Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 635
________________ ५६२ ] बंधविहाणे मूलपयडिठिइबंधो [ भोघतश्चतुर्विधवृद्धिहान्युत्कृष्टान्तर० नाम्'-असंख्येयभाग-संख्येयभागा-ऽसंख्येयगुण-संख्येयगुणवृद्धिलक्षणानां स्थितिबन्धविशेषाणां तथा "तिविहहाणीण" ति त्रिविधानामसंख्यगुणहानिवर्जानां शेषाणामसंख्येयभाग-संख्येयभागसंख्येयगुणहानिलक्षणानां स्थितिवन्धविशेषाणां च प्रत्येकमित्यर्थः । अवशेषाया असंख्यगुणहानेजघन्यमन्तरमाह-"भिन्नमुहुत्त"मित्यादि, 'भिन्नमुहूर्तम् '-अन्तमुहूर्त 'लघु'-जघन्यमन्तरमसंख्य. गुणहान्या इति । तत्रा-संख्यगुणवृद्धिवर्जानां त्रिविधवृद्धीनां श्रेणिबहिर्वर्तिजीवानामपि सम्भवात् सामयिकावस्थानादिनाऽन्तरितत्वे जघन्यमन्तरं प्राप्यते । इदमुक्तं भवति-श्रेणिवाहि विस्थितिवन्धा न नियमतोऽन्तमुहूर्तमेव प्रवर्तन्ते, ततश्च त्रिविधवृद्धीनामन्यतमा वृद्धिं कृत्वा समयमवस्थाय तत्स्वामी पुनरप्यनन्तरसमये समयान्तरकृतसदृशीमेव त्रिविधान्यतमां स्थितिबन्धवृद्धिं करोति तदा एकसमयान्तरं प्राप्यते । इत्थमेव त्रिविधहान्यन्तरविषयेऽपि विज्ञेयम् , तासामपि श्रेणिबहिर्तिजीवानां सद्भावात् । असंख्यगणवद्धिस्तु यद्यपि श्रेणिबहिरपि भवति. तथाऽपि न सा येषां केषा. मपि पञ्चेन्द्रियाणां, किन्तु ये केचिदुपशमश्रेणी भवक्षयाद्देवतयोत्पन्नास्तेषां देवभवप्रथमसमयवर्तिनां केषाश्चिदेव, ततश्च यः कश्चित्प्रपतच्चारित्रमोहोपशमकस्तत्तत्कर्मणामसंख्यगुणस्थितिबन्धवृद्धि समयमेकं कृत्वा समयमेकं तावन्मात्रस्थितिं बध्नन् तत्रैवावस्थायाऽनन्तरसमये भवक्षयादेवतयोत्पघते, तस्य श्रेणिभावि-देवभवभाव्यसंख्यगणस्थितिवन्धवद्धयोः समयमाणावस्थितस्थितिबन्धेनान्तरितत्वादोघतो जवन्यमन्तरं समयमात्र प्राप्यते, नान्येन केनापि प्रकारेणेति । असंख्यगुणस्थितिबन्धहानेः स्वामिनस्तु केवलाः श्रेणि समारोहन्त उपशमकाः क्षपका वैव, न पुनर्भवप्रथमसमयवर्तिनो देवा अन्ये वा, किश्च श्रेणी प्रत्येकं स्थितिबन्धा आन्तमु हर्तिकाः, ततश्च लकदमंग्व्यगणहीनस्थितिबन्धं कृत्वा पुनरप्यसंख्यगुणहीनस्थितिवन्धं कुर्वतो जीवस्याऽसंख्यगणहानिद्वयमध्ये जघन्यतोऽप्यन्तमुहर्तकालोऽतिगच्छति, इत्थं चासंख्यगुणस्थितिबन्धहानेर्जघन्यः कालः शेषवृद्धिहानिकालवत् समयमात्रो न प्राप्यते, किन्तु जघन्यतोऽप्यन्तमुहूर्तमेवेति ।। ७५५।। अर्थतासामेवोत्कृष्टमन्तरमोघतः प्रचिकटयिषुर्गाथा यमाहउकोसमंतरं उ असंखेज्जइभागवढिहाणीणं । सत्तण्डं कम्माणं भिन्नमुहुत्तं मुणेयव्वं ॥७५६ ॥ परममसंखपरट्टा संखियभागगुणवढिहाणीणं । देसूणोऽद्धपरट्टो असंखगुणवड्ढिहाणीणं ॥ ७५७ ॥ (प्रे०) “उक्कोसमंतर"मित्यादि, आयुर्वर्जानां सप्तकर्मणामसंख्येयभागवृद्धिहान्योः प्रत्येकमुत्कृष्टमेकजीवाश्रयमन्तरं 'तु'-पुनः भिन्नमुहूर्तम्'-अन्तमुहूर्त ज्ञातव्यम् । संख्येयभागवृद्धिहान्योराह"परममसंख" इत्यादि, सप्तानां संख्येयभागसंख्येयगुणस्थितिवन्धवृद्धिहानीनां प्रत्येकं 'परमम्' For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762