________________
९६६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गपावसंख्यगुणवृद्धिहान्युत्कृष्टान्तर: . दुपणिंदितस-पुरिस-चउणाण-णयण-ओहि-संयमेसु तहा। ,
सम्म-खइअ-सण्णीसुआहारे ऊणकायठिई ॥७६२॥ .. (प्रे०) "दुपणिदि" इत्यादि, पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रियलक्षणयोर्द्वयोः पञ्चेन्द्रियभेदयोः 'दु'शब्दस्य 'वस' इत्यत्रापि योजनाद् द्वयोरपर्याप्तभेदवर्जितयोस्त्रसकायभेदयोः, पुरुषवेद-मत्यादिचतुर्ज्ञानेषु, “णयण"त्ति चक्षुर्दर्शनमाणाभेदे, अवविदर्शने, संयमोघे, तथा सम्यक्त्वौघ-क्षायिकसम्यक्त्व-संशिष्वाहारकमार्गणायां चेत्येवं समुदितासु षोडशमार्गणासु प्रत्येकम् “ऊणकायठिई” त्ति अन्तमुहूर्तादिलक्षणेनैकदेशेनोना तत्तत्पञ्चेन्द्रियौवादिमार्गणानामत्रैव स्थितिबन्धग्रन्थे द्वितीयाधिकारगतैकजीवाश्रितकालद्वारेऽभिहितोत्कृष्टा कायस्थितिः, सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकमुत्कृष्टमन्तरमिति प्राग्वदनुवृत्त्या विज्ञेयम् । एवमेवोत्तरत्रापि बोद्धव्यम् ।
अत्र भावना तु प्रत्येकमार्गणामूत्कृष्टकायस्थितिप्रारम्भप्रान्तसमासन्नभाविश्रेणियान्तरानुसारेण कर्तव्या, सप्तकर्मणामसंख्यगुणस्थितिवन्धवृद्धिहानीनां श्रेण्यधीनत्वात् । तद्यथा-पञ्चेन्द्रियोघमागेणाया एकजीवाश्रयोत्कृष्टकायस्थितिः साधिकं सागरोपमसहस्रम् । सा च नानापञ्चेन्द्रियभवैरेव पूरयितुं शक्यते । तत्र ये केचन मार्गणान्तरादागत्य संख्येयवर्षस्थितिकमनुष्यतयोत्पघाऽविलम्बेन यथाकालमुपशमश्रेणिमारुह्य क्रमेणानिवृत्तिवादरसम्परायगुणस्थाने ज्ञानावरणादीनां तत्तत्कर्मणां प्रथमतोऽसंख्येयगुणहीनस्थितिवन्धान् कृत्वा उपशान्तमोहगुणस्थानकं स्पृशन्ति; ततस्तूपशान्ताद्धाक्षयात्क्रमेण पतन्ति, न पुनः भवक्षयेण देवगतावुत्पद्यन्ते; पश्चात्तु नानाभवैः पञ्चेन्द्रियौघमार्गणाया उत्कृष्टकायस्थिति निर्वाह्योत्कृष्टकायस्थितेश्वरमे संख्येयवर्षस्थितिके भवे मनुष्यतया वर्तमानाः सन्तो भवप्रान्तान्तमुहूर्ते क्षपकश्रेणिमारुह्य पुनरपि ज्ञानावरणादीनां तत्तत्कर्मणामसंख्येयगुणस्थितिबन्धहानि कुर्वन्ति, तैर्जीवविशेषैः कायस्थितिप्रारम्भसमासन्नप्रवत्तोपशमश्रेणी निर्वतितासंख्यगुणस्थितिबन्धहानेस्तया कायस्थितिप्रान्तसमासन्नवर्तिक्षपकश्रेणी विहितासंख्यगुणस्थितिवन्धहान्योर्यदन्तरं तदुत्कृष्टान्तरतया प्राप्यते, तच्च देशोनपञ्चेन्द्रियोत्कृष्टकायस्थितिप्रमाणमितिकृत्वा तथैवाभिहितम् । इत्थमेव शेषपर्याप्तपञ्चेन्द्रियादिपञ्चदशमार्गणास्वपि यथासम्भवं देशोना उत्कृष्टकायस्थितिः प्रकृतोत्कृष्टान्तरं विज्ञेयम् । भावनाऽपि तत्र यथोक्तरीत्या स्वयमेव कर्तव्येति । एतासु पञ्चेन्द्रियोधादिमार्गणासु सप्तानामसंख्यगणस्थितिवन्धवृद्वेरुत्कृष्टान्तरमप्युक्तरीत्यैवोपपादनीयम्, केवलं कायस्थितिप्रान्तभागे द्वितीयवारमप्युपशान्ताद्धाक्षयेण प्रपतत एवासंख्यगुणवृद्धिद्रष्टव्या। क्षपकश्रेणौ वृद्धरसम्भवादिति भावः ॥७६२।। अथ यासु मार्गणासु सप्तानामसंख्यगुणस्थितिबन्धवृद्विहान्यन्तरमुत्कृष्टतोऽन्तर्मुहूर्तमानं ता उपचित्याह
पणमणवय-काय-उरल-थी-णपुम-अवेअ-चउकसायेसु। समइअ-छेअ-सुइल-उवसमेसु णेयं मुहत्तंतो ॥७६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org