________________
॥ वृदयाघकास ॥ साम्प्रतं “वड्ढी” इत्यनेन स्थितिबन्धग्रन्थप्रारम्भे उद्दिष्टस्य वृद्धयाख्यस्य पञ्चमाधिकारस्यावतरः । अवाप्यधिकारे प्राग द्वितीयगाथावत्तौ भणितस्वरूपायाः पदनिक्षेपद्वारविषयाद्विलक्षणाया भूयस्कारविशेगात्मिकायाः संख्येया-ऽसंख्येयगुण-संख्येया-ऽसंख्येयभागभेदभिन्नायाः मूलाष्टकर्मणां स्थितिबन्धवद्धेस्तथोपलक्षणात तथाविधायाः स्थितिबन्धहानेः स्थितिबन्धावस्थानस्य च सत्पदादिद्वारेषु प्ररूपणा कर्तव्या, अतोऽधिकारप्रारम्भे प्रथमस्तावत्प्राक संख्यामात्रेणाभिहितानि द्वाराणि नामतः क्रमतश्च ज्ञापयन्नाह
णेयाणि वड्ढिबन्धे अहिगार पंचमे दुआराइं । तेरस संतपयं तह सामी कालंतराइं य ॥७३०॥ भंगविचयो य भागो परिमाणं खेत-फोसणाउ तहा।
कालो अंतर-भावा अप्पाबहुगं जहाकमसो ॥७३१॥
(प्रे०) “णेयाणि वढिबंधे” इत्यादि, मूलप्रकृतिस्थितिबन्धमधिकृत्य- मूलपयडिठिइबंधे अहिगारा पढमबीअभूगारा। पयणिक्खेवो वड्ढी अज्झवसाणसमुदाहारो॥२॥ इत्यादिनोद्दिष्टपडधिकारान्तःप्रविष्टे पञ्चमे "वडिढबंधे" त्ति वद्धिवन्धाधिकारे त्रयोदश द्वाराणि यथाक्रमशो ज्ञेयानीति क्रियान्वयः । तान्येव येन क्रमेण ज्ञातव्यानि तेन क्रमेणैवाह-"संतपय"मित्यादि, प्रथमं सत्पदद्वारम् ,ततो द्वितीयं स्वामित्वद्वारम्,ततः पुनस्तृतीयं कालद्वारम्,तदनन्तरं तु चतुर्थनन्तरद्वारम्,इत्थमेव पञ्चमं भङ्गविचयद्वारम्, षष्ठं भागद्वारम् , सप्तमं परिमाणद्वारम्,अष्टमं क्षेत्रद्वारम्,नवमं स्पर्शनाद्वारम्, दशमं कालद्वारम्, एकादशमन्तरद्वारम् , द्वादशं भावद्वारम् , त्रयोदशं पुनरल्पबहुत्वद्वारम् । अत्रापि द्वितीयाधिकारवद् भृयस्काराधिकारवद्वा भङ्गविचय प्रभृतीनि द्वाराणि तु नानाजीवानाश्रित्य विज्ञेयानि, व्याख्याऽप्येतेषां सत्पदद्वारावर्जानां स्वामित्वादिद्वाराणां प्रत्येकं द्वितीयाधिकारप्रारम्भेऽभिहितस्य “दुइए अहिगारे अहे" त्यादिगाथा-(३२-३३) द्वयस्य वृत्त्यनुसारेण द्रष्टव्या, केवलं तत्र सा उत्कृष्टादिस्थितिबन्धमधिकृत्य दर्शिता, अत्र तु संख्येयाऽसंख्येयगुणवृद्धि-हान्यादिकमधिकृत्य वक्तव्या । सत्पदद्वारे तु संख्येयगुणादिवृद्धिहानिषु केषां मूलकर्मणामोघतो मार्गणास्थानेषु च कियन्ति पदानि सद्भूतानीत्येतत्प्ररूपयितव्यमिति ।।७३०-७३१॥
॥ प्रथम सत्पदद्वारम् ॥ तदेवमधिकारप्रारम्भे द्वारनामधेयानि व्याहत्य साम्प्रतं तेषु सत्पदादिद्वारेषु मूलाष्टप्रकृतिविश्यकस्थितिबन्धस्य संख्येयगुणाऽसंख्येयगुणवृद्धयादीनां सत्पद-स्वामित्वादिकं चिचिन्तयिषुरादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org