्धस्य जघन्य उत्कृष्टश्च कालः प्रत्येकमोघवदेकसमय एव । असंख्यभागस्थितिबन्धहानेर्बन्धकालस्तु सप्तचत्वारिंशद्गतिमार्गणामेदेषु, एकोनविंशतिजातिमार्गणाभेदेषु, विचत्वारिंशत्पृथिव्यादिकायमार्गणाभेदेषु, औदारिकमिश्रकाययोग-व्यादिवेदत्रय-मतिज्ञानादिचतुर्ज्ञान-मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञान--संयमोघ--सामायिक-छेदोपस्थापन-परिहारविशुद्धिकदेशसंयमा-ऽसंयम--चक्षुरादित्रिदर्शनमार्गणाभेद-पल्लेश्याभेद-भव्या-ऽभव्य-सम्यक्त्वोध-क्षायिकक्षायोपशमिकसम्यक्त्व-सासादन-मिथ्यात्व-संस--संध्या-ऽऽहारिमार्गणाभेदेष्वित्येतेषु चतुश्चत्वारिंशदभ्यधिकशतमार्गणाभेदेषु प्रत्येकमोघवजघन्यत उत्कृष्टतश्चोभयथाऽप्यन्तमुहूर्तम् , पञ्चमनोयोगपञ्चवचोयोग-काययोगसामान्यौ-दारिक--वैक्रिया--ऽऽहारका-ऽऽहारकमिश्रकाययोग-क्रोधादिकषायचतुष्करूपेष्वेकोनविंशतिमार्गणामेदेषु तु जघन्यत एकसमयः, उत्कृष्टतस्त्वन्तमुहूर्तमिति । इत्थमेव शेषाऽन्तराद्यनुयोगद्वारे धषि दर्शिताभिलापवद् भूयस्काराधिकारवत्त.व्यतानुसारेण स्वयमेवाभिधातव्यमिति ।
तदेवं समाप्ताऽऽयुषः सत्पदादित्रयोदशानुयोगद्वारविषया वक्तव्यता । साम्प्रतमुक्तन्यायेनेवाऽऽयुर्वर्जानां सप्तप्रकृतीनामवक्तव्यावस्थितस्थितिबन्धविषयकवक्तव्यतामप्यतिदिशन्नाह
भूओगारव्व भवेऽवत्तव्वत्तं तहा अवट्ठाणं ।
बंधस्स उ सत्तण्हं संतपयाईसु दारेसु॥७३३॥ (प्रे०) "भूओगारव्व भवेऽवत्तव्वत्त"मित्यादि, भूओगारव्वभवे' त्ति भूयस्काराधिकारोक्तप्ररूपणावद् भवेत् । किं तद् यदप्यायुषोऽल्पतराऽवक्तव्यत्ववन्यस्कारादिप्ररूपणया तुल्यं भवेदित्याह-"वत्तव्वत्त"मित्यादि, तत्रादौ लुप्ताकारदर्शनादवक्तव्यत्वं तथाऽवस्थानमित्येतत्पदद्वयविषयकप्ररूपणा, सा च "बंधस्स उ सत्तण्ह" ति आयुर्विषयकवक्तव्यताया अनन्तरमेव समापितत्वादायुवेर्जानां ज्ञानावरणादीनां मूलप्रकृतीनां 'बन्धस्य'-स्थितिवन्धस्य ज्ञेयेत्यर्थः । तुकारस्तु प्राग्वत्, सप्तानामवस्थाना-वक्तव्यप्ररूपणाया भयस्काराधिकारोक्तावस्थिता-ऽवक्तव्यस्थितिबन्धप्ररूपणया तुल्यत्वेन शेषवृद्धि हानिप्ररूपणापेक्षया विशिष्टत्वादिति । नन्वते आयुर्वर्जसप्तप्रकृतीनां स्थितिबन्धाऽवक्तव्यत्वाऽवस्थानयोः प्ररूपणा किं सर्वद्वारेपूत सत्पदद्वार एव भूयस्काराधिकारवज्ज्ञयेत्याह-"संत. पयाईसु दारेसु” ति प्राग्वत्सत्पदादिषु द्वारेषु । अत्र 'व्याख्यानतो विशेषप्रतिपत्ति'रिति न्यायेन भावद्वारान्तेषु द्वादशद्वारेष्विति विज्ञेयम्, न पुनः प्राग्वत् त्रयोदशेऽल्पबहुत्वद्वारेऽपि, त्रयोदशेऽल्पषहुत्ववारे भूयस्काराधिकारापेक्षया विशेषवक्तव्यत्वस्य सद्भावेनात्रैवाधिकारेऽभिधास्यमानत्वादिति । इदमत्र हृदयम्-यो हि भूयस्काराधिकारे सप्तप्रकृतीनामवक्तव्यस्थितिबन्धः स एव प्रकृतेऽपि, न च तद्विषये संख्येयाऽसंख्येयगुणत्वादिकं किञ्चिद्विशेषेण चिन्तनीयम्। एवं तत्र भूयस्काराधिकारोक्तसप्तानामवस्थितस्थितिबन्धः स एवात्रानुवर्तते, तद्विषयेऽपि विशेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org