________________
संख्यगुणवृद्धिहान्युत्कृष्टान्तर० ] वृद्धयधिकारे ऽन्तरद्वारम्
णासु तु प्रत्येकमसंख्यगुणस्थितिबन्धवृद्धेरित्यर्थः । तत्रा - ऽपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोः केवलानां श्रेणिगतजीवानामेव प्रवेशेन स्वप्रायोग्यानां सर्वविधवृद्धयादिसत्पदानामौधिकासंख्यगुणहानेर्जघन्यान्तरवदन्तमुहूर्त प्रमाणमेव प्रस्तुतान्तरं प्राप्यते, न पुनः समयमात्रम् इत्यत ओघवदतिदिष्ट मध्यपोद्यान्तमुहूर्तमभिहितम् । मनुष्यगत्योघादिविंशतिमार्गणास्वपि देवानामप्रविष्टत्वात्सप्तानामसंख्येयगुणबुद्धेः प्रपतद्पशमकस्यैव जायमानत्वाच्चाधिका संख्येयगुणहानेरन्तरवत्सप्तानामसंख्यगुणवृद्धेरप्यन्तरं जघन्यतोऽन्तर्मुहूर्तमेव प्राप्यत इत्यपोद्य तथैवाभिहितम् । मनुष्यगत्योघादिमार्गणासु सप्तकर्मणां शेषस्थितिबन्धवृद्धिहानिसत्पदानां तथा मनुष्यगत्योघादिविंशतिमार्गणाः कार्मणकाययोगाऽनाहारकमार्गणेऽपगतवेदसूक्ष्मसम्परायसंयममार्गणे च परिहृत्य शेषसर्वमार्गणासु सर्वेषां स्थितिबन्धवृद्धिहानिसत्पदानां जघन्यमन्तरं सर्वथैवोघवद्भावनीयमिति ।। ७५८-७५९-७६०॥
तदेवमभिहितं सर्वमार्गणास्थानेषु सप्तानामसंख्येयभागबुद्धयादि स्थितिबन्धसत्पदानां जधन्यमन्तरम् | सम्प्रति तदेवोत्कृष्टतः प्रचिकटयिषुराह -
पुव्वा कोडिपुहुत्तं गुरु असंखगुणवड्ढिहाणीणं । सत्तण्हं तिणरेसु ओघव्व अचक्खु भवियेसु ॥७६१॥
[ ५६५
(प्रे०) “पुव्वा कोडिपुहुत "मित्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनामसंख्यगुणवृद्धिहानिलक्षणद्विविधस्थितिबन्धयोः प्रत्येकं 'गुरु' - उत्कृष्ट मे कजीवाश्रितमन्तरं पूर्वकोटिपृथक्त्वम् । कासु मार्गणास्त्रित्याह - " तिणरेसु" ति अपर्याप्तभेदवर्जास तिसृषु मनुष्यगतिमार्गणास्वित्यर्थः । इदं हि भूयस्काराधिकारे प्रकृतमार्गणात्रये उपपादितावत्तथ्यस्थितिबन्धोत्कृष्टान्तरवदुपपादनीयम्, प्रत्येकं मार्गणानामेकजीवाश्रयोत्कृष्टकापस्थितः पूर्वकोटिपृथक्त्वाभ्यधिकत्रिपल्योपमप्रमाणत्वेऽपि 'सत्तट्ठभवा उ उक्कोसा' इत्यनेन तावत्या उत्कृष्टायाः काय स्थितेः पूरकभवेषु चरमे युग्मभवे एकविधाया अपि श्रेणेरसम्भवेनाऽसंख्यगुणवृद्धि हानीनामप्यसम्भवानं युग्मिभवं विहाय शेषभवनिष्पन्नोत्कृष्टकायस्थित्यनुसारेण तस्य लाभादिति ।
"ओघव्व अचक्खुभवियेसु" ति ओघवदचक्षुर्दर्शन- भव्यमार्गणयोः, सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकमुत्कृष्टमेक जीवाश्रितमन्तरमित्यनुवृच्या विज्ञेयम् । ततश्च मार्गणाद्वयेऽपि सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकमन्तरं देशोनार्थपुद्गलपरावर्तप्रमाणं प्राप्तम्, तच्चाविशेषेणौघवद्भावनीयम् प्रकृतमार्गणगतानां सप्तप्रकृतिसत्कासंख्यगुणस्थितिबन्धबुद्धिहानिस्वामिनामोघापेक्षयाऽविशेषादोघवन्मार्गणाद्वयस्यैकजीवाश्रितोत्कृष्टकाय स्थितेरनादित्वाच्चेति । ७६१ ।
अथ यासु मार्गणासु प्रस्तुतमायुर्वर्जसप्तप्रकृत्पसंख्यगुणस्थितिबन्धबुद्धिहान्यन्तरमुत्कृष्टतो मार्गणोत्कृष्टकाय स्थितितुल्यं ताः संगृह्य तत्राह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org