Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 638
________________ संख्यगुणवृद्धिहान्युत्कृष्टान्तर० ] वृद्धयधिकारे ऽन्तरद्वारम् णासु तु प्रत्येकमसंख्यगुणस्थितिबन्धवृद्धेरित्यर्थः । तत्रा - ऽपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः केवलानां श्रेणिगतजीवानामेव प्रवेशेन स्वप्रायोग्यानां सर्वविधवृद्धयादिसत्पदानामौधिकासंख्यगुणहानेर्जघन्यान्तरवदन्तमुहूर्त प्रमाणमेव प्रस्तुतान्तरं प्राप्यते, न पुनः समयमात्रम् इत्यत ओघवदतिदिष्ट मध्यपोद्यान्तमुहूर्तमभिहितम् । मनुष्यगत्योघादिविंशतिमार्गणास्वपि देवानामप्रविष्टत्वात्सप्तानामसंख्येयगुणबुद्धेः प्रपतद्पशमकस्यैव जायमानत्वाच्चाधिका संख्येयगुणहानेरन्तरवत्सप्तानामसंख्यगुणवृद्धेरप्यन्तरं जघन्यतोऽन्तर्मुहूर्तमेव प्राप्यत इत्यपोद्य तथैवाभिहितम् । मनुष्यगत्योघादिमार्गणासु सप्तकर्मणां शेषस्थितिबन्धवृद्धिहानिसत्पदानां तथा मनुष्यगत्योघादिविंशतिमार्गणाः कार्मणकाययोगाऽनाहारकमार्गणेऽपगतवेदसूक्ष्मसम्परायसंयममार्गणे च परिहृत्य शेषसर्वमार्गणासु सर्वेषां स्थितिबन्धवृद्धिहानिसत्पदानां जघन्यमन्तरं सर्वथैवोघवद्भावनीयमिति ।। ७५८-७५९-७६०॥ तदेवमभिहितं सर्वमार्गणास्थानेषु सप्तानामसंख्येयभागबुद्धयादि स्थितिबन्धसत्पदानां जधन्यमन्तरम् | सम्प्रति तदेवोत्कृष्टतः प्रचिकटयिषुराह - पुव्वा कोडिपुहुत्तं गुरु असंखगुणवड्ढिहाणीणं । सत्तण्हं तिणरेसु ओघव्व अचक्खु भवियेसु ॥७६१॥ [ ५६५ (प्रे०) “पुव्वा कोडिपुहुत "मित्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनामसंख्यगुणवृद्धिहानिलक्षणद्विविधस्थितिबन्धयोः प्रत्येकं 'गुरु' - उत्कृष्ट मे कजीवाश्रितमन्तरं पूर्वकोटिपृथक्त्वम् । कासु मार्गणास्त्रित्याह - " तिणरेसु" ति अपर्याप्तभेदवर्जास तिसृषु मनुष्यगतिमार्गणास्वित्यर्थः । इदं हि भूयस्काराधिकारे प्रकृतमार्गणात्रये उपपादितावत्तथ्यस्थितिबन्धोत्कृष्टान्तरवदुपपादनीयम्, प्रत्येकं मार्गणानामेकजीवाश्रयोत्कृष्टकापस्थितः पूर्वकोटिपृथक्त्वाभ्यधिकत्रिपल्योपमप्रमाणत्वेऽपि 'सत्तट्ठभवा उ उक्कोसा' इत्यनेन तावत्या उत्कृष्टायाः काय स्थितेः पूरकभवेषु चरमे युग्मभवे एकविधाया अपि श्रेणेरसम्भवेनाऽसंख्यगुणवृद्धि हानीनामप्यसम्भवानं युग्मिभवं विहाय शेषभवनिष्पन्नोत्कृष्टकायस्थित्यनुसारेण तस्य लाभादिति । "ओघव्व अचक्खुभवियेसु" ति ओघवदचक्षुर्दर्शन- भव्यमार्गणयोः, सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकमुत्कृष्टमेक जीवाश्रितमन्तरमित्यनुवृच्या विज्ञेयम् । ततश्च मार्गणाद्वयेऽपि सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकमन्तरं देशोनार्थपुद्गलपरावर्तप्रमाणं प्राप्तम्, तच्चाविशेषेणौघवद्भावनीयम् प्रकृतमार्गणगतानां सप्तप्रकृतिसत्कासंख्यगुणस्थितिबन्धबुद्धिहानिस्वामिनामोघापेक्षयाऽविशेषादोघवन्मार्गणाद्वयस्यैकजीवाश्रितोत्कृष्टकाय स्थितेरनादित्वाच्चेति । ७६१ । अथ यासु मार्गणासु प्रस्तुतमायुर्वर्जसप्तप्रकृत्पसंख्यगुणस्थितिबन्धबुद्धिहान्यन्तरमुत्कृष्टतो मार्गणोत्कृष्टकाय स्थितितुल्यं ताः संगृह्य तत्राह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762