________________
५४४ ]
बंधविहाणे मूलपयडिठिइबंधो [ आयुषोऽसंख्यभागहान्यवक्तव्यसत्पदादि० तावद् भूयस्कारादिप्ररूपणया तुल्यत्वादल्पवक्तव्यत्वाचाऽऽयुषः सत्पदादित्रयोदशद्वारविषयां प्ररूपणामेकयाऽऽर्ययाऽतिदेशादिना समापयन्नाह
अस्थि अवत्तव्वत्तं बंधस्स असंखभागहाणी य । भूगारवाऽऽउस्स उ संतपयाईसु दारेसु॥७३२॥ (प्रे०) "अत्थि अवत्तव्वत्त"मित्यादि, 'अस्ति'-विद्यते,सदित्यर्थः । किमित्याह-"अवसव्वत्त"मित्यादि, 'बन्धस्य'-स्थितिवन्धस्याऽवक्तव्यत्वम् , अवक्तव्यस्थितिबन्धपदमिति भावः । "असंखभागहाणी य" त्ति स्थितिबन्धस्याऽसंख्यभागहानिश्च अस्य, च 'आउस्स' इति परेण योगस्तत आयुःकर्मणोऽवक्तव्यलक्षणस्थितिबन्धोऽसंख्यभागस्थितिबन्धहानिश्च द्वे पदे सती, अन्यपदानि वसन्त्येवेत्यर्थः । इदमुतं भवति-आयुषोऽवक्तव्यवन्धस्तु भूयस्काराधिकारे उक्तस्त थैव,भूयस्कारा-ऽवस्थितस्थितिवन्धौ तु तत्राप्यसन्तावेवाभिहितो,यत् पुनस्तत्राल्पतरस्थितिबन्ध उक्तः सोऽत्र हानितया गृह्यते, आयुश्वावस्थानयोग्यतालक्षणस्थितिकमधिकृतम् , तच्च बध्यमानं जघन्यत उत्कृष्टतो वाऽसंख्येयसमयस्थितिकमेव बध्यते । कुतः ? साधिकत्रयस्त्रिंशत्सागरोपमाणांसाधिकषट्पञ्चाशदधिकशतद्वयावलिकानां चाऽसंख्येयसमयमात्रत्वात् । ततश्च तद्वन्धाद्धाया द्वितीयादिसमयेषु समयसमयाऽबाधाहानौजायमानस्थितिबन्धहानिमपेक्ष्याऽल्पतरबन्धरूपा हानयोऽप्येकैकसमयप्रमाणा भवन्ति,ताश्च पूर्वसमयबद्धस्थित्यपेक्षयाऽसंख्यभागमात्रहीनस्थितिबन्धरूपा इत्येकविधा हानिरेव सत्तया प्रतिपादितेति । इत्येवं भूयस्काराधिकारोक्त आयुषोऽल्पतरस्थितिबन्ध एव प्रकृतेऽसंख्यभागहानितया प्राप्यते, तथाच सति तत्रोक्तायुषोऽल्पतरावक्तव्यस्थितिबन्धविषया सर्वा प्ररूपणात्र वृद्धयधिकारे ऽपि निर्विशेषेणोपपद्यत इति कृत्वा लाघवार्थी सर्वा तथैवाऽतिदिशन्नाह-“भूगारव्वाउस्स उ" इत्यादि, तत्रतुशब्दः शेषसप्तकर्मणां प्रकृताधिकारविषयायाः सर्ववक्तव्यताया भूयस्काराधिकारोक्तवक्तव्यतयाऽतुल्यत्वेन तदपेक्षयाऽऽयुषः प्रकृताधिकारविषयायाः सर्ववक्तव्यताया भूयस्काराधिकारोक्तवक्तव्यतया तुल्यत्वरूपविशेषस्य द्योतनाथः । ततो भूयस्काराधिकारण साम्याद् 'आयुषः'-आयुःकर्मणः स्थितिबन्धवृद्धयादिविषये "संतपयाईसु दारेसु" ति सत्पदाद्यल्पबहुत्वान्तेषु त्रयोदशद्वारेषु “भूगारव्व" त्ति भूयस्काराधिकारवद्, वक्तव्यमिति शेषः । अयमत्र विशेषो विज्ञयः-तत्र भृयस्काराधिकारे यत्स्थानेऽल्पतरस्थितिबन्धामिलापेनाऽऽयुषः सत्पदादिवक्तव्यता कृता,अत्र तु तत्स्थाने साऽसंख्यभागहान्यभिलापेन द्रष्टव्या । तद्यथा-सत्पदप्ररूपणायामोघतोऽवक्तव्या-ऽसंख्यभागहान्योः सचं तु मूलकृतैवाभिहितम् । आदेशत:-सर्वासु त्रिषष्टयधिकशतमार्गणास्वपि निर्विशेषेण तथैव बोध्यम् । स्वामित्वद्वारे-ओघत आदेशतश्च सासु मागंणास्वायुषोऽवक्तव्यस्याऽसंख्यभागस्थितिबन्धहानेश्वऽन्यतमोजीवः स्वामी। एकजीवाश्रयकालद्वारे-ओघत आयुषोऽवक्तव्यस्थितिबन्धस्य जघन्य उत्कृष्टश्च कार एक समय एव । असंख्यभागहानेर्जघन्यकाल उत्कृष्टकालश्च प्रत्येकमन्तमुहूर्तम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org